राष्ट्रीयवार्ताः- केन्द्रीयमन्त्री अमितशाहः उत्तराखण्डस्य रुद्रपुरे सप्तत्युत्तर-द्विशताधिकैकसहस्र-कोटिरूप्यकाणां विविधविकासकार्याणां उद्घाटनम्, शिलान्यासञ्च कृतवान्
हिमसंस्कृतवार्ता: – केन्द्रीय-गृहमन्त्री अमितशाहः रुद्रपुरे उत्तराखण्डसर्वकारस्य एकसप्तत्यधिक-द्विशतोत्तरैकसहस्र-कोटिरूप्यकाणां विविधकार्याणां उद्घाटनं शिलान्यासं चाकरोत् । श्रीशाहः पञ्चविंशत्यधिक-द्विसहस्र-तमवर्षस्य उत्तराखण्डनिवेशमहोत्सवे देशस्य निवेशकैः उद्यमिभिः च सह संवादं कृतवान्। अस्मिन् अवसरे जनान् सम्बोधयन् मन्त्री अवदत् यत् यावत् उत्तराखण्ड-सदृशानां लघुराज्यानां प्रगतिः न भविष्यति तावत् देशस्य विकासः न भविष्यति, अतः केन्द्रसर्वकारेण लघुराज्यानां पूर्वीराज्यानां च विकासे विशेष ध्यानं प्रदत्तम् अस्ति। श्रीशाहः अवदत् यत् अद्य उत्तराखण्डे एकलक्षकोटिरूप्यकाणां निवेशेन एकाशीतिसहस्राधिकानि वृत्यवसराणि सृज्यन्ते । श्रीशाहः राज्यस्य मुख्यमन्त्रिणः प्रशंसां कुर्वन् पुष्करसिंहधामी इत्यस्य औद्योगिकविकासस्य पर्यावरणस्य च मध्ये सन्तुलनं स्थापितवान् इति अवदत् ।
विकसित-भारतस्य लक्ष्यं साधयितुं भारतं द्रुतगत्या अग्रे सरतिः- केन्द्रीयमन्त्री अश्विनीवैष्णवः
हिमसंस्कृतवार्ता: – केन्द्रीयमन्त्री अश्विनीवैष्णवः अवदत् यत् विकसित्-भारतम् इति लक्ष्यं प्राप्त्यर्थं प्रौद्योगिकीय-आधारः द्रुतगत्या सज्जीभवति । आई.आई. टि.-हैदराबादे दीक्षान्तसमारोहे भारतस्य प्रौद्योगिक्याधारितं भविष्यं प्रकाशयन्, सः छात्रान् विश्व-स्तरीय-प्रौद्योगिक्योत्पादनानि च परिकल्पयितुं उद्बोधितवान्। श्रीवैष्णवः अस्मिन् वर्षे भारतस्य प्रथमस्वदेशीयस्य सेमिकण्डक्टर्-चिप् इत्यस्य प्रकाशनस्य उद्घोषणां कृतवान्, यत्र षट् सेमिकण्डक्टर्-संयन्त्राणि निर्मीयमाणानि सन्ति, येन भारतं प्रमुख-वैश्विक-पात्ररूपेण स्थाप्यते । अवसरेस्मिन् श्रीवैष्णवः रेल-परिष्कारविषये अपि अवधानं दत्तवान्, सप्तविंशत्यधिक-द्विसहस्रतमे वर्षे प्रथमस्य बुलेट् रेल् यानस्य आरम्भः भविष्यति, तथैव चेन्नई-नगरे निर्मितस्य तृतीय-वंदेभारत-संस्करणस्य निर्माणम् अपि भविष्यति। श्रीवैष्णवेन कृत्रिम-बुद्धिमत्तायाः प्रशिक्षण-कार्यक्रमाणां रूपरेखायाः स्थापनेन सह सप्तचत्वारिन्शदधिक-द्विसहस्रतम-वर्ष यावत् आर्थिक रुपेण उन्नतयोः द्वयोः राष्ट्रयोः एकं भारतम् अपि भवेदिति भावना प्रकटिता ।
प्रवर्तन-निदेशालयेन आनलाइन-बेटिंग एप्- इति प्रकरणानां विषये गूगल् -मेटा चेत्युभाभ्यां संचेतना प्रदत्ता
हिमसंस्कृतवार्ता: – प्रवर्तन-निदेशालयेन आनलाइन-बेटिंग एप्- इति प्रकरणानां विषये गूगल, मेटा चेत्युभाभ्यां संचेतना प्रदत्ता। सूत्रानुसारेण ई. डी. इत्यनेन सोमवासरे देहली-मुख्यालये उपस्थातुं उभयोः संस्थयोः प्रतिनिधी आहूतौ। एतेषां आनलाइन-बेटिंग-एप्स् इत्यस्य प्रचारार्थं डिजिटल-प्लेट्फ़ार्म्स इत्यस्य भूमिकामपि निदेशालयः परीक्षते ।
इजराइल-सिरिया-देशौ युद्धविरामाय सहमतौ अभवताम्-अमेरिकादेशस्य राजदूतः टाम् बराक्
हिमसंस्कृतवार्ता: – इजराइलदेशेन सिरिया देशस्य उपरि कृतमाक्रमणानन्तरं तुर्की-देशस्थः अमेरिकादेशस्य राजदूतः टाम् बराक् इत्येषः अवदत् यत् इजराइल-सिरिया-देशौ युद्धविरामाय सहमतौ अभवताम् । ध्यातव्यम् अस्ति यत् इजराइलदेशानुसारम् अरबस्थानां ड्रूज़ इति अल्पसङ्ख्यकमतानुयायिनां रक्षणाय आक्रमणमिदम् आसीत्। सिरिया-देशस्य दीर्घकालीनशासकस्य बशर्-अल्-असद् इत्यस्य पतनात् आरभ्य सर्वकारीय-सैनिकानां ड्रूज़-जनानाम् च मध्ये सङ्घर्षेषु अनेके जनाः मृताः। युद्धविरामस्य घोषणा तदा अभवत् यदा सिरिया-देशस्य दक्षिण-स्वीडा-प्रान्ते ड्रूज़-समूहानां बेडोयिन्-समुदायानां च मध्ये सङ्घर्षः निरन्तरतया प्रचलन्नासीत्, येन त्रिशताधिकजनाः मृताः, अस्मिन् क्षेत्रे सहस्रशः जनाः विस्थापिताः च अभवन्, येन मानवीयसङ्कटः प्रारब्धः । अत्रान्तरे तुर्कि-देशस्य राष्ट्रपतिः रिसेप् तय्यिप् एर्डोगान् इत्येषः रशियादेशस्य राष्ट्रपतिना व्लादिमिर पुतिन इत्यनेन सह दूरभाषया वार्तालापं कृत्वा सिरियादेशस्य संघर्षः, सम्पूर्णक्षेत्रस्य स्थिरतायै भयावहः अस्ति इति चिन्तां प्रकटितवान् ।
प्रधानमन्त्री नरेन्द्रमोदी स्वातन्त्र्ययोद्धां मङ्गलपाण्डे-वर्यमपि तस्य जन्मवार्षिकदिने श्रद्धाञ्जलिम् अर्पितवान्
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी स्वातन्त्र्ययोद्धां मङ्गलपाण्डे-वर्यमपि तस्य जन्मवार्षिकदिने श्रद्धाञ्जलिम् अर्पितवान्। एकस्मिन् सामाजिक-प्रसार-माध्यमे श्रीमोदी मङ्गलपाण्डे इत्येनं देशस्य प्रमुखः योद्धा इति प्रशंसाम् कुर्वन् उक्तवान् यत् सः ब्रिटिश्-शासनं विरुध्य स्वतन्त्रतायै समुपस्थितः अभवत् । मङ्गलपाण्डे वर्यस्य शौर्यस्य कथा राष्ट्रस्य जनानां कृते निरन्तरं प्रेरणास्रोतः भविष्यति इति सः अवदत् ।
केन्द्रीय-गृह-मन्त्री अमितशाहः अपि मङ्गलपाण्डे इत्यस्मै सामाजिक-प्रसार-माध्यमद्वारा श्रद्धाञ्जलिम् अददात्, सः तस्मै देशभक्तेः प्रेरकः इति अवोचत्, विद्रोहस्य ज्वालायाः प्रज्वालने तस्य महत्त्वपूर्णां भूमिकां च अङ्गीकृतवान्।
संसदस्य मानसून सत्रात् पूर्वं सर्वकारेण सर्व-पक्षीय-सभा आहूता
हिमसंस्कृतवार्ता: – सोमवासरतः आरभमाणस्य संसदस्य मानसून सत्रात् पूर्वं सर्वकारेण सर्व-पक्षीय-सभा आहूता। सभायां, सर्वकारः संसद: उभयसदनयोः सुकरप्रक्रियां निश्चेतुं सर्वेभ्यः राजनैतिकदलानां सहयोगं याचते। अस्य मासस्य एक-विंशतिः दिनाङ्कात् अग्रिममासस्य एक-विंशतिः दिनाङ्कपर्यन्तं प्रावृट्-सत्रस्य आयोजनं भविष्यति। सत्रे अनेके महत्त्वपूर्णाः विधयः चर्चायै, अंगीकाराय च स्वीकृताः भविष्यन्ति ।