श्रीमद्भागवतप्रवचनम् -११
सनकादयः उक्तवन्तः – नारदमुने ! द्रव्ययज्ञः, तपोयज्ञः, योगयज्ञः, स्वाध्यायरूपः ज्ञानयज्ञः च इत्येते तु स्वर्गसुखपराः, एवं कर्मप्रेरकाः, साधनपराः च सन्ति । पण्डिताः ज्ञानयज्ञं हि सत्कर्मणः सूचकं मन्यन्ते । ज्ञानयज्ञः नाम श्रीमद्भागवतस्य पारायणम् इति, यस्य गानं शुकादिमहानुभावैः कृतं वर्तते । तच्छब्दस्य श्रवणमात्रेण हि भक्तिः, ज्ञानः, वैराग्यः चेति एतेषां महद्बलं वर्धते । अनेन ज्ञान-वैराग्ययोः कष्टम् अपगच्छेत्, एवं भक्तिः सुखं प्राप्नुयात् । सिंहगर्जनात् यथा मृगाः इतस्ततः धावेयुः, तद्वत् श्रीमद्भागवतस्य ध्वन्या कलियुगस्य समस्तदोषाः दूरीभविष्यन्ति । तदा प्रेमरसस्य प्रवाहिका भक्तिः, ज्ञान-वैरागाभ्यां सहैव स्थित्वा प्रत्येकं गृहेषु, जनानां हृदयेषु च क्रीडां करिष्यति इति ।
नारदः अब्रवीत् – महात्मानः ! मया तु तदर्थं बहुधा प्रयासः कृतः, वेद-वेदान्तानां ध्वनिः उच्चैः श्रावितः, असकृत् गीतापाठः विहितः, परन्तु तस्मादपि ते न जागरिताः । एवं स्थिते श्रीमद्भागवतस्य श्रावणेन ते कथं वा जागरिताः भवेयुः ? यतोहि तत्कथायाः प्रत्येकं श्लोकपदादिषु वेदस्य हि तु सारांशः विद्यते ननु ? भवन्तः शरणागतवत्सलाः सन्ति, एवं भवतां दर्शनं न कदापि व्यर्थं भवति ; अतः मदीयम् एनं सन्देहं दूरीकुर्वन्तु, अस्मिन् कार्ये विलम्बः मास्तु इति ।
ततः सनकादयः उक्तवन्तः – नारद ! श्रीमद्भागवतकथा वेदोपनिषदां सारेण हि निर्मिता अस्ति । अतः तेभ्यः पृथक् फलरूपा स्यात् इत्यतः कथेयं महती उत्तमा अस्तीति भाति । यथा, वृक्षस्य रसः मूलभागतः शाखाप्रशाखापर्यन्तं प्रसरति, सर्वत्र वा तिष्ठति, परन्तु अस्यां स्थितौ तस्य आस्वादनं न क्रियते; स एव यदा पृथग्भूत्वा फलरूपे आयाति, तदा जगति सः सर्वेषां प्रियः, मधुरः च भवति इति । एवमेव दुग्धे नवनीतं तिष्ठति, परन्तु दुग्दपानसमये तस्य पृथक् स्वादः न प्राप्यते, परन्तु यदा तत् पृथक् भवति, तदा देवानामपि तत् स्वादवर्धकं भवति । तथैव ईक्षुदण्डेऽपि सर्वत्र, मध्यान्तं वा शर्करा व्यापकरूपेण तिष्ठति, तथापि पृथग्भूता सा अधिका मिष्टा भवति । तद्वत् इयं भागवती कथापि विराजमाना अस्ति । एतद् भागवतं नाम पुराणं वेदसमानम् अस्ति । श्रीव्यासदेवेन भक्तिज्ञानविरागाणां स्थापनाय एव एतत् प्रकाशितम् अस्ति । पुराकाले यस्मिन् समये वेदवेदान्तानां पारगामी एवं गीतायाः प्रणेता भगवान् व्यासदेवः खिन्नमनस्कः सन् अज्ञानसमुद्रे पतितः आसीत्, तस्मिन् एव समये भवान् तमुद्दिश्य चतुःश्लोकसमन्वितं भागवतम् आदिष्टवान् आसीत् । तत् श्रुत्वा हि तस्य समस्तचिन्ता दूरीभूता ।
पुनरस्मिन् विषये भवतः आश्चर्यं कुतः, यत् भवान् अस्मान् एव प्रश्नं पृच्छन्नस्ति ? अतः भवान् तदेव दुःखशोकादीनां विनाशकं श्रीमद्भागवतपुराणं श्रावयेत् इति ।
नारदः अकथयत् – महानुभावाः ! भवतां दर्शनं जीवानां समस्तपापानि तत्काले हि नष्टं करोति, तथा ये संसारिकदुःखरूपेण दावानलेन सन्तप्ताः स्युः, तेषामुपरि तत् शीघ्रं हि शान्तिरूपां वर्षां करोति । भवन्तः निरन्तरं शेषस्य सहस्रमुखेभ्यः निसृतस्य भगवत्कथामृतस्य हि पानं कुर्वन्तः सन्ति । अहं प्रेमलक्षणायाः भक्त्याः प्रकाशनोद्देशेन भवतां शरणं गृह्णामि । यदा मनुष्यस्य अनेकेषां जन्मनां सञ्चितं पुण्यपुञ्जम् उदेति, तदा सः सत्सङ्गं लभते, तस्मात् तस्य अज्ञानजन्यः मोहः विनाशतां गच्छति, ततश्च तस्य सद्विवेकः उदेति इति, शुभम् । (माहात्म्यम् -०२/५९-७६)
इत्थं श्रीपद्मपुराणोत्तरखण्डान्तर्गते श्रीमद्भागवतमाहात्म्ये सरलानुवादेऽस्मिन् कुमारनारदसंवादो नाम द्वितीयोऽध्यायः सम्पन्नः ।
।। श्रीकृष्णार्पणमस्तु ।।
— नारदः ।