श्रीमद्भागवतप्रवचनम्- १६
प्रभासक्षेत्रे उद्भवस्य वचनमिदं विश्रुत्य भगवान् चिन्तितवान् यत् भक्तानाम् अवलम्बनार्थं मम किं कर्तव्यम् इति। शौनक! तदा भगवान् स्वकीयां समस्तशक्तिं भागवते संस्थापितवान्। सः तिरोधाय एतं भागवतसमुद्रं सहसा प्रविष्टवान्। तस्मात् भागवतं भगवतः साक्षात् शब्दमयी मूर्तिः कथ्यते। अस्य सेवनं, श्रवणं, पठनं, दर्शनम् इत्यादिभिः मनुष्यस्य समस्तपापं नश्यति। तस्मादेव अस्य सप्ताहश्रवणस्य महत्वम् अत्यधिकम्। कलियुगे तु अन्यत् सर्वसाधनं विहाय एकमात्रम् भागवतमेव मुख्यधर्मः कथ्यते। अस्मिन् काले एषः एतादृशः धर्मोऽस्ति यत्, यद्दुःखं, दारिद्र्यं, दौर्भाग्यं, पापं च, तत्सर्वमपि प्रक्षालयति, तथा कामक्रोधादिशत्रून् वशीकर्तुं मनुष्याय महत्सामर्थ्यं प्रददाति। अन्यथा अस्याः मायायाः पारं तर्तुं देवानामपि कठिनतमं कार्यं स्यात्, एवं स्थिते मनुष्यस्य का कथा? अतः मायातः मुक्तिं लब्धुमेव सप्ताहश्रवणस्य विधानं कृतं कर्तते।
सूतवर्यः उक्तवान्- शौनक! यस्मिन् समये सनकादिमुनीश्वराः एवं प्रकारेण सप्ताहश्रवणस्य महत्त्वं कथयन्तः आसन्, तत्समये सभायाम् एकं महदाश्चार्यम् अभवत्; तदहं त्वां श्रावयामि, शृणु। तत्र तरुणावस्थां प्राप्तवन्तौ द्वावपि पुत्रौ सहैव स्थापयित्वा विशुद्धा प्रेमरूपा भक्तिः वारं वारं ‘श्रीकृष्ण, गोविन्द, हरे, मुरारे, हे नाथ, नारायण, वासुदेव!’ इत्यादीनां भगवन्नामानाम् उच्चारणं कुर्वती, अकस्मादेव प्रकटीभूता। सर्वे सदस्याः दृष्टवन्तः यत् सुन्दरी भक्तिराज्ञी भागवतस्य अर्थरूपम् आभूषणं धृत्वा तत्र समागता। तत्सभायां सर्वे मुनयः तर्कयितुम् आरब्धवन्तः यत्, एषा अत्र कुतः आगता, सभां च कथं प्रविष्टवती इति। तदा सनकादयः अकथयन्- ‘एषा भक्तिदेवी सद्य एव कथायाः अर्थतः समुद्भूता अस्ति’ इति। तेषाम् एतद्वचनं विश्रुत्य भक्तिः अत्यन्तं विनयपूर्वकम् अब्रवीत्- ‘मुनीश्वराः! अहं कलियुगे नष्टप्राया आसम्, भवन्तः कथामृतेन सीकित्वा मां पुनः अधुना पुष्टां कृतवन्तः सन्ति। इदानीं भवन्तः वदन्तु यत् क्वाहं तिष्ठामि सम्प्रति?’ इति। एतच्छ्रुत्वा सनकादयः तां प्रति उक्तवन्तः- ‘त्वं भक्तेभ्यः भगवत्स्वरूपं प्रददासि, तथा अनन्यप्रेमभावस्य सम्पादिका एवं संसाररोगस्य हन्त्री असि; अतः त्वं धैर्यं धृत्वा नित्यं निरन्तरं च विष्णुभक्तानां हृदयेषु निवस। कलियुगदोषः यावदपि समस्तसंसारं पीडयतु नाम, किन्तु तत्र तवोपरि तस्य दृष्टिः न कदापि पतितुमर्हेत्’ इति। एवं प्रकारेण तेषाम् आज्ञायाः प्राप्तेरनन्तरं हि सा सत्वरं भक्तानां हृदयेषु संगम्य विराजमाना अभूत्।
यस्य हृदये एकमात्रं श्रीहरिभक्तिः निवसति, सः त्रैलोक्ये अत्यन्तं निर्धनः एव स्यान्नाम, परं सः परमधन्यः कथ्यते, यतोहि भक्तिसूत्रेण निबद्धः साक्षात् भगवान् अपि स्वपरमधाम परित्यज्य तस्य हृदि समागत्य निवसति। भूलोके एतत् भागवतं साक्षात् परब्रह्मणः विग्रहः अस्ति, वयं तस्य महत्तां वर्णयितुं न शक्नुमः। एतत् आश्रित्य श्राव्यते चेत् वक्ता, श्रोता चेति उभयोरपि श्रीकृष्णेन सह समत्वं सञ्जायते। अतः एतद्विहाय अन्यधर्माणां का आवश्यकता अत्र इति, शुभम्। (माहात्म्यम् -०३/६०-७४)
इति श्रीपद्मपुराणोत्तरखण्डे श्रीमद्भागवतमाहात्म्ये सरलभाषानुवादे भक्तिकष्टनिवर्तनं नाम तृतीयोऽध्यायः।
।।श्रीकृष्णार्पणमस्तु।।
-नारदः।