President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः
हिमसंस्कृतवार्ता — बिलासपुरम्।
हिमाचलप्रदेशस्य बिलासपुर-स्थिते ‘अखिल-भारतीय-आयुर्विज्ञान-संस्थाने’ (AIIMS Bilaspur) मङ्गलवासरे आयोजिते प्रथमे दीक्षान्त-समारोहे भारतस्य राष्ट्रपतिः द्रौपदी-मुर्मू-महोदया प्रथम-सत्रस्य स्नातक-छात्रेभ्यः उज्ज्वल-भविष्यस्य शुभाशयान् प्रादात्। राष्ट्रपति-महोदया अवदत् यत् एम्स-बिलासपुर-तः चिकित्सा-शिक्षां सम्पूर्य निर्गच्छतां नव-वैद्यानाम् उपरि न केवलम् उपाधेः (Degree), अपितु समाजस्य राष्ट्रस्य च महती गुरुतरा दायित्व-धुरा अपि अस्ति। सा छात्रान् समुपदिश्य प्रावोचत् यत् ते ज्ञान-कौशलेन सह संवेदनां करुणां च स्व-चिकित्सकीय-जीवनस्य मूल-स्तम्भं कुर्युः, तथा च दूरस्थ-दुर्गम-क्षेत्रेषु दीनेभ्यः जनेभ्यः स्वास्थ्य-सेवा-प्रदानं स्व-प्राथमिकतासु स्थापयेयुः।
राष्ट्रपति-महोदया उदैरयत् यत् एम्स-बिलासपुरस्य प्रथमाः स्नातकाः अस्याः संस्थायाः परिचयं परम्परायाश्च आधारशिलां स्थापयित्री प्रथमा सन्ततिः सन्ति। अतः तेषां कर्म, आचरणं, समर्पणं, सेवाभावश्च एम्स-संस्थानस्य प्रतिष्ठां नूतन-शिखरं प्रति नेतुं समर्थाः भवेयुः।
रोगी न केवलम् एकः ‘केस’ परिवारस्य आशा विश्वासश्च
चिकित्सा-वृत्तेः संवेदनशीलतां प्रतिपादयन्ती राष्ट्रपतिः अवदत् यत् यदा कश्चन रोगी वैद्यस्य पार्श्वे आगच्छति, तदा सः रोगातिरेकेण सह भयं संशयं च आदाय आगच्छति। तस्य सम्पूर्णस्य परिवारस्य आशा वैद्ये एव आश्रिता भवति। वैद्यस्य ज्ञानं रोगस्य निदानं करोति, कौशलं तस्य उपचारं विदधाति, किन्तु तस्य संवेदनशीलः करुणामयश्च व्यवहारः रोगिणे जीवन-शक्तिं धैर्यं च प्रयच्छति। अत एव वैद्याः स्व-विद्यायां नैपुण्य-प्राप्त्या सह मानवीयाभ्यः संवेदनाभ्यः सर्वोच्चं स्थानं दद्युः। सा आशां प्राकटयत् यत् अस्य संस्थानस्य नवोदिताः वैद्याः पार्वत्य-दुर्गम-मण्डलेषु सेवायै अग्रे आगमिष्यन्ति।
‘टेलीमेडिसिन’-तन्त्रस्य सुदृढं केन्द्रं भवेत् एम्स-बिलासपुरम्
राष्ट्रपति-महोदया प्रतिपादितवती यत् हिमाचलस्य विषमां पार्वत्य-भौगोलिक-स्थितिं वीक्ष्य एम्स-बिलासपुरस्य दायित्वं भृशं वर्धते। दुर्गम-क्षेत्रेषु निवसन्त्याः जनसङ्ख्यायाः कृते समये उच्च-स्तरीय-स्वास्थ्य-सुविधानां प्रापणम् एकं महत् आह्वानं वर्तते। अतः एम्स-संस्थानेन ‘टेलीमेडिसिन’ (Telemedicine), विशेषज्ञ-परामर्शः, स्वास्थ्य-कर्मिणां प्रशिक्षणम्, आधुनिक-प्रविधीनां च माध्यमेन दूरस्थ-क्षेत्राणां स्वास्थ्य-तन्त्रं सुदृढं कर्तव्यम्। सा अवदत् यत् औषधानां यन्त्राणां च वर्धमान-मूल्यानां मध्ये निर्धनेभ्यः मध्यवर्गीयेभ्यश्च मितव्ययि-सुलभ-चिकित्सा-प्रदानम् अस्य संस्थानस्य प्रमुखं लक्ष्यं भवेत्।
त्रिषु वर्षेषु द्वादश-लक्षाधिकाः (१२ लक्ष+) बाह्य-रोगिणः, एक-लक्षाधिकाः च अन्तः-रोगिणः
संस्थानस्य प्रगतिम् उल्लिख्य राष्ट्रपति-महोदया अवदत् यत् विगत-त्रि-वर्षेषु एम्स-बिलासपुरे द्वादश-लक्षाधिकैः (१२ लक्ष+) बाह्य-रोगिभिः (OPD), तथा च एक-लक्षाधिकैः (१ लक्ष+) अन्तः-रोगिभिः (IPD) चिकित्सा-सुविधानां लाभः स्वीकृतः। स्वल्पे एव काले संस्थया स्वास्थ्य-क्षेत्रे महती प्रतिष्ठा आर्जिता।
सहैव सा ‘आयुष्मान्-भारत-प्रधानमन्त्री-जन-आरोग्य-योजनायाः’ लाभं प्रत्येकाय दरिद्र-परिवाराय प्रापयितुं जन-जागरूकता-प्रसाराय आह्वानम् अकरोत्, येन महार्घ-उपचाराय कस्मैचिदपि कुटुम्बाय स्व-सम्पत्ति-विक्रयणस्य विवशता न भवेत्।
‘आजीवन-शिक्षार्थी भवन्तु, अनुसन्धानं नवोन्मेषे परिवर्तयन्तु’
नूतन-वैद्येभ्यः पाथेयं ददती सा अवदत् यत् चिकित्सा-विज्ञानस्य स्वरूपं द्रुत-गत्या परिवर्तते, अतः वैद्याः सर्वदा जीवन-पर्यन्तं ‘शिक्षार्थिनः’ तिष्ठेयुः। छात्राः स्व-शोध-कार्याणि केवलं सिद्धान्तेषु न सीमयेयुः, अपितु तानि जन-हितैषिणि ‘नवोन्मेषे’ (Innovation) परिणमेयुः। ज्ञानस्य सार्थकता तदैव भवति यदा तत् समाजस्य कल्याणाय प्रयुज्यते। अन्ते सा सुवर्ण-पदक-विजेतृभ्यः छात्रेभ्यः, तेषां पालकेभ्यः, गुरुभ्यश्च हार्दिक्यः शुभाशंसाः प्राददात्।
