श्रीमद्भागवतप्रवचनम् -०७
(द्वितीयोऽध्यायः)
नारदः अब्रवीत् – बाले ! त्वं वृथा हि स्वयम् एवं किमर्थं खिद्यसे ? अहो, त्वं एतावती चिन्तातुरा किमर्थम् ? भगवतः श्रीकृष्णस्य चरणकमलं चिन्तय, तस्य कृपया तव समस्तं दुःखम् अपगमिष्यति । यस्मात् कौरवाणाम् अत्याचारेभ्यः द्रौपदी रक्षिता, एवं गोपसुन्दर्यः सनाथाः जाताः, सः श्रीकृष्णः न क्वापि गतः । पुनश्च त्वं भक्तिः असि, सदैव तस्य प्राणेभ्यः अपि प्रियतमा असि, त्वया आहूतः चेत् सः नीचगृहेष्वपि याति । सत्य-त्रेता-द्वापरेषु त्रियुगेषु ज्ञान-वैराग्यौ मुक्तिसाधकौ आस्तां, किन्तु कलियुगे एकाकिनी भक्तिः हि ब्रह्मसायुज्यदात्री, अर्थात् मोक्षदात्री वर्तते । एतद्विचार्य हि परमानन्दचिन्मूर्तिः ज्ञानस्वरूपः श्रीहरिः स्वकीयेन सत्स्वरूपेण त्वां व्यरचयत् , अतः त्वं साक्षात् श्रीकृष्णचन्द्रस्य प्रिया एवं परमा सुन्दरी असि । एकदा त्वं बद्धहस्ता सती पृष्टवती आसीत् ‘किं करोम्यहम् ?’ इति, तदा भगवान् त्वाम् आदिष्टवान् यत् ‘मद्भक्तान् पोषय’ इति । त्वं भगवतः एनाम् आज्ञां स्वीकृतवती ; अस्मात् तवोपरि श्रीहरिः अत्यन्तं प्रसन्नः जातः, तथा तव सेवार्थं तां मुक्तिं तुभ्यं दासीत्वेन प्रदत्तवान्, एवं ज्ञान-वैराग्यौ च त्वत्पुत्रत्वेन तुभ्यं प्रदत्तवान् आसीत् । त्वं स्वकीयेन साक्षात् स्वरूपेण वैकुण्ठधाम्नि हि भक्तानां पोषणं करोषि, परं भूलोके तु केवलं त्वं तेषां पुष्ट्यर्थं हि छायारूपेण तिष्ठसि ।
तदा त्वं मुक्ति-ज्ञान-वैराग्यैः सह पृथ्वीतले आगतवती, एवं सत्ययुगतः द्वापरपर्यन्तम् अत्यन्तं प्रसन्नतया अतिष्ठः । कलियुगे मुक्तिः पाखण्डरूपेण रोगेण पीडिता भूत्वा क्षीणतां गता, तस्मात् सा तवाज्ञया सत्वरं वैकुण्ठलोकं प्रति प्रस्थितवती । अस्मिन् लोके अपि तव स्मरणात् सा पुनः प्रत्यागन्तुमर्हेत्, पुनश्च प्रत्यागच्छेत् । परन्तु एतौ ज्ञानवैराग्यौ स्वपुत्रौ मत्वा त्वं सहैव स्थापितवती । पुनरपि कलियुगे एतयोः उपेक्षाकारणतः त्वदीयौ एतौ पुत्रौ उत्साहहीनौ, वृद्धौ च अभवताम् । त्वं चिन्तां मा कुरु, अहम् अनयोः नवजीवनस्य उपायं चिन्तयिष्यामि । सुमुखि ! कलियुगसमानं न अन्यत् किमपि युगं स्यात्, अस्मिन् युगे त्वाम् अहं प्रत्येकं गृहेषु, प्रत्येकं जनानां हृदयेषु च स्थापयिष्यामि । पश्य, इतरधर्मान् तिरस्कृत्य तथा भक्तिसम्बद्धान् महोत्सवान् पुरस्कृत्य च, यदि अहं लोके तव प्रचारं न कुर्यां, तर्हि नाहं कदापि श्रीहरेः दासः स्याम् ।
अस्मिन् कलियुगे यः जीवः त्वयि युक्तः स्यात्, सः पापी एव भवेन्नाम, सः अपि सहजतया भगवतः श्रीकृष्णस्य अभयं धाम प्राप्नुयात् । यस्य हृदये निरन्तरं प्रेमरूपिणी भक्तिः निवसति, सः शुद्धान्तःकरणः पुरुषः स्वप्नेऽपि यमराजं न पश्यति । यस्य हृदये भक्तिमहाराज्ञी विराजमाना भवेत्, तं प्रेत-पिशाच-राक्षसादयः स्प्रष्टुम् अपि न प्रभवेयुः इति, शुभम् । (माहात्म्यम् -०२/०१-१७)
— नारदः ।
श्रीमद्भागवतप्रवचनम् -०७।। नारदभक्त्योः संवादः

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment