अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः
वार्ताहर: – जगदीश डाभी, गोधरा (गुजरातम्)
(हिमसंस्कृतवार्ता:) बैंकाक (थाईलैंड) स्थितायाः शिल्पकोर्न विश्वविद्यालयस्य प्राङ्गणे भारतशासनेन संचालितस्य संस्कृताध्ययनकेंद्रस्य तथा ग्लोबलसंस्कृतफोरम-भारतस्य संयुक्तोपक्रमे आयोजितस्य पंचमस्य अन्तर्राष्ट्रियग्लोबलसंस्कृतसंगोष्ठ्याः “Indian Knowledge Systems : Bridging Cultures and Knowledge Traditions” इति विषयिकायाः त्रिदिवसीयस्य भव्यायोजनस्य द्वितीये दिने ऑफलाइन अकादमिक-सत्रे सत्राध्यक्षस्य प्रो. रजनीश शुक्लस्य, सह-अध्यक्षायाः प्रो. जया मिश्रायाः तथा कन्वीनर डॉ. कुमार बागेवाडीमठस्य गरिमामयि-उपस्थितौ गुजरातस्य गोधरास्थितायाः जय जलाराम आयुर्वेदिक मेडिकल कॉलेज (शिवपुरी) इत्यस्याः डॉ. चिराग हेमन्तकुमार पुरोहितः “संस्कृतसाहित्ये पर्यावरणचिन्तनम् : आयुर्वेदीयदृष्ट्या समकालीनवैश्विकप्रासंगिकताया: समीक्षात्मकमध्ययनम्” इति विषये स्वकीयम् उत्कृष्टं शोधपत्रं प्रस्तुतवान्।
अस्मिन् शोधपत्रे सः संस्कृतसाहित्ये पर्यावरणचेतनायाः तथा आयुर्वेददृष्टिकोणेन समकालीनवैश्विकप्रासंगिकतायाः उपरि अत्यन्तं ज्ञानवर्धकं समीक्षात्मकंच विश्लेषणं प्रस्तुत्य देश-विदेशानां विद्वज्जनान् प्रभावितवान्। एतस्मिन् वैश्विकमंचे तस्मै संस्कृतसेवाये, संस्कृतिं प्रति अद्वितीयसमर्पणाय, निष्ठायै तथा सततसाधनायै “अन्तर्राष्ट्रियसंसकृतरत्नसम्मानम्” प्रदत्तम्। एतत् तस्य कृते तथा समग्रसंस्थायाः कृते अपि महागौरवस्य क्षणः अस्ति।
संक्षिप्त-मुख्यबिन्दवः
* प्राप्तं सम्मानम्: अन्तर्राष्ट्रियसंसकृतरत्नम् (International Sanskrit Ratna)
* सम्मानितः महोदयः – डॉ. चिराग हेमन्तकुमार पुरोहितः (जय जलाराम आयुर्वेदिक मेडिकल कॉलेज, शिवपुरी, गोधरा, गुजरात)
* स्थलम् – शिल्पकोर्न विश्वविद्यालयः, बैंकाक (थाईलैंड)
* कार्यक्रमः: पंचमः अन्तर्राष्ट्रिय ग्लोबल संस्कृत संगोष्ठी (सेमिनार)
* सङ्गोष्ठ्याः विषयः – “Indian Knowledge Systems : Bridging Cultures and Knowledge Traditions”
* शोधपत्रस्य विषयः – “संस्कृतसाहित्ये पर्यावरणचिन्तनम् : आयुर्वेदीयदृष्ट्या समकालीनवैश्विकप्रासंगिकताया: समीक्षात्मकमध्ययनम्”
* उपस्थित-विद्वज्जनाः – सत्राध्यक्षः प्रो. रजनीश शुक्लः, सह-अध्यक्षी प्रो. जया मिश्रा, कन्वीनर डॉ. कुमार बागेवाडीमठः च।
