By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: राष्ट्रीयवार्ताः।। भारतीय-नौसैन्यबलेन स्वदेशे निर्मितस्य ‘निस्तार’ उपकरणस्य नौसैन्यबले समावेशः कृतः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > राष्ट्रीयवार्ताः।। भारतीय-नौसैन्यबलेन स्वदेशे निर्मितस्य ‘निस्तार’ उपकरणस्य नौसैन्यबले समावेशः कृतः
राष्ट्रीयवार्ताः

राष्ट्रीयवार्ताः।। भारतीय-नौसैन्यबलेन स्वदेशे निर्मितस्य ‘निस्तार’ उपकरणस्य नौसैन्यबले समावेशः कृतः

डॉ.अमनदीप शर्मा
Last updated: 2025/07/19 at 6:47 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
5 Min Read
SHARE

राष्ट्रीयवार्ताः।। भारतीय-नौसैन्यबलेन स्वदेशे निर्मितस्य ‘निस्तार’ उपकरणस्य नौसैन्यबले समावेशः कृतः
हिमसंस्कृतवार्ता: – विशाखापत्तनम-मध्ये समायोजिते एकस्मिन् उपकरण-समावेश-समारोहे, रक्षा-राज्य-मन्त्री सञ्जय सेठः डाइविंग सपोर्ट वेसल्स, इत्याख्यस्य स्वदेशे निर्मितस्य ‘निस्तार’ उपकरणस्य नौसैन्यबले समावेशम् अकरोत् । एतस्मिन् समारोहे नौ-सेना प्रमुखेन् एडमिरल दिनेश के. त्रिपाठिना, अन्यैः वरिष्ठैः गणमान्यैः च साकं रक्षा-राज्य-मन्त्री संजय सेठः अपि सम्मिलितः आसीत्।

प्रवर्तन-निदेशालयेन सी.आर.पी.एफ.-भटैः सह भूपेश-बघेलस्य निवासस्थाने सहसान्वेषणम् कृतम्
हिमसंस्कृतवार्ता: – प्रवर्तन-निदेशालयस्य एकेन दलेन छत्तीसगढस्य भिलाईनगरे पूर्वमुख्यमन्त्रिणः भूपेश बघेलस्य निवासस्थाने सहसान्वेषणम् कृतम् । ईडी-अधिकारिणः सी.आर.पी.एफ.-भटैः सह सहसान्वेषणाय बघेलस्य निवासस्थानं प्राप्तवन्तः। अत्रान्तरे ईडी इत्यनेन भूपेशबघेलस्य पुत्रः चैतन्य-बघेलः निगडीकृतः अस्ति। तदनन्तरं चैतन्यबघेलेन सह भिलाईतः रायपुरं प्रति ईडी-दलं प्रस्थानम् अकरोत् ।

भारतस्य ५६ तमस्य अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य संचालनसमितेः प्रथमा सभा
हिमसंस्कृतवार्ता: – डॉ नरेन्द्रराणा सिरमौर: ।भारतस्य ५६ तमस्य अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य संचालनसमितेः प्रथमा सभा एन.एफ.डीसी मुख्यालये मुम्बईनगरे अभवत्। केन्द्रीयसूचनाप्रसारणमन्त्री अश्विनीवैष्णवस्य अध्यक्षतायां आयोजितायां सभायां सूचनाप्रसारणमन्त्रालयस्य सचिवः संजयजाजुः, चलच्चित्रमहोत्सवस्य निदेशकः शेखरकपुरः इत्यादयः उद्योगस्य अन्ये प्रख्यातव्यक्तयः च उपस्थिताः आसन्। अस्मिन् सत्रे भारतस्य अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य-२०२५ इत्यस्य रणनीतिकनियोजने केन्द्रितः आसीत्, यस्मिन् चलच्चित्रमहोत्सवस्य समावेशीत्वं, वैश्विकस्थानं, जनसहभागिता च वर्धयितुम् उद्दिश्य कार्यक्रमनिर्माणं, प्रसारणं, प्रतिभासङ्गतिः, नवीनपरिकल्पनायाः विषये विस्तरेण चर्चा कृता । अवधेयमस्ति यत् भारतस्य अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवः २०२५ तमस्य वर्षस्य नवम्बरमासस्य २० दिनाङ्कात् २८ दिनाङ्कपर्यन्तं गोवानगरे भवितुं निश्चितः अस्ति । समितिः भारतस्य वैश्विकसृजनात्मककेन्द्रत्वेन स्थितिं सुदृढं कर्तुं उद्दिश्य चलचित्र-विपणिः इत्यस्य नामकरणं परिवर्त्य “वेव्स-चलच्चित्र-बाजार” इति अपि अनुमोदितवती । अस्मिन् वर्षे संचालनसमितेः सदस्यानां संख्या १६ तः ३१ यावत् वर्धिता अस्ति, यत्र अनुपमखेर्, गुनीतमोङ्गा, सुहासिनीमणिरत्नम्, प्रसूनजोशी इत्यादयः प्रसिद्धाः जनाः सन्ति ।

प्रधानमन्त्रिणा श्रीमोदिना बिहारस्य मोतिहारी क्षेत्रे द्वि-शताधिक-सप्त-सहस्र-कोटिक-रूप्यकतोऽपि अधिकमूल्य-युतानां नैकासां विकास-परियोजनानां कृतं लोकार्पणम्
हिमसंस्कृतवार्ता: – प्रधानमन्त्री श्रीनरेन्द्रमोदी बिहारस्य मोतिहारी क्षेत्रे द्वि-शताधिक-सप्त-सहस्र-कोटिक-रूप्यकतोऽपि अधिकमूल्य-युतानां नैकासां विकास-परियोजनानां लोकार्पणं शिलान्यासं च कृतवान् । इमाः परियोजनाः रेल, राजमार्गः, ग्रामीण-विकासः, मत्स्यपालनम्, वैद्युतिक-प्रविधिः, सूचना-प्रौ‌द्योगिकी चेति भूरि क्षेत्रैः आबद्धाः सन्ति। एतस्मिन् अवसरे उपस्थितान् जनान् सम्बोधयन्, श्रीमोदी प्रावोचत् यत् पूर्वीय-भारतस्य विकासार्थं बिहारस्य विकासः आवश्यकः अस्ति। अमुना प्रोक्तं यत् अद्यत्वे बिहारे तीव्रगत्या विकासः जायते यतोहि केन्द्र-सर्वकारः, राज्य-सर्वकारश्च मिलित्वा राज्योन्नतये कार्यं कुर्वन्तौ वर्तेते। प्रधानमन्त्री उक्तवान् यत् यू.पी.ए. सर्वकारस्य दश-वर्षाणाम् कार्यकाले बिहाराय केवलम् प्रायशः पादोनद्वि-लक्ष-कोटिकानि रुप्याकाणि एव वितरितानि । असौ न्यगदत् यत् विगत-दश-वर्षेषु एन.डी.ए. सर्वकारेण बिहारस्य विकासाय यू.पी.ए. शासनादपि अधिकः धनराशिः आवण्टितः अस्ति। प्रधानमन्त्री मोदी अवोचत् यत् केन्द्रं देशे युव-जनेभ्यः आजीविका-प्रदानार्थम् एक-लक्ष-कोटिकानि रुप्याकाणि व्ययीकरिष्यति। प्रधानमन्त्री मोदी अग्रे अवदत् यत् विगत-कतिपय-वर्षेषु बिहारस्य युवकेभ्यः राज्ये एव जीविकायाः अधिकाधिकान् अवसरान् उपपादयितुं भृशं कार्यम् आचरितम् अस्ति। श्रीमोदी उक्तवान् यत् राजद-कांग्रेस-दलानां शासने निर्धनानां पक्व-गृह-निर्माणम् असम्भवम् आसीत् । अमुना सविशेषं वर्णितं यत् विगतैकादश-वर्षेषु प्रधानमन्त्रि-आवास योजनायाः अन्तर्गतं निर्धनेभ्यः चतुष्कोटितोऽप्यधिकानि गृहाणि निर्मितानि सन्ति, तेषु षष्टि-लक्ष-मितानि गृहाणि बिहारे एव निर्मितानि आसन्। प्रधानमन्त्रिणा नैकाः रेल-परियोजनाः अपि राष्ट्राय समर्पिताः। श्री-मोदिना क्षेत्रे सम्पर्कं सुष्ठुतरं विधातुं राजेन्द्र-नगर-टर्मिनल पटना-तः नवदहली पर्यन्तं, बापूधाम मोतिहारी-तः दिल्लीं यावत्, दरभंगा-तः लखनऊ-नगरं यावत्, मालदा टाउन-तः लखनऊ-नगर-पर्यन्तं चतुर्णा नूतनानाम् अमृत-भारत-रेल-यानानां प्रचलनार्थमपि हरित-ध्वज-प्रदर्शनपूर्वकं अनुमतिः प्रदत्ता।

पश्चिमबङ्गस्य दुर्गापुरे अपि पञ्च-सहस्र-कोटिरूप्यकाणां विकास-परियोजनाः लोकार्पण-पूर्वकं राष्ट्राय समर्पिताः
हिमसंस्कृतवार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना पश्चिमबङ्गस्य दुर्गापुरे पञ्च-सहस्र-कोटिरुप्यकाणां नैकासां विकास-परियोजनानां आधारशिलास्थापनं, उ‌द्घाटनं, राष्ट्राय समर्पणञ्च कृतम्। तत्र सभां सम्बोधयता प्रधानमन्त्रिणा उक्तं यत् एताः परियोजनाः प्रमुखतया क्षेत्रेषु जनसम्पर्कं सम्वर्धयिष्यन्ति, वातीन्धनाधारित-परिवहनेभ्यः प्रोत्साहनं प्रदास्यन्ति, वातीन्धनाधारित-अर्थव्यवस्थायाः समर्थनं च करिष्यन्ति। एतैः उपक्रमैः अस्य लौहसार-नगरस्य परिचयः अधिकः सुदृढः भविष्यति इत्यपि सः अवदत् । सः उक्ततवान् यत् पश्चिमबङ्‌गराज्यं देशस्य तेषु राज्येषु अन्यतमम् अस्ति यत्र वन्देभारतस्य रेलयानानि महत्यां संख्यायां प्रचलन्ति। श्रीमोदी अवदत् यत् दुर्गापुरं न केवलं लौहसार-नगरम् अपितु भारतस्य कार्यबलस्य प्रमुख-केन्द्रम् अपि अस्ति तथा च एषा नगरी देशस्य विकासे महतीं भूमिकां निर्वहति।

टी.आर.एफ. इति “द रेजिस्टेंस फ्रंट” इत्यस्य वैदेशिकातंकि-गुल्मस्य, विशेषरूपेण नामित-वैश्विक-आतंकवादि-गुलमत्वेन घोषणार्थम् अमेरिका-देशस्य निर्णयः भारतेन श्लाघितः
हिमसंस्कृतवार्ता: – भारतेन टी.आर.एफ. इति “द रेजिस्टेंस फ्रंट” इत्यस्य वैदेशिकातंकि-गुल्मस्य, विशेष-रूपेण नामित-वैश्विक-आतंकवादि-गुलमत्वेन घोषणार्थम् अमेरिका-देशेन कृतः निर्णयः श्लाघितः। पाकिस्तान-स्थितस्य आतंकवादि-संघटनम् लश्कर-ए-तैयबा इत्यस्य एकः छद्‌म-गुल्मः, टी.आर.एफ., जम्मू-कश्मीरस्य पहलगाम इत्याख्ये प्रथम-ग्रामे नागरिकेषु दुरापादित-जघन्याक्रमण-सहितेषु नैकेषु अन्येष्वपि आत‌ङ्कि-गतिविधिषु संलिप्तः आसीत् । विदेश-मन्त्री डॉ. एस. जयशंकरः एतस्य निर्णयस्य कृते अमेरिकीय-विदेश-विभागस्य, विदेश-मन्त्रिणश्च मार्को रुबियो इत्यस्य प्रशंसा कृता। अमुना प्रोदितं यद् एतद्धि भारत-अमेरिकातङ्‌कवादरोधि सहयोगस्य पुष्टिं कुरुते। ध्यातव्यमस्ति यद् भारतेन आतंकवादं विरुध्य प्रवर्तिते युद्धे, आतंकि संरचनानां विध्वंसीकरणे च वैश्विक-सहयोगस्य आवश्यकतायां अविरतं बलं प्रदत्तम् अस्ति ।

कविन्दर-गुप्ता ल‌द्दाख-उपराज्यपालत्वेन पदभारस्य शपथं स्वीकृतवान्।
हिमसंस्कृतवार्ता: – पूर्वजम्मू-कश्मीर-राज्यस्य पूर्व-उपमुख्यमन्त्री कविन्दर-गुप्ता आधिकारिकरूपेण ल‌द्दाख इति ललाटाक्ष-राज्ये उपराज्यपालत्वेन पदभारस्य शपथं स्वीकृतवान्। लेह-नगरस्य राजनिवासे आयोजिते समारोहे जम्मू-कश्मीर-लद्दाख-उच्चन्यायालयस्य मुख्य-न्यायाधीशेन अरुणपल्ली इत्यनेन तस्मै पदगोपनीयतायाः शपथवचनं कारितम्। शपथवचनस्य पश्चात् स्थानीयवार्ताहरैः सह सम्भाषणे सः आश्वासितवान् यत् सः “सबका साथ सबका विकास” इति आदर्शवाक्यम् अनुसृत्य जनैः सह निकटतया कार्य करिष्यति, येन ल‌द्दाख-केन्द्र-प्रशासितेषु प्रदेशेषु अन्यतमत्वेन विकसितं कर्तुं शक्येत ।

You Might Also Like

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

दिल्ली- राज्यसर्वकारेण केन्द्रसर्वकाराय ३००० विद्युत्बसक्रयणार्थं प्रस्तावः प्रेषितः

जलमार्गमन्त्री सर्वानन्दसोनोवालः विशाखापत्तनम-बन्दरगाह-प्राधिकरणस्य अनेक-परियोजनानां आधारशिलाम् अस्थापयत्

PWD मन्त्री विक्रमादित्यसिंहः देहल्यां केन्द्रीयमन्त्रिणा शिवराजसिंहचौहानेन सह मिलितवान

TAGGED: राष्ट्रीयवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article इन्दौर-नगरेण पुनः भारतस्य स्वच्छतमनगरत्वस्य उपाधिः प्राप्ता
Next Article श्रीमद्भागवतप्रवचनम् -१०।। नारदस्य वदरीवनं प्रति गमनम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?