श्रावणमासः
श्रावणमासः हिन्दूधर्मे अत्यन्तं पुण्यपरम्परायुक्तः मासः। अयं मासः देवाधिदेवमहादेवस्य आराधनाय समर्पितः इत्येव प्रतिपद्यते। विशेषतया सोमवारेषु सम्पाद्यमानं व्रतं “श्रावण- सोमव्रतम्” इत्यभिधीयते।
श्रवणमासे सम्प्राप्ते, जलधरमण्डलीभूत- गगनमण्डलेऽपि शीतलमेघप्रवर्षणसहितं पवित्रवातावरणं निर्मीयते। अस्मिन्नेव मासे गङ्गाविष्णुप्रसादितशिवलिङ्गाभिषेकसमारम्भाः, बिल्वपत्रार्पणक्रमशः, धूप- दीप- कुसुम- नैवेद्य- समर्पणपूर्वकं शिवपूजनं, च अत्यन्तं श्रद्धया निष्पाद्यते। श्रावणस्य सोमवासरेषु नक्तव्रतपालनपूर्वकं जलाहारव्रतं, सत्यसङ्कल्पयुक्तं प्रदोषकालपूजनम्, महादेवस्य षोडशोपचार- नियमपूजनविधिः, रुद्राष्टाध्यायीपारायणम्, रुद्राभिषेकसंस्कारः, अत्यन्तं पुण्यदायकानि साधनानि सन्ति। एतेषु सोमवारेषु कृतं पूजनं सर्वपापप्रशमनकारणम्,
आरोग्यसौभाग्यवृद्धिकरम्, सकलाभीष्टसिद्धिप्रदायकम्, गृहक्लेशविनाशकं च भवति। श्रावणस्य सोमव्रतं कान्तिकल्पसमर्पितस्त्रीजनैः, धर्मपरायणैः गृहस्थैः, मोक्षाभिलाषिभिः संन्यासिभिः च, प्रत्येकशः श्रद्धापूर्वकं पालनार्ह स्मृतम्।
शास्त्रेषु उक्तम्-
“श्रावणे शिवपूजा च सोमवारे विशेषतः।
बिल्वपत्रैः समायुक्ता सा देवं तुष्यती ध्रुवम्॥”
एवं सम्यगुपास्य भगवान् रुद्रः भक्तानां सर्वान् अभिलाषितफलान् प्रदत्तुं स पवृत्तो भवति। श्रावण-सोमव्रतस्य महिमा कल्पान्तपर्यन्तवर्णनीयः इत्युक्तं व्रतशास्त्रेषु।
डाॅ महेश शर्मा
दर्शन विभागाध्यक्ष
सम्पूर्णानन्द संस्कृत विश्वविद्यालयङ्गभूत महाविद्यालय वाराणसी