श्रीमद्भागवतप्रवचनम् -०८
देवर्षिः भक्तिदेव्याः पुरस्तात् स्वकथनम् अनुवर्तयन्नस्ति यत् तपः, वेदाध्ययनं, ज्ञानं, कर्म इत्यादिभिः साधनैः भगवान् न कदापि वशीकर्तुं शक्यते । सः केवलं भक्त्या हि वशीभूतः स्यात्, इत्यत्र गोपिकाः प्रमाणम् । मनुष्याणां सहस्रशः जन्मनां पुण्यप्रभावात् हि भक्तौ प्रीतिः जायते । कलियुगे केवला भक्तिः हि सारभूता अस्ति । भक्तिबलात् तु साक्षात् श्रीकृष्णचन्द्रः सम्मुखीभवति । यः मनुष्यः भक्त्यै द्रुह्यति, सः त्रिषु एव लोकेषु दुःखात्परं दुःखम् अधिगच्छति । पुराकाले भक्तानां तिरस्कारं कुर्वाणः दुर्वासा ऋषिः बहुकष्टं सोढवान् आसीत् । अलं बहुचर्चया ; व्रतं, तीर्थं, योगः, यज्ञः, ज्ञानचर्चा इत्यादिसाधनानां न कापि आवश्यकता, एकमात्रं भक्तिः हि मुक्तिं दातुं समर्था अस्तीति ।
सूतदेवः अकथयत् – एवं प्रकारेण नारदेन निर्णीतं स्वमाहात्म्यं विश्रुत्य भक्तिदेव्याः समस्ताङ्गानि पुष्टानि अभवन्, ततः सा तं प्रति वक्तुम् आरब्धवती ।
भक्तिः अवदत् – नारदवर्य ! त्वं धन्योऽसि । तव मयि निश्चला प्रीतिः विद्यते । अहं सदैव तव हृदये स्थास्यामि, न कदापि त्वां परित्यज्य निर्गमिष्यामि । साधो ! त्वम् अतीव कृपालुः असि । त्वं क्षणात् हि मम समस्तं दुःखम् उत्पाटितवान् । परन्तु मम पुत्रयोः इदानीमपि चेतना नागता ; त्वं कृपया एतौ शीघ्रं हि सचेतौ कुरु, बोधय चेति ।
सूतः उक्तवान् – भक्त्याः एतद्वचनं विश्रुत्य नारदः करुणान्वितः जातः, तदा सः तयोः बोधनार्थं कराभ्यां तौ विमर्दयितुं, कम्पयितुं च आरब्धवान् । पुनः तयोः कर्णान्ते मुखं संयोज्य उच्चैः आकारितवान् – ‘अयि, ज्ञान ! शीघ्रं प्रबुध्यताम् । रे, वैराग्य ! उत्तिष्ठ !’ इति । पुनः नारदेन कृतैः मुहुर्मुहुः वेदवेदान्तघोषैः, गीतापाठैः च बोध्यमानौ तौ कथञ्चित्, बलात् वा उत्थितौ । परन्तु आलस्यवशात् तौ वारं वारं जृम्भन्तौ आस्तां, नेत्रे उद्घाट्य द्रष्टुमपि अशक्तौ जातौ । बकवत् पलितकेशौ तौ प्रायः शुष्ककाष्ठसमाङ्गकौ, जठरौ च आस्ताम् इति, शुभम् । (माहात्म्यम् -०२/१८-२८)
— नारदः ।