श्रीमद्भागवतप्रवचनम् -०४
एवं प्रकारेण नारदः कलियुगस्य दोषान् पश्यन्, एवं पृथ्व्यां विचरन् यमुनातटं प्राप्नोत्, यत्र च भगवतः श्रीकृष्णस्य विविधाः लीलाः सञ्जाताः आसन् । मुनिवराः ! तत्र मया एकं महत् आश्चर्यकरं दृश्यम् अवलोकितम् । तत्र एका युवती खिन्नमनष्का सती उपविष्टवती आसीत् । तस्याः निकटे द्वौ वृद्धपुरुषौ संज्ञाहीनावस्थायां पतितौ, त्वरया, भृशञ्च निःश्वसन्तौ आस्ताम् । सा तरुणी तयोः सेवां कुर्वती, तयोः प्रबोधनाय च प्रयत्नं कुर्वती, एवञ्च तयोः पुरः रुदती मया परिलक्षिता । सा स्वशरीरस्य रक्षकं परमात्मानं दशदिक्षु निरीक्षन्ती आसीत् । तां परितः शतशः स्त्रियः स्थित्वा तां वीजयन्ति, वारं वारं च प्रबोधयन्ति स्म । दूरतः तत्सर्वं चरितम् अवलोक्य अहं कुतूहलवशतः तस्याः समीपं गतवान् । मां दृष्ट्वा सा युवती सहसा उत्थितवती, एवं व्याकुला सती उक्तवती – “साधुमहाभाग ! क्षणं तिष्ठ, मम चिन्तामपि दूरीकुरु । भवतः दर्शनं सांसारिकाणि सर्वपापानि नाशयति । भवतः हितवचनैः मम दुःखनिवृत्तिः तथा शान्तिः भविष्यति । मनुष्येण परमभाग्यवशतः हि भवादृशानां साधूनां दर्शनसौभाग्यं लभ्यते” इति ।
नारदः अकथयत् – “देवि ! त्वं का असि ? एतौ द्वौ पुरुषौ त्वदीयौ कौ स्तः ? एवं तव पार्श्वे एताः कमलनयनोपेताः सुन्दर्यः देव्यः काः सन्ति ? त्वं तव दुःखस्य कारणं किमिति सविस्तरं वद” इति ।
ततः सा युवती उक्तवती – मम नाम भक्तिः अस्ति । एतौ ‘ज्ञान-वैराग्यौ’- नामकौ मम पुत्रौ स्तः । एताः देव्यः गङ्गादिनद्यः सन्ति । एताः सर्वाः मम सेवार्थम् आगतवत्यः सन्ति । इत्थं प्रकारेण साक्षात् देवीभिः सेविता अपि अहं सुखशान्त्यादिकं न प्राप्नोमि ।
तपोधन ! इदानीं ध्यानपूर्वकं मम वृत्तान्तं शृणु । मम कथा स्वयमेव प्रसिद्धा अस्ति, तच्छ्रुत्वा त्वया मह्यं शान्तिः प्रदीयताम् ।
अहं द्रविडदेशे उत्पन्ना, कर्णाटके प्रवृद्धा, कदाचित् महाराष्ट्रे सम्मानिता, तथा गुजराते च वार्धक्यं प्राप्तवती अस्मि । घोरकलिकालस्य प्रभावात् तत्र पाखण्डिभिः मम अङ्गभङ्गः कृतः । चिरकालं यावत् मम इयमेव दुर्दशा अतिष्ठत्, इत्यतः पुत्राभ्यां सह अहमपि निष्प्रभा जाता । यदा वृन्दावनम् आगतवती, तदारभ्य अहं पुनः परमा सुन्दरी, सुरूपवती, नवयुवती च सञ्जाता अस्मि । परन्तु मत्पार्श्वे पतितौ एतौ मत्पुत्रौ सदैव क्लेशेभ्यः दुःखिनौ हि अतिष्ठताम् । इतः परम् अहम् एतत्स्थानं परित्यज्य अन्यत्र एव गन्तुमिच्छामि । एतौ द्वावपि वृद्धतां गतौ स्तः, एतयोरेव दुर्दशातः अहमपि सम्प्रति दुःखिनी अस्मि । अहं तरुणी कुतः, एवं एतौ मत्पुत्रौ वृद्धौ किमर्थम् ? वयं त्रयः अपि सहैव तिष्ठन्तः स्मः । पुनः एतत् वैपरीत्यं कथम् ? नियमानुसारं तु माता वृद्धा भवेत्, पुत्रौ च तरुणौ इति । शुभम् । (माहात्म्यम् -०१/३७-५३)
— नारदः ।