श्रीमद्भागवतप्रवचनम् -१३
सूतदेवः सौनकं प्रति वदन् आसीत् यत् गङ्गादिनद्यः, पुष्करादयः सरोवराः, कुरुक्षेत्रादीनि समस्तक्षेत्राणि, सर्वाः दिशः, दण्डकादीनि वनानि, हिमालयादयः पर्वताः, तथैव देव-गन्धर्व-दानवादयः सर्वेऽपि कथायाः श्रवणार्थं समागताः। ये स्वगौरवकारणतः नागताः, तान् अपि महर्षिः भृगुः सम्बोध्य तत्र आनयत्। ततः कथां श्रावयितुं श्रीकृष्णपरायणाः सनकादयः दीक्षिताः सन्तः नारदेन दत्तस्य श्रेष्ठासनस्योपरि विराजमानाः अभवन्। तत्समये सर्वैः श्रोतृभिः ते कुमाराः वन्दिताः आसन्। श्रोतृषु वैष्णवाः, विरक्ताः, संन्यासिनः, ब्रह्मचारिणः च मुखभागे उपविष्टवन्तः, तेषाम् अग्रभागे च नारदः विराजमानः अभवत्। एकस्मिन् भागे ऋषिगणः, अपरस्मिन् भागे देवगणः, एवं क्वचित् वेदोपनिषदादयः, क्वचित् तीर्थानि, तथा अन्यभागे स्त्रियः इत्येवं प्रकारेण स्वस्वस्थाने सर्वे कथां श्रोतुम् उपविष्टवन्तः। तदा सर्वतः जयशब्दः, नमस्कारः, शङ्खध्वनिः इत्यादिभिः तत्कथास्थानं सुमहत् जातम्। चूर्णलाजापुष्पादीनां वर्षणम् अभवत्। केचन देवनायकाः विमानानि समारुह्य श्रोतृगणस्योपरि कल्पवृक्षपुष्पाणां वर्षणं कृतवन्तः। सूतः अब्रवीत्- एवं प्रकारेण पूजासमाप्तेः अनन्तरं सर्वे एकाग्रचित्ताः सञ्जाताः, ततः सनकादिमहर्षयः महात्मानं नारदम् अभिलक्ष्य श्रीमद्भागवतमाहात्म्यं स्पष्टतया श्रावयितुम् आरब्धवन्तः।
सनकादयः उक्तवन्तः- इदानीं वयं भवदुद्दिश्य अस्य भागवतशास्त्रस्य महत्त्वं श्रावयामः। अस्य श्रवणमात्रेण मुक्तिः हस्तगता भविष्यति। श्रीमद्भागवतकथा सदा सर्वदा सेवनीया, आस्वादनीया च कल्याणकामिभिः। अस्याः श्रवणमात्रेण श्रीहरिः हृदयम् आश्रित्य विराजते। अस्मिन् ग्रन्थे अष्टादशसहस्र- सङ्ख्यकाः श्लोकाः, द्वादशस्कन्धाः च सन्ति, यश्च ग्रन्थः श्रीशुकदेव- परीक्षितयो: मध्ये प्रवर्तितः संवादरूपः वर्तते। भवान् एतत् भागवतशास्त्रं ध्यानपूर्वकं शृणोतु। जीवोऽयम् अज्ञानवशतः तावत्पर्यन्तम् अस्मिन् संसारचक्रे भ्रमति, यावत् क्षणार्थम् अपि कर्णाभ्याम् एनां शुकशास्त्रकथां सः न शृणुयात्, न वा पठेदेव। बहूनां शास्त्रपुराणादीनां श्रवणेन न कोऽपि लाभः, एते तु भ्रमावहाः केवलम्। मुक्तिप्रदानाय तु एकमात्रं भागवतशास्त्रं हि सक्षमं वर्तते लोके। यस्मिन् गृहे प्रतिदिनं श्रीमद्भागवतस्य स्वाध्यायः भवति, तद्गृहं तीर्थरूपं भवति, ये तस्मिन् गृहे निवसन्ति, तेषां सर्वपापानि नश्यन्ति। सहस्रशः अश्वमेधयज्ञानां, तथा शतशः वाजपेययज्ञानां महिमा यावान् स्यात्, सः तु अस्याः शुकशास्त्रकथायाः षोडशांशः अपि भवितुं नार्हति इति, शुभम्।
(माहात्म्यम्- ०३/१६-३०)
-नारदः ।