By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Sanskrit News: महाराष्ट्र- राज्य- संस्कृतविज्ञान- प्रतियोगितायां कविकुलगुरुकालिदास- संस्कृतविश्वविद्यालयस्य छात्राणाम् उत्कृष्टं प्रदर्शनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > Sanskrit News: महाराष्ट्र- राज्य- संस्कृतविज्ञान- प्रतियोगितायां कविकुलगुरुकालिदास- संस्कृतविश्वविद्यालयस्य छात्राणाम् उत्कृष्टं प्रदर्शनम्
प्रादेशिकवार्तासंस्कृतगतिविधयः

Sanskrit News: महाराष्ट्र- राज्य- संस्कृतविज्ञान- प्रतियोगितायां कविकुलगुरुकालिदास- संस्कृतविश्वविद्यालयस्य छात्राणाम् उत्कृष्टं प्रदर्शनम्

डॉ मनोज शैल
Last updated: 2025/01/29 at 4:31 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Sanskrit News: महाराष्ट्र- राज्य- संस्कृतविज्ञान- प्रतियोगितायां कविकुलगुरुकालिदास- संस्कृतविश्वविद्यालयस्य छात्राणाम् उत्कृष्टं प्रदर्शनम्

हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।

महाराष्ट्र- राज्यस्तरीय- शास्त्रप्रतियोगितायाः आयोजनं नवदिल्ली- केन्द्रीय- संस्कृत- विश्वविद्यालयस्य नासिकपरिसरे कृतम्। अस्यां राज्यस्तरीयप्रतियोगितायां कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालयस्य २३ छात्राः व्याकरणं, वेदान्तं, जैन-बौद्धभाषणं, धातु आधारितं मौखिकभाषणं, साहित्यिकभाषणं, धार्मिकभाषणं, काव्यं, समस्यानिराकरणं, अक्षरश्लोकी इत्यादीनां विषयाणां विविधप्रतियोगिताससु भागं गृहीतवन्तः। भारतस्य विकासे प्राचीनशास्त्रपरम्परायाः अद्वितीयं स्थानम् अस्ति। अस्याः विद्वान्परम्परायाः संरक्षणाय संस्कृतविश्वविद्यालयः प्रतिबद्धः अस्ति। शास्त्राध्ययनेन सह शास्त्रकण्ठस्थीकरणं, शास्त्रपरीक्षा, शास्त्रभाषणम् इत्यादीषु स्पर्धासु भागं ग्रहीतुं विश्वविद्यालयस्य प्राध्यापकाः छात्राः च पारम्परिकप्रतियोगितानां सज्जतायै अथकं कार्यं कुर्वन्ति, तेभ्यः भागग्रहणस्य अवसरान् च प्रदास्यन्ति। सद्यः सम्पन्नस्य महाराष्ट्रराज्य- संस्कृतशास्त्रप्रतियोगितायाः अवसरे अस्य फलानि समाजाय प्रदत्तानि।

विश्वविद्यालयस्य २३ छात्राः विभिन्नासु शैक्षणिकप्रतियोगितासु भागं गृहीतवन्तः, तेषां वैज्ञानिकज्ञानप्रतिभायाः आधारेण तेषु १४ छात्राः प्रथमस्थानं प्राप्य तेजस्वी परिणामं प्राप्तवन्तः, अस्यां राज्यस्तरीयप्रतियोगितायां ४ छात्राः द्वितीयस्थानं प्राप्तवन्तः। उल्लेखनीयं यत् प्रथमस्थानं प्राप्तवन्तः सर्वे छात्राः मार्चमासे केन्द्रीयसंस्कृतविश्वविद्यालयेन हरिद्वारेण आयोजितायां राष्ट्रियस्तरस्य अखिलभारतीय- शास्त्रप्रतियोगितायां स्वप्रतिभां प्रदर्शयिष्यन्ति। एतेषां छात्राणां शास्त्रविद्यागुरुकुलमस्य सर्वेभ्यः प्राध्यापकेभ्यः मार्गदर्शनं प्राप्तम् अस्ति। एतासु विविधप्रतियोगितासु महर्षित्रिवेदी वेदभाष्यभाषणे, मुस्कान चैरे जैन बौद्धभाषणे, अथर्व भारद्वाज: व्याकरणभाषणे, गौरी पाठक: सांख्ययोगभाषणे, वेदश्री कुलकर्णी आयुर्वेदभाषणे, ईशा मशंकर वेदान्तश्लाकायां पुरस्कारं प्राप्तवन्तः। व्याकरणभाषणे प्रसाद घोडके, ज्योतषश्लाकायां श्रीपादबेलदार:, काव्यभाषणे गिरिजा कुलकर्णी, अमरकोशकंठठपाठे बांगड़े पूर्वा, अष्टाध्यायीकण्ठस्थपाठे अनुराग: आनंद:, धातूपाठे लोकेशप्रधान:, काव्यकंठस्थे प्रतिभा वखरे, भारतीय विज्ञानभाषणे अभिराम घोडके प्रथमं स्थानं प्राप्नुवन्। भगवद्गीतापाठे सन्दलीसिंह द्वितीया, उपनिषदपाठे मीनाक्षी सरस्वत द्वितीया, भारतीय गणिते शिवकुमार जंगम: द्वितीय, साहित्यिकभाषणे च साक्षी खडसे द्वितीय स्थानानि प्राप्तवन्त:।

सर्वेषां छात्राणां कृते प्रत्यक्षपुरस्काराः प्रमाणपत्राणि च दत्त्वा गणमान्यजनाः सम्मानितवन्त:। विश्वविद्यालयस्य छात्राः विविधस्पर्धासु महता विश्वासेन शास्त्रज्ञानस्य गहनं प्रदर्शनं कृतवन्तः। परीक्षकाः अपि तेषां प्रशंसाम् अकुर्वन्।

विश्वविद्यालयस्य कुलपति: प्रो. हरेराम त्रिपाठी इत्यनेन उक्तं यत् शास्त्रस्य संरक्षणे युनां सन्ततीनां योगदानं समयस्य आवश्यकता अस्ति तथा च अस्यां स्पर्धायां तेषां उत्कृष्टप्रदर्शनद्वारा छात्राः शास्त्राणि प्रति निष्ठां सिद्धं कृत्वा विश्वविद्यालयस्य नाम अलङ्कृतवन्तः। अस्माकं छात्राः शास्त्रस्य दूताः सन्ति। विश्वविद्यालये गुरुकुलस्य स्थापनायाः उद्देश्यं प्राप्तम् इति अपि सः प्रशंसितवान्। सः छात्राणाम् अभिनन्दनं कृत्वा राष्ट्रियस्तरीयप्रतियोगितायाः शुभकामनाम् अकरोत्।

 

You Might Also Like

*केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय१५तमयुवमहोत्सवः श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयस्य आयोजकेन सम्पन्नः जातः*  

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

शिक्षणक्षेत्रे उल्लेखनीयस्य योगदानस्य हेतुना प्राध्यापकः डॉ. चिरागः हेमन्तकुमारः पुरोहितः विशेषसम्मानेन पुरस्कारैश्च अलङ्कृतः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

TAGGED: \हिमाचल के आज के समाचार, Central Sanskrit University, cmo himachal Pradesh. HP News, Daily Sanskrit News, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, Himsanskrit news, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, Himsanskritvarta, KKSU Ramtek, National News, national News Headlines, News Headlines, Sanskrit news, sanskrit University, अन्तर्राष्ट्रीय समाचार, केन्द्रीय संस्कृत विश्वविद्यालय, दिव्य हिमाचल समाचार, देश विदेश की ताजा खबरें, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, संस्कृत विश्वविद्यालय, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल का सबसे पहला संस्कृत समाचार पत्र, हिमाचल की खबरें, हिमाचल समाचार, हिमाचल सरकार, हिमाचल सरकार के निर्णय
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Jai Ram Thakur : सनातनस्य अवमानना काङ्ग्रेसस्य नैसर्गिकस्वभावः, खड़गे इत्यस्य वक्तव्ये जयरामठाकुरः अवदत्
Next Article HP Education (ASER) : छात्राणां पठनकौशले हिमाचलप्रदेशः सम्पूर्णे देशे प्रथमः, केरलं पराजित:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?