By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: श्रीमद्भागवतप्रवचनम् -१३।। भागवत्कथायाः श्रवणार्थम् आगताः गङ्गादिनद्यः, पुष्करादयः सरोवराः, कुरुक्षेत्रादीनि समस्तक्षेत्राणि, सर्वाः दिशः, दण्डकादीनि वनानि, हिमालयादयः पर्वताः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > नारदोपाध्यायः > श्रीमद्भागवतप्रवचनम् -१३।। भागवत्कथायाः श्रवणार्थम् आगताः गङ्गादिनद्यः, पुष्करादयः सरोवराः, कुरुक्षेत्रादीनि समस्तक्षेत्राणि, सर्वाः दिशः, दण्डकादीनि वनानि, हिमालयादयः पर्वताः
नारदोपाध्यायःश्रीमद्भागवतप्रवचनम्

श्रीमद्भागवतप्रवचनम् -१३।। भागवत्कथायाः श्रवणार्थम् आगताः गङ्गादिनद्यः, पुष्करादयः सरोवराः, कुरुक्षेत्रादीनि समस्तक्षेत्राणि, सर्वाः दिशः, दण्डकादीनि वनानि, हिमालयादयः पर्वताः

डॉ.अमनदीप शर्मा
Last updated: 2025/07/20 at 7:06 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

श्रीमद्भागवतप्रवचनम् -१३

सूतदेवः सौनकं प्रति वदन् आसीत् यत् गङ्गादिनद्यः, पुष्करादयः सरोवराः, कुरुक्षेत्रादीनि समस्तक्षेत्राणि, सर्वाः दिशः, दण्डकादीनि वनानि, हिमालयादयः पर्वताः, तथैव देव-गन्धर्व-दानवादयः सर्वेऽपि कथायाः श्रवणार्थं समागताः। ये स्वगौरवकारणतः नागताः, तान् अपि महर्षिः भृगुः सम्बोध्य तत्र आनयत्। ततः कथां श्रावयितुं श्रीकृष्णपरायणाः सनकादयः दीक्षिताः सन्तः नारदेन दत्तस्य श्रेष्ठासनस्योपरि विराजमानाः अभवन्। तत्समये सर्वैः श्रोतृभिः ते कुमाराः वन्दिताः आसन्। श्रोतृषु वैष्णवाः, विरक्ताः, संन्यासिनः, ब्रह्मचारिणः च मुखभागे उपविष्टवन्तः, तेषाम् अग्रभागे च नारदः विराजमानः अभवत्। एकस्मिन् भागे ऋषिगणः, अपरस्मिन् भागे देवगणः, एवं क्वचित् वेदोपनिषदादयः, क्वचित् तीर्थानि, तथा अन्यभागे स्त्रियः इत्येवं प्रकारेण स्वस्वस्थाने सर्वे कथां श्रोतुम् उपविष्टवन्तः। तदा सर्वतः जयशब्दः, नमस्कारः, शङ्खध्वनिः इत्यादिभिः तत्कथास्थानं सुमहत् जातम्। चूर्णलाजापुष्पादीनां वर्षणम् अभवत्। केचन देवनायकाः विमानानि समारुह्य श्रोतृगणस्योपरि कल्पवृक्षपुष्पाणां वर्षणं कृतवन्तः। सूतः अब्रवीत्- एवं प्रकारेण पूजासमाप्तेः अनन्तरं सर्वे एकाग्रचित्ताः सञ्जाताः, ततः सनकादिमहर्षयः महात्मानं नारदम् अभिलक्ष्य श्रीमद्भागवतमाहात्म्यं स्पष्टतया श्रावयितुम् आरब्धवन्तः।
सनकादयः उक्तवन्तः- इदानीं वयं भवदुद्दिश्य अस्य भागवतशास्त्रस्य महत्त्वं श्रावयामः। अस्य श्रवणमात्रेण मुक्तिः हस्तगता भविष्यति। श्रीमद्भागवतकथा सदा सर्वदा सेवनीया, आस्वादनीया च कल्याणकामिभिः। अस्याः श्रवणमात्रेण श्रीहरिः हृदयम् आश्रित्य विराजते। अस्मिन् ग्रन्थे अष्टादशसहस्र- सङ्ख्यकाः श्लोकाः, द्वादशस्कन्धाः च सन्ति, यश्च ग्रन्थः श्रीशुकदेव- परीक्षितयो: मध्ये प्रवर्तितः संवादरूपः वर्तते। भवान् एतत् भागवतशास्त्रं ध्यानपूर्वकं शृणोतु। जीवोऽयम् अज्ञानवशतः तावत्पर्यन्तम् अस्मिन् संसारचक्रे भ्रमति, यावत् क्षणार्थम् अपि कर्णाभ्याम् एनां शुकशास्त्रकथां सः न शृणुयात्, न वा पठेदेव। बहूनां शास्त्रपुराणादीनां श्रवणेन न कोऽपि लाभः, एते तु भ्रमावहाः केवलम्। मुक्तिप्रदानाय तु एकमात्रं भागवतशास्त्रं हि सक्षमं वर्तते लोके। यस्मिन् गृहे प्रतिदिनं श्रीमद्भागवतस्य स्वाध्यायः भवति, तद्गृहं तीर्थरूपं भवति, ये तस्मिन् गृहे निवसन्ति, तेषां सर्वपापानि नश्यन्ति। सहस्रशः अश्वमेधयज्ञानां, तथा शतशः वाजपेययज्ञानां महिमा यावान् स्यात्, सः तु अस्याः शुकशास्त्रकथायाः षोडशांशः अपि भवितुं नार्हति इति, शुभम्।
(माहात्म्यम्- ०३/१६-३०)
-नारदः ।

You Might Also Like

श्रीमद्भागवतप्रवचनम्- १६।।भक्तानाम् अवलम्बनार्थं मम किं कर्तव्यम्

श्रीमद्भागवतप्रवचनम्- १५ ।। सत्यभाषणपूर्वकं तथा ब्रह्मचर्यपालनपूर्वकं सदैव भागवतकथायाः श्रवणम् अत्यन्तम् उत्तमम्

श्रीमद्भागवतप्रवचनम् -१२।। श्रीशुकदेवेन कथितं भागवतकथामृतम् अनुसृत्य यत्नपूर्वकं समुज्ज्वलं च ज्ञानयज्ञं करिष्यामि

श्रीमद्भागवतप्रवचनम् -११।। सनकादयः उक्तवन्तः – नारदमुने ! द्रव्ययज्ञः, तपोयज्ञः, योगयज्ञः, स्वाध्यायरूपः ज्ञानयज्ञः च इत्येते तु स्वर्गसुखपराः

श्रीमद्भागवतप्रवचनम् -१०।। नारदस्य वदरीवनं प्रति गमनम्

TAGGED: श्रीमद्भागवतप्रवचनम्
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article राष्ट्रीयवार्ताः- केन्द्रीयमन्त्री अमितशाहः उत्तराखण्डस्य रुद्रपुरे कोटिरूप्यकाणां विविधविकासकार्याणां उ‌द्घाटनम् कृतवान्
Next Article हिमाचल-राजकीय-संस्कृत-शिक्षक-परिषदः आभासीया संगोष्ठी सम्पन्ना
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?