श्रीमद्भागवतप्रवचनम् -०३
ततः शौनकः अपृच्छत् – सूतदेव ! संसारिक-विषयेभ्यः मुक्तस्य तथा विचरणशीलस्य नारदस्य सनकादिमुनिभिः सह कुत्र संयोगः जातः, एवं विधिविधानस्य श्रवणे तस्मिन् प्रीतिः कथम् आगता ?
सूतः उक्तवान् – इदानीम् अहंं तुभ्यम् एतत् भक्तिपूर्णं कथानकं श्रावयामि, यच्च शुकदेवः मां स्वशिष्यं मत्वा एकान्ते अश्रावयत् । एकदा विशालापुर्यां ते चत्वारः निर्मलाः ऋषयः सत्सङ्गार्थम् आगतवन्तः । तत्र ते नारदं दृष्टवन्तः ।
सनकादयः पृष्टवन्तः – ब्रह्मन् ! भवतः मुखम् उदासिवत् दृश्यते, तत् कथम् ? भवान् किमर्थं चिन्तातुरः जातः ? एतावत्या त्वरया भवान् क्व गच्छन् आसीत् ? तथा भवतः अत्रागमनं कुतः सञ्जातम् ? अधुना भवान् एवं प्रतीयते यत्, कस्यचन पुरुषस्य समस्तं धनम् अपहृतं स्याद् इतिवत् । भवत्सदृशस्य अनासक्त-पुरुषस्य कृते एतन्न उचितम् । एतस्य कारणम् उच्यताम् ।
नारदः अब्रवीत् – मुनयः ! अहं सर्वोत्तमं लोकं मत्वा अस्मिन् पृथ्वीलोके आगतोऽस्मि । अत्र पुष्करं, प्रयागः, काशी, गोदावरी, हरिद्वारं, कुरुक्षेत्रं, श्रीरङ्गं, सेतुबन्धनम् इत्यादिषु नानातीर्थेषु अहम् इतस्ततः भ्रममाणोऽस्मि, परन्तु अहं कुत्रापि मन्मनसोऽनुकूलां सन्तोषकारिणीं शान्तिं च न प्राप्तवान् । अस्मिन् समये अधर्मस्य सहायकरूपेण कलियुगेन समस्ता धरा हि सम्पीडिता अवलोक्यते । सम्प्रति अत्र सत्यं, तपः, शौचं, दया, दानम् इत्यादिकं नास्ति किमपि । वराकः जीवः केवलं स्वकीयोदरस्य परिपूरणाय हि तत्परोऽस्ति । सर्वेऽपि असत्यभाषिणः, अलसाः, मन्दमतयः, भाग्यहीनाः, पाखण्डनिरताः च दृश्यन्ते । ये साधवः भासमानाः, तेऽपि आचारैः पूर्णतः हीनाः, पाखण्डिनः च सञ्जाताः स्युः ; बाह्यदर्शनेन तु विरक्ताः इव भासन्ते, परं ते स्त्रीधनादिषु हि आसक्ताः, रममाणाः च सन्ति, तेषामेव परिग्रहं कुर्वन्तः अवलोक्यन्ते । गृहेषु स्त्रीणां राजत्वमस्ति, श्यालः परामर्शदाता सञ्जातोऽस्ति, लोभवशतः जनाः कन्याविक्रयणं कुर्वन्ति, एवञ्च स्त्रीपुरुषयोः मध्ये कलहः सततं प्रवर्तमानः, प्रवर्धमानः च दृश्यते । महात्मनाम् आश्रमः, तीर्थं, नदीतटम् इत्यादिपवित्रेषु क्षेत्रेषु यवनानाम् अधिकारः सञ्जातः अस्ति । एतैः दुष्टैः बहुधा देवालयाः अपि ध्वस्तीकृताः । अस्मिन् समये अत्र न कोऽपि योगी स्यात्, न वा सिद्धः, न तु सत्कर्ता हि स्यात् । समस्त-साधनानि सद्यः कलिरूपेण दावानलेन दग्धानि, भस्मीभूतानि च सन्ति । अस्मिन् विकराल-कलिकाले सर्वे देशवासिनः विथ्यादिषु अन्नविक्रयणं कर्तुम् आरब्धवन्तः, ब्राह्मणाः शुल्कं स्वीकृत्य वेदं पाठयेयुः, एवं स्त्रियः वेश्यावृत्तिं स्वीकृत्य जीवननिर्वहणं कुर्वत्यः परिलक्ष्यन्ते इति, शुभम् ।
(माहात्म्यम् – ०१/२३-३६)
— नारदः ।