श्रीमद्भागवतप्रवचनम् -०६
कलियुगं मया न हन्तव्यमिति एवं कथनान्तरं भक्तिदेव्यै तस्याः प्रश्नानाम् उत्तरं नारदः ददत् वर्तते । कलियुगं न हन्तव्यं, यतोहि यत् फलं तपस्यया, योगेन, समाधिना च न प्राप्यते, तदेव फलम् अस्मिन् कलियुगे केवलं हरिनामकीर्तनेन हि सम्यक् प्राप्तुं शक्यते । यद्यपि युगमिदं सारहीनं, तथापि एकया दृष्ट्या सारयुक्तम् अवलोक्य तेन परीक्षिता अस्मिन् युगे उत्पन्नानां जीवानां सुखार्थं हि तत् रक्षितम् आसीत् ।
अस्मिन् काले जनाः कुकार्येषु प्रवृत्ताः स्युः, इत्यतः वस्तूनां सारोऽपि निर्गतः, एवं पृथ्व्याः समस्तपदार्थाः तुषवत् सारहीनाः सञ्जाताः सन्ति । ब्राह्मणः केवलम् अन्नधनादीनां लोभवशीभूतः सन् गृहे गृहे, एवं जने जने भागवतकथां श्रावयितुम् आरब्धवान्, अतः कथासारः ततः निर्गतः । तीर्थेषु नानाविधाः कुकर्मिणः, नास्तिकाः एवं व्यभिचारिणः, असज्जनाः वा स्थातुम् आरब्धवन्तः, तस्मात् तीर्थप्रभावः अपगतः । येषां चित्तं कामः क्रोधः, अतिलोभः, तृष्णा इत्यादिभिः निरन्तरं सन्तप्तं स्यात्, तादृशाः अपि घोरतपस्यायाः नाटकं कुर्वन्तः परिलक्ष्यन्ते, एतेषां कारणतः तपसः सारः बहिर्भूतः । मनोनिग्रहस्य अभावात् तथा लोभ-दम्भ-पाखण्डादीनाम् आश्रयत्वात्, एवं शास्त्राणाम् अनभ्यासत्वात् च ध्यानयोगस्य फलं समाप्ततां गतम् । पण्डितानां दशा यत् ते स्त्रीभिः सह पशुवत् रमणं कुर्वाणाः स्युः, तेषु संतत्युत्पादने हि कुशलता प्राप्यते, परन्तु मुक्तिसाधने ते सर्वथा अकुशलाः एव । सम्प्रदायानुसारं प्राप्ता वैष्णवता अपि न क्वापि दृश्यते । एवं प्रकारेण स्थाने स्थाने सर्वेषां वस्तूनां सारः लुप्तः जातः । अस्य युगस्य स्वभावः हि एतादृशः, अत्र न कस्यापि दोषः । अस्मात् कारणात् हि अत्यन्तं समीपे स्थितः पुण्डरीकाक्षः भगवान् एतत्सर्वं सहमानः वर्तते ।
सूतदेवः अकथयत् – शौनक ! एवं प्रकारेण देवर्षेः नारदस्य वचनं विश्रुत्य भक्तिदेवी नितराम् आश्चर्यान्विता जाता ; पुनः सा किमुक्तवती इति तत् श्रूयताम् ।
भक्तिः उक्तवती – देवर्षे ! त्वं धन्यः असि ! मम महत् सौभाग्यं यत्, तव अत्र आगमनं जातम् । संसारे साधूनां दर्शनं हि समस्तसिद्धीनां परमं कारणम् अस्ति । तव सकृत् उपदेशं धारयित्वा कयाधूकुमारः प्रह्लादः मायां पूर्णतः जितवान् आसीत् । ध्रुवः अपि त्वत्कृपया हि ध्रुवपदं प्राप्तवान् । त्वं सर्वमङ्गलमयः असि, साक्षात् श्रीब्रह्मणः पुत्रः असि, अहं त्वां नमस्करोमि इति, शुभम् । (माहात्म्यम् -०१/६८-८०)
श्रीपद्मपुराणोत्तरखण्डान्तर्गते श्रीमद्भागवतमाहात्म्ये सरलभाषानुवादेऽस्मिन् भक्तिनारदसमागमो नाम प्रथमोऽध्यायः सम्पूर्णः।
।।श्रीकृष्णार्पणमस्तु।।
— नारदः ।