संस्कृताध्ययनकेन्द्रस्य सत्रारम्भकार्यक्रमः एवं दशदिवसीयसंस्कृतसम्भाषणशिविरस्य समपानकार्यक्रमः
वार्ताहर: – जगदीश डाभी
राजकीय-आयुर्वेदिकमहाविद्यालयपटनयां केन्द्रीयसंस्कृतविश्वविद्यालयमुक्तस्वाध्यापीठद्वारा समुद्घाटितस्य संस्कृताध्ययनकेन्द्रस्य सत्रारम्भकार्यक्रमस्य उद्घाटनं तथा च दशदिवसीयसंस्कृतसंभाषणशिविरस्य समापनसमारोहः अद्य सितम्बरमासस्य अष्टाविंशतितमे दिनाङ्के सुष्ठुतया सम्पन्नः।
कार्यक्रमेऽस्मिन् मञ्चे मुख्यातिथिरूपेण विराजमानाः आसान् बिहरप्रान्तस्य संस्कृतभारत्याः सङ्घटनमन्त्रिणः डॉ. श्रवणकुमारमहोदयाः । महाविद्यालयस्य प्राचार्याः प्रो. डॉ. कुमारी उमापाण्डेयमहोदयाः, संहितासिद्धान्तविभागस्य सहप्राध्यापकाः एवं संस्कृताध्ययनकेन्द्रस्य केन्द्राधिकारिणः डॉ.रोहितरञ्जनमहोदयाः, सं.अ.केन्द्राध्यापकाः अमितझामहोदयाः संहितासिद्धान्तविभास्य सहप्राध्यापकाः डॉ.गुरुशरणपालमहोदयाः, डॉ. आमोदकुमारमहोदयाः, डॉ. कमलेशत्रिपाठीमहोदयाः स्वस्थावृत्तयोगविभागस्य प्राध्यापकः डॉ. गंगाधरसिंहमहोदयाः, अन्ये च विभागीयप्राध्यापकाः छात्राः चासन्।

कार्यक्रमेऽस्मिन् महाविद्यालयस्य छात्रैः आदित्य-आदर्श-अभिनव-रूपेश-प्रिंस-ज्योतिकुमार-साक्षी-प्रिया-त्हराफातिमा छात्र-छात्राभिश्च वैद्यरोगीसंभाषणनाटकप्रस्तुतिः कृता। स्नेहातनिष्काप्रिये इति द्वाभ्यां छात्राभ्यां सखीसंवादः कृतः। कार्यक्रमेऽस्मिन् रामसियाकुमारीद्वारा स्वागतगीतं प्रस्तुतम्। संस्कृतकेन्द्राध्यापकेन अमितकुमारझमहोदयेन अस्य कार्यक्रमस्य मञ्चसञ्चालनम् अतिथीनां स्वागतं कृतम्, छात्रछात्राणां नाट्यप्रस्तुतिकाले मञ्चसञ्चालनं ईशातनिष्काभ्यां कृतम् अन्ते च डॉ. आमोदकुमारवर्येणातिथिभ्यः धन्यवादज्ञापनं कृतम्।

