By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: श्रीमद्भागवतप्रवचनम् -०९।। सूतदेवस्य शौनकस्य च संवादः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > नारदोपाध्यायः > श्रीमद्भागवतप्रवचनम् -०९।। सूतदेवस्य शौनकस्य च संवादः
नारदोपाध्यायःश्रीमद्भागवतप्रवचनम्

श्रीमद्भागवतप्रवचनम् -०९।। सूतदेवस्य शौनकस्य च संवादः

डॉ.अमनदीप शर्मा
Last updated: 2025/07/18 at 7:00 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

श्रीमद्भागवतप्रवचनम् -०९

सूतदेवः शौनकं प्रति कथयन् आसीत् यत्, एवं प्रकारेण बुभुक्षया, तृष्णया च ज्ञान-वैराग्यौ अत्यन्तं पीडितौ आस्ताम् इत्यतः तौ पुनः शयानौ अवलोक्य नारदः महान् चिन्तापरः जातः, अचिन्तयत् यत् ‘इदानीं मया किं कर्तव्यम् ? अनयोः इयं निद्रा, एवम् इतोऽपि महत्तरं वार्धक्यं च कथं दूरीभवेताम् ?’ इति।
शौनक ! एवं प्रकारेण वारं वारं चिन्तयन् सः भगवतः स्मरणं कर्तुम् आरभत । तस्मिन् एव समये आकाशवाणी अभवत् यत् ‘ मुने ! मा खिद्यस्व, तव उद्योगोऽयं निःसन्देहं सफलीभविष्यति । देवर्षे ! एतदर्थं त्वम् एकं सत्कर्म कुरु, तत्कर्मविषये त्वां साधुशिरोमणिः कश्चन वदिष्यति, तेन कर्मानुष्ठानेन तत्क्षणात् अनयोः निद्रा, वृद्धावस्था च अपगमिष्यतः, तथा सर्वत्र भक्तेः प्रसारणं भविष्यति’ इति । इयम् आकाशवाणी सर्वैरपि स्पष्टं श्रुता । अनया वचसा नारदः महान् विस्मितः जातः, अकथयत् च – ‘अहो, अस्य वचनस्य तात्पर्यं न ज्ञातं मया !’ इति ।
नारदः अब्रवीत् – ‘अनया आकाशवाण्या तु गुप्ततया हि काचित् वाक् कथिता । एतन्न उक्तं यत्, तत् कीदृशं साधनम् आचरणीयं, यस्माच्च अनयोः कार्यसिद्धिः भवितुमर्हेत् ? सः साधुः क्व स्यात् ? केन प्रकारेण, कदा च तत्साधनं वदेत् ? आकाशवाणी यत् उक्तवती, तदर्थं मया किं कर्तव्यम् ?’ इति ।
सूतदेवः अकथयत् – शौनक ! ज्ञान-वैराग्यौ तत्रैव संस्थाप्य नारदः ततः निर्गतः, एवं प्रत्येकं तीर्थं सम्प्राप्य मार्गेषु मिलितवतः मुनीश्वरान् तत्साधनं किमिति प्रष्टुम् आरभत । नारदस्य प्रश्नयुक्तं वचनं तु सर्वेऽपि श्रुतवन्तः, परन्तु निश्चितम् उत्तरं न कोऽपि तस्मै दत्तवान् । प्रश्नं विश्रुत्य केचन तु तत् असाध्यमिति उक्तवन्तः, केचन एतस्य निर्णयः कठिनः एवेति अकथयन्, इतरे केचन मूकवत् अभवन्, एवं कियन्तस्तु ततः पलायितवन्तः इति । त्रैलोक्ये महान् आश्चर्यकरः हाहाकारः सञ्जातः । जनाः परस्परं कर्णात् कर्णं प्रति श्रावयितुम् आरब्धवन्तः – ‘अरे भ्रातः! यदा वेदध्वनिः, वेदान्तघोषः, असकृत् गीतापाठः च इत्यादेः श्रावणात्, प्रबोधनात् चापि भक्तिः, ज्ञानः, वैराग्यः च त्रयोऽपि न उत्थितवन्तः, एवं स्थिते तेषां जागरणाय तु अपरः न कोऽपि उपायः दृश्यते । यदा स्वयं योगिराजस्य नारदस्य अपि तद्विषयकं ज्ञानं नाभवत्, तर्हि वराकः संसारी मनुष्यः तत् कथं वक्तुं शक्नुयात् ?’ इति । इत्थं प्रकारेण नारदः यान् यान् ऋषीन् अस्मिन् विषये पृष्टवान्, ते सर्वे निर्णयं कृत्वा एतदेव उक्तवन्तः यत्, ‘वाक् इयं दुःसाध्या एव’ इति, शुभम् । (माहात्म्यम् -०२/२९-४२)
— नारदः ।

You Might Also Like

श्रीमद्भागवतप्रवचनम्- १६।।भक्तानाम् अवलम्बनार्थं मम किं कर्तव्यम्

श्रीमद्भागवतप्रवचनम्- १५ ।। सत्यभाषणपूर्वकं तथा ब्रह्मचर्यपालनपूर्वकं सदैव भागवतकथायाः श्रवणम् अत्यन्तम् उत्तमम्

श्रीमद्भागवतप्रवचनम् -१३।। भागवत्कथायाः श्रवणार्थम् आगताः गङ्गादिनद्यः, पुष्करादयः सरोवराः, कुरुक्षेत्रादीनि समस्तक्षेत्राणि, सर्वाः दिशः, दण्डकादीनि वनानि, हिमालयादयः पर्वताः

श्रीमद्भागवतप्रवचनम् -१२।। श्रीशुकदेवेन कथितं भागवतकथामृतम् अनुसृत्य यत्नपूर्वकं समुज्ज्वलं च ज्ञानयज्ञं करिष्यामि

श्रीमद्भागवतप्रवचनम् -११।। सनकादयः उक्तवन्तः – नारदमुने ! द्रव्ययज्ञः, तपोयज्ञः, योगयज्ञः, स्वाध्यायरूपः ज्ञानयज्ञः च इत्येते तु स्वर्गसुखपराः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article श्रीमद्भागवतप्रवचनम् -०८।। देवर्षिनारद-भक्त्योः संवादः
Next Article इन्दौर-नगरेण पुनः भारतस्य स्वच्छतमनगरत्वस्य उपाधिः प्राप्ता
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?