By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: श्रीमद्भागवतप्रवचनम्- १५ ।। सत्यभाषणपूर्वकं तथा ब्रह्मचर्यपालनपूर्वकं सदैव भागवतकथायाः श्रवणम् अत्यन्तम् उत्तमम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > श्रीमद्भागवतप्रवचनम् > श्रीमद्भागवतप्रवचनम्- १५ ।। सत्यभाषणपूर्वकं तथा ब्रह्मचर्यपालनपूर्वकं सदैव भागवतकथायाः श्रवणम् अत्यन्तम् उत्तमम्
श्रीमद्भागवतप्रवचनम्नारदोपाध्यायः

श्रीमद्भागवतप्रवचनम्- १५ ।। सत्यभाषणपूर्वकं तथा ब्रह्मचर्यपालनपूर्वकं सदैव भागवतकथायाः श्रवणम् अत्यन्तम् उत्तमम्

डॉ.अमनदीप शर्मा
Last updated: 2025/07/21 at 7:01 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

श्रीमद्भागवतप्रवचनम्- १५
कुमाराः वदन्तः आसन् यत्, नारद! सत्यभाषणपूर्वकं तथा ब्रह्मचर्यपालनपूर्वकं सदैव भागवतकथायाः श्रवणम् अत्यन्तम् उत्तमं मन्यते । परन्तु कलियुगे एतत् कठिनं, प्रायः न सम्भवेद्वा; तस्मात् शुकदेवेन यः विशेषविधिः निर्दिष्टः वर्तते, सः ज्ञातव्यः। कलियुगे बहुदिनानि यावत् चित्तवृत्तीनां वशीकरणं, नियमबद्धता, पुण्यकार्यार्थं दीक्षितता इत्यादिकं कठिनकार्यम्; तस्मात् सप्ताहश्रवणस्य विधिः वर्तते। श्रद्धापूर्वकं कदाचिदपि श्रवणेन, अथवा माघमासे श्रवणेन यत्फलं प्राप्यते, तदेव फलं श्रीशुकदेवेन सप्ताहश्रवणात् लभ्यते इति निर्दिष्टमस्ति। मनसः असंयमः, रोगाणां बहुलता, अल्पायुः इत्यादिकारणतः, तथा कलियुगे बहूनां दोषाणां सम्भावनातः हि सप्ताहश्रवणस्य विधानं कृतं वर्तते। यत्फलं तपसा, योगेन, समाधिना चापि न प्राप्यते, तत् सर्वाङ्गरूपेण कृतेन सप्ताहश्रवणेन, सहजतया हि उपलभ्यते। सप्ताहश्रवणं यज्ञात् व्रतात्, तपसः चापि उत्कृष्टतरं वर्तते। किमधिकम्! एतत् सप्ताहश्रवणं सर्वसाधनम् अतिक्रम्य गर्जति।
शौनकः पृष्टवान्- सूतवर्य! एतत्तु भवता आश्चर्यकरं वचनं कथितम्। अवश्यमपि इदं भागवतपुराणं योगवेत्तुः ब्रह्मदेवस्य अपि आदिकारणं श्रीनारायणं निरूपयति; परन्तु एतत् कथानकं मोक्षप्राप्तिकराणां ज्ञानादिसर्वसाधनानाम् अपि तिरस्कारं कृत्वा, तेभ्यः साधनेभ्यः अपि कथम् उत्कृष्टतां गतम्?
सूतदेवः अकथयत्- शौनक! यदा भगवान् श्रीकृष्णः एतत् धराधाम परित्यज्य स्वकीयं नित्यधाम प्रति गन्तुम् उद्यतः अभवत्, तदा तस्य श्रीमुखात् एकादशस्कन्दस्य ज्ञानोपदेशं विश्रुत्य अपि उद्धवः एवं पृष्टवान्- ‘गोविन्द! भक्तानां कार्यं विधाय अधुना त्वं परमधाम यास्यसि, परन्तु मन्मनसि एका महती चिन्ता विद्यमाना अस्ति, तच्छ्रुत्वा माम् आश्वासय, सुखञ्च यच्छ। इतः परं शीघ्रमेव घोरकलिकालः समागच्छेत्, तस्मात् संसारे पुनः अनेके दुष्टाः प्रादुर्भवेयुः; तेषां संसर्गेण यदा बहवः सज्जनाः अपि उग्रमतयः भवेयुः, तदा तेषां भारेण भारयुता गोरूपा इयं पृथ्वी कस्य शरणम् आगच्छेत्? हे कमलनयन! अहं तु भवदतिरिच्य अस्याः रक्षकम् अपरं न कमपि पश्यामि। तस्मात् कारणात् भक्तवत्सल प्रभो! त्वं साधूनामुपरि कृपां विधाय, इतः मा क्वापि गच्छ । त्वं स्वयं निराकारः तथा चिन्मात्रमेव सन्नपि भक्तकल्याणार्थं हि एनं सगुणरूपं धृतवान् असि नु? तव वियोगात् ते भक्तजनाः पृथ्व्यां कथं स्थातुमर्हेयुः? निर्गुणोपासनं तु कष्टकरमेव, अतः इतोऽपि विचारय भगवन्! इति, शुभम्। (माहात्म्यम् -०३/४६-५९)
-नारदः।

You Might Also Like

श्रीमद्भागवतप्रवचनम्- १६।।भक्तानाम् अवलम्बनार्थं मम किं कर्तव्यम्

श्रीमद्भागवतप्रवचनम् -१३।। भागवत्कथायाः श्रवणार्थम् आगताः गङ्गादिनद्यः, पुष्करादयः सरोवराः, कुरुक्षेत्रादीनि समस्तक्षेत्राणि, सर्वाः दिशः, दण्डकादीनि वनानि, हिमालयादयः पर्वताः

श्रीमद्भागवतप्रवचनम् -१२।। श्रीशुकदेवेन कथितं भागवतकथामृतम् अनुसृत्य यत्नपूर्वकं समुज्ज्वलं च ज्ञानयज्ञं करिष्यामि

श्रीमद्भागवतप्रवचनम् -११।। सनकादयः उक्तवन्तः – नारदमुने ! द्रव्ययज्ञः, तपोयज्ञः, योगयज्ञः, स्वाध्यायरूपः ज्ञानयज्ञः च इत्येते तु स्वर्गसुखपराः

श्रीमद्भागवतप्रवचनम् -१०।। नारदस्य वदरीवनं प्रति गमनम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article श्रावणमासः- डाॅ महेश शर्मा
Next Article सीबीएसई विद्यालयानां प्रत्येकस्मिन् कोणे सीसीटीवी-कैमरा आवश्यकाः सन्ति, छात्राणां सुरक्षायै निर्णयः कृतः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?