By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: बॉबी देओल-रणवीरसिंहयो: चलच्चित्रे दर्शनं दास्यति दक्षिणस्य श्रीलीला
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > चलचित्रवार्ताः > बॉबी देओल-रणवीरसिंहयो: चलच्चित्रे दर्शनं दास्यति दक्षिणस्य श्रीलीला
चलचित्रवार्ताः

बॉबी देओल-रणवीरसिंहयो: चलच्चित्रे दर्शनं दास्यति दक्षिणस्य श्रीलीला

जगदीश डाभी
Last updated: 2025/07/22 at 8:56 PM
जगदीश डाभी
Share
1 Min Read
SHARE

बॉबी देओल-रणवीरसिंहयो: चलच्चित्रे दर्शनं दास्यति दक्षिणस्य श्रीलीला

 

वार्ताहर: – जगदीश डाभी

 

मुम्बई । बॉलीवुड-नायक: रणवीरसिंहः धुरन्धर इति चलच्चित्रस्य कारणात् अद्यकाले वार्तायां वर्तते। अधुना एव अस्य चलच्चित्रस्य विज्ञापन पुटकं प्रदर्शितम् अभवत्। पुटक-मध्ये रणवीरसिंहस्य दीर्घकेशरूपं दृष्ट्वा प्रशंसकाः आश्चर्यचकिताः भवन्ति। अस्मिन् चलच्चित्रे रणवीरः गुप्तकारकस्य भूमिकायां दृश्यते । इदं चलच्चित्रं दिसम्बरमासे प्रदर्शितं भविष्यति। वार्तानुसारं रणवीरसिंहः अस्य चलच्चित्रस्य चित्रोतलनं समाप्तं कृतवान् । सः अधुना डॉन ३, शक्तिमानयोः च कार्यं आरभेत । अधुना एव रणवीरसिंहस्य महती वार्ता आगता । रणवीर: एकशन्-चलच्चित्रे दर्शनं दास्यति । अस्मिन् एक्शन्-चलच्चित्रे बॉबी देओल: अपि दर्शनं दास्यति । एतत् बॉबी देओलस्य रणवीरसिंहस्य च एकत्र प्रथमं चलच्चित्रं भविष्यति। द्वयोः तारकयोः चलच्चित्रे प्रचण्डं एक्शनं कुर्वतः दृश्यन्ते। चलच्चित्रस्य नाम अद्यापि न निर्णीतम्। इदानीं दक्षिणस्य अभिनेत्री श्रीलीला रणवीरसिंहस्य, बॉबी देओलस्य च अस्मिन् एक्शन् चलच्चित्रे प्रविष्टा इति वार्ता आगच्छति। श्रीलीला अतीव शीघ्रमेव कार्तिक आर्यस्य चलच्चित्रेण बॉलीवुड-क्षेत्रे पदार्पणं कर्तुं गच्छति। चलच्चित्रस्य चित्रोतलनं सम्पन्नम् अस्ति । श्रीलीला कार्तिकस्य च चलच्चित्रम् अतीव शीघ्रमेव प्रदर्शितं भविष्यति। प्रथमचलच्चित्रस्य प्रदर्शनात् पूर्वमपि श्रीलीला रणवीर-बॉबीयोः चलच्चित्रस्य प्रस्तावः प्राप्तः अस्ति । अस्मिन् चलच्चित्रे मुख्यनायिकायाः भूमिकायां श्रीलीला दृश्यते । परन्तु अद्यापि तस्य आधिकारिकघोषणा न कृता।

 

 

 

You Might Also Like

प्रसिद्धा गायिका अभिनेत्री च सुलक्षणा पण्डित इत्यस्या: ७१ तमे वर्षे निधनम्

अनन्या-कार्तिकयो: चलच्चित्रस्य विमोचनतिथिः घोषिता, अस्मिन् वर्षे अन्तिमे दिने प्रदर्शितं भविष्यति

3 इडियट्स इति चलच्चित्रस्य ९१ वर्षीय-अच्युत पोतदारस्य निधनमभवत्

सैयारा चलच्चित्रेण अधुना यावत् ४५० कोटिभ्यः अधिकं धनं अर्जितम्

विजय देवराकोंडा इत्यस्य ‘किंगडम’ चलच्चित्रस्य विज्ञापन पुटकं प्रसारितं जातम्, जासूसस्य भूमिकायां दृश्यते

TAGGED: बॉलीबुड समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By जगदीश डाभी
Follow:
संस्कृतप्रेमिणां कृते सुलभं माध्यमम् अर्थात् हिमसंस्कृतवार्ता:, भवद्भिः हिमाचलप्रदेशात् नित्यं प्रकाशितं हिमांस्कृतवार्ता: पठित्वा स्वमित्रान् अपि पठितुं प्रेरयन्तु ।
Previous Article श्रीमद्भागवतप्रवचनम्- १६।।भक्तानाम् अवलम्बनार्थं मम किं कर्तव्यम्
Next Article राष्ट्राय समाजाय च जीवनसमर्पणं जीवितुं सर्वोत्तमः उपायः अस्ति – श्रीमतिः द्रौपदी मुर्मू:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?