श्रीमद्भागवतप्रवचनम् -१०
सूतदेवः शौनकं प्रति कथयन् आसीत् यत् तत्समये नारदः अत्यन्तं चिन्तातुरः जातः, ततः सः बदरीवनं प्रति प्रस्थितः। ज्ञान-वैराग्ययोः जागरणार्थं तेन निश्चितं कृतं यत् ‘अहं तपश्चरामि’ इति । तस्मिन्नेव काले सः स्वस्य पुरतः कोटिशः सूर्यसमानान् तेजस्विनः सनकादिमुनीश्वरान् दृष्टवान् । तान् दृष्ट्वा नारदः एवं वक्तुम् आरभत ।
नारदः अब्रवीत् – महात्मानः ! अस्मिन् समये महता भाग्येन भवद्भिः सह मे सङ्गमः जातः । ममोपरि कृपां विधाय शीघ्रं हि भवद्भिः तत्साधनम् उच्यताम् । भवन्तः सर्वे अपि योगिनः, बुद्धिमन्तः एवं विद्वांसः सन्ति । भवन्तः पञ्चवर्षीयाः बालकाः इव दृश्यन्ते, चेदपि पूर्वजानामपि पूर्वजाः सन्ति । भवन्तः सदा वैकुण्ठधाम्नि निवसन्ति, निरन्तरं हरिकीर्तने हि तत्पराः सन्ति, भगवतः लीलामृतस्य रसास्वादनं कृत्वा तस्मिन्नेव उन्मत्ताः तिष्ठन्ति, एवञ्च एकमात्रं भगवत्कथा हि भवतां जीवनाधारः वर्तते । ‘हरिः शरणम्’ इतीदं वाक्यं सर्वदा भवतां मुखे वसति ; तस्मात् कालप्रेरिता वृद्धावस्था अपि भवतः न कदापि बाधते । पूर्वस्मिन् काले भवतां भ्रूभङ्गमात्रेण भगवतः विष्णोः द्वारपालौ जयविजयौ सत्वरं भूमौ निपतितौ, तथा भवतां हि कृपया तौ पुनः वैकुण्ठलोकं प्रत्यागतौ । धन्याः भवन्तः ! अहो भाग्यस्य योगेन भवताम् अत्र दर्शनं जातं मे । अहम् अत्यन्तं दीनोऽस्मि, तथा भवन्तः स्वभावेन हि दयापराः सन्ति; तस्मात् मयि दीने भवद्भिः दयापरैः अवश्यम् अनुग्रहः कर्तव्यः । उच्यताम्, आकाशवाणी यस्य विषये उक्तवती, तत् कीदृशं साधनं स्यात्, एवं मया केन प्रकारेण तस्य अनुष्ठानं करणीयम् ? भवन्तः अस्मिन् विषये सविस्तरं वर्णयन्तु । भक्तिः, ज्ञानः, वैराग्यः च सुखं केन प्रकारेण प्राप्नुयुः ? एवं केन विधिना एते प्रेमपूर्वकं सर्ववर्णेषु संस्थापयितुं शक्याः ?
ततः सनकादयः उक्तवन्तः – देवर्षे ! त्वं चिन्तां मा कुरु, मनसा प्रसन्नः तिष्ठ ; तेषाम् उद्धारस्य सरलोपायः पूर्वतः हि विद्यमानोऽस्ति । नारद ! त्वं धन्योऽसि, विरक्तानां शिरोमणिः असि, एवं श्रीकृष्णदासानाम् अग्रणीः, शाश्वतमार्गप्रदर्शकश्च असि । भवान् भक्त्यर्थं यत् उद्योगं कुर्वन् अस्ति, तत् भवतः कृते न कोऽपि आश्चर्यकरः विषयः । भगवद्भक्तैः भक्तिः सम्यक्तया स्थापनीया इति तु समुचितमेव सदा । ऋषिभिः अनेके मार्गाः प्रकटीकृताः, ते सर्वे कष्टसाध्याः, स्वर्गफलप्रदाः च । इतः पर्यन्तं भगवत्प्राप्तिकरः मार्गस्तु गोप्यः हि वर्तते । तस्य मार्गस्य उपदेष्टा पुरुषस्तु प्रायः सौभाग्येन हि लभ्यते । सा आकाशवाणी भवदुदिश्य यद्वचनम् उक्तवती, यत् सत्कार्ययुक्तं साधनं सङ्केतवती च, तत् वयम् अवश्यमेव वदिष्यामः, भवान् प्रसन्नः तथा समाहितचित्तः सन् शृणोतु इति, शुभम् । (माहात्म्यम् -०२/४३-५८)
— नारदः ।