By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: श्रीमद्भागवतप्रवचनम् -१२।। श्रीशुकदेवेन कथितं भागवतकथामृतम् अनुसृत्य यत्नपूर्वकं समुज्ज्वलं च ज्ञानयज्ञं करिष्यामि
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > नारदोपाध्यायः > श्रीमद्भागवतप्रवचनम् -१२।। श्रीशुकदेवेन कथितं भागवतकथामृतम् अनुसृत्य यत्नपूर्वकं समुज्ज्वलं च ज्ञानयज्ञं करिष्यामि
नारदोपाध्यायःश्रीमद्भागवतप्रवचनम्

श्रीमद्भागवतप्रवचनम् -१२।। श्रीशुकदेवेन कथितं भागवतकथामृतम् अनुसृत्य यत्नपूर्वकं समुज्ज्वलं च ज्ञानयज्ञं करिष्यामि

डॉ.अमनदीप शर्मा
Last updated: 2025/07/19 at 7:04 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

श्रीमद्भागवतप्रवचनम् -१२
(तृतीयोऽध्यायः)
नारदः अब्रवीत् – इदानीमहं भक्तिज्ञानविरागाणां स्थापनार्थं श्रीशुकदेवेन कथितं भागवतकथामृतम् अनुसृत्य यत्नपूर्वकं समुज्ज्वलं च ज्ञानयज्ञं करिष्यामि । यज्ञोऽयं मया कुत्र कर्तव्यः, भवद्भिः तत्स्थानम् उच्यताम् । भवन्तः वेदपारगाः सन्ति, तस्मात् शुकशास्त्रमहिमा कीदृशोऽस्ति इति मां श्रावयन्तु । एतदपि उच्यतां यत् श्रीमद्भागवतकथा कियद्भिः दिवसैः श्राव्या, श्रावणविधिः च कः ?
सनकादयः अकथयन् – नारदवर्य ! त्वम् अतीव विनीतः, विवेकी च असि । शृणु, एतत्सर्वं वदिष्यामः। हरिद्वारसमीपे आनन्दनामकं तटमस्ति । तत्र अनेके ऋषयः निवसन्ति, तथा देवताः, सिद्धजनाः चापि तेषां सेवां कुर्वन्तः तिष्ठन्ति । विविधवृक्षलतादीनां स्थितिकारणतः तत्स्थलं सघनं, नवकोमलवालुकं च वर्तते । तत् तटम् सुरम्यम्, एकान्तक्षेत्रं च वर्तते, तत्र च अनवरतं स्वर्णमयकमलानां सुगन्धः प्रसरति । तत्र स्थितानां वन्यपशूनां चेतसि अपि पारस्परिकः वैरभावः न विद्यते । तत्र भवान् विशेषप्रयत्नं विना हि ज्ञानयज्ञम् आरभताम्, तस्मिन् स्थाने कथातः अपूर्वरसः उत्पद्यते । भक्तिरपि निर्बलाभ्यां जराजीर्णकाययुक्ताभ्यां स्वपुत्राभ्यां सह तत्र आगमिष्यति । यतोहि यत्र श्रीमद्भागवतकथा प्रवर्तते, तत्र भक्त्यादयः सज्जनाः स्वयमेव उपस्थिताः भवन्ति । श्रवणेन्द्रिये यदा कथाध्वनिः पतिष्यति, तदा एते त्रयः अपि तरुणाः भविष्यन्ति, नात्र सन्देहः इति ।
सूतः शौनकं प्रति अकथयत् – एवम् उक्त्वा नारदेन सह सनकादयः श्रीमद्भागवतामृतस्य पानार्थं ततः सत्वरं निर्गत्य गङ्गातटं प्राप्तवन्तः। यदा ते तत्र उपस्थिताः आसन्, तदा भूलोकः, देवलोकः, ब्रह्मलोकः चेति सर्वत्र च कथाविषयकः प्रचारः, जनेषु कोलाहलः च समुद्भूतः । ये, ये भगवत्कथारसिकाः, विष्णुभक्ताः आसन्, ते सर्वे श्रीमद्भागवतकथामृतस्य पानार्थं तत्र धावन्तः समागतवन्तः । भृगुः, वसिष्ठः, च्यवनः, गौतमः, मेधातिथिः, देवलः, देवरातः, परशुरामः, विश्वामित्रः, शाकलः, मार्कण्डेयः, दत्तात्रेयः, पिप्पलादः, योगेश्वरौ व्यासपराशरौ, छायाशुकः, जाजलिः, जह्रुः इत्यादयः सर्वे प्रधानमुनयः स्वकीयैः स्त्रीपुत्रशिष्यैः सह महता प्रेम्णा तत्र समागतवन्तः । तदुपरि वेदः, उपनिषदः, मन्त्राः, तन्त्राः, सप्तदशपुराणानि, षट्शास्त्राणि चापि मूर्तिमन्तः भूत्वा तत्र समुपस्थिताः अभवन् इति, शुभम् । (माहात्म्यम् – ०३/०१-१५)
— नारदः ।

You Might Also Like

श्रीमद्भागवतप्रवचनम्- १६।।भक्तानाम् अवलम्बनार्थं मम किं कर्तव्यम्

श्रीमद्भागवतप्रवचनम्- १५ ।। सत्यभाषणपूर्वकं तथा ब्रह्मचर्यपालनपूर्वकं सदैव भागवतकथायाः श्रवणम् अत्यन्तम् उत्तमम्

श्रीमद्भागवतप्रवचनम् -१३।। भागवत्कथायाः श्रवणार्थम् आगताः गङ्गादिनद्यः, पुष्करादयः सरोवराः, कुरुक्षेत्रादीनि समस्तक्षेत्राणि, सर्वाः दिशः, दण्डकादीनि वनानि, हिमालयादयः पर्वताः

श्रीमद्भागवतप्रवचनम् -११।। सनकादयः उक्तवन्तः – नारदमुने ! द्रव्ययज्ञः, तपोयज्ञः, योगयज्ञः, स्वाध्यायरूपः ज्ञानयज्ञः च इत्येते तु स्वर्गसुखपराः

श्रीमद्भागवतप्रवचनम् -१०।। नारदस्य वदरीवनं प्रति गमनम्

TAGGED: श्रीमद्भागवतप्रवचनम्
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article श्रीमद्भागवतप्रवचनम् -११।। सनकादयः उक्तवन्तः – नारदमुने ! द्रव्ययज्ञः, तपोयज्ञः, योगयज्ञः, स्वाध्यायरूपः ज्ञानयज्ञः च इत्येते तु स्वर्गसुखपराः
Next Article राष्ट्रीयवार्ताः- केन्द्रीयमन्त्री अमितशाहः उत्तराखण्डस्य रुद्रपुरे कोटिरूप्यकाणां विविधविकासकार्याणां उ‌द्घाटनम् कृतवान्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?