KKSU Ramtek : संयमितताहार:, नियमितयोगश्च स्वस्थजीवनशैल्या: एवं व्यक्तित्वनिर्माणस्य रहस्यम् – स्वामी परमार्थदेव:
कविकुलगुरुकालिदास-संस्कृतविश्वविद्यालये शास्त्रभारती व्याख्यानमाला आयोजिता
हिमसंस्कृतवार्ता: – रामटेक:।
कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालये रामटेके भारतीयदर्शनयोगविभागसहकारेण १२ नवम्बर दिनाङ्के शास्त्रभारतीव्याख्यानमाला आयोजिता।
अस्याः व्याख्यानमालायाः अध्यक्षता माननीय कुलपतिः प्रो. हरेराम त्रिपाठी अकरोत्। मुख्यवक्तृत्वेन पतंजलियोगपीठस्य हरिद्वारस्य प्रख्यात: योगसाधक: योगप्रचारक; स्वामी पार्थदेव: उपस्थित: आसीत्। भारतविद्या न्यासस्य श्रीयादव: दिनेश: कार्यक्रमस्य संयोजक: कुलसचिव: डॉ. देवानंदशुक्ल: एवं रामटेकपरिसरस्य निदेशक: प्रो. हरेकृष्णअगस्ती मञ्चे विशेषतया उपस्थितः आसन्।
कार्यक्रमस्य आरम्भः वेदमन्त्रघोषे दीपप्रज्ज्वालनेन अभवत् । प्रो. कलापिनी अगस्ती द्वारा परिचयः कारित:। अनेन प्रस्तावनायां उक्तं यत् कोरोनाकालानन्तरं स्वस्थजीवनशैल्याः मार्गदर्शनं प्रदातुं, योगस्य आहारस्य च वर्धमानं महत्त्वं च प्रतिपादयितुं अस्य व्याख्यानस्य आयोजनं कृतम्।
स्वामी परमार्थदेवः “व्यक्तित्वविकासे योगस्य आहारस्य च भूमिका” इति विषये प्रभावी व्याख्यानं दत्तवान् । असौ स्वव्याख्याने उक्तवान्, शरीरं सर्वेषां कार्याणां साधनम् अस्ति। यदा शरीरं मनः च स्वस्थं तिष्ठति तदा एव वयं न केवलं अस्माकं दैनन्दिनकार्यं सम्यक् कर्तुं शक्नुमः, अपितु राष्ट्रियकार्ये अपि योगदानं दातुं शक्नुमः। एतत् सर्वं योगेन आहारेन च सिद्ध्यति। योग ऋषि रामदेव: सर्वत्र योगं आयुर्वेदं च प्रसारयति, मा. प्रधानमंत्री श्रीनरेन्द्रमोदी योगं आविश्वं नीतवान्। ‘आहारशुद्धौ सत्त्वशुद्धि:’ इति अस्माकं पुस्तके उक्तम्। सीमितं मध्यमं च आहारं न केवलं अस्माकं शरीरं स्वच्छं करोति अपितु एतत् सुन्दरं मनः शरीरं च अस्मान् देशसेवायाः कृते अधिकं उपयोगिनो करोति। राग-कामानां नियन्त्रणं, सन्तुलित-आहारः, नियमित-योगः च सन्तुलित-सद्गुण-स्वस्थ-जीवनशैल्याः, व्यक्तित्वस्य च निर्माणस्य रहस्यम् अस्ति । स्वामी जी अपि कामयते स्म यत् अस्माकं सर्वेषां एतत् प्राप्तव्यम् इति। रामटेक-नगरे स्वतन्त्रयोगशिबिरस्य आयोजनस्य अपि इच्छां प्रकटितवान् ।
अध्यक्षीये भाषणे कुलपति: प्रोफेसर हरेराम त्रिपाठी स्वामिन: आगमनाय एवं मार्गदर्शनाय धन्यवाद: अकरोत् ।स्वामीपरमार्थदेव: यम-नियमः अस्माकं सर्वेषां कृते शरीरस्य आरोग्यस्य मार्गदर्शकः, धर्म-अर्थ-काम-मोक्ष-प्राप्तेः साधनम् अस्ति। विशेषतया प्राणायामस्य लाभः न केवलं शरीरं सर्वथा शुद्धं करोति अपितु अस्माकं मनः, बुद्धिः, अहंकारः च शुद्धयति। अतः सन्तुलितस्य, पौष्टिकस्य आहारस्य माध्यमेन ईश्वरप्रदत्तं स्वास्थ्यं निर्वाहयित्वा आधुनिककालस्य भोजनस्य स्थाने योगस्य अभ्यासं कृत्वा एव आदर्शव्यक्तित्वस्य नेतृत्वस्य च विकासः सम्भवः भविष्यति।
कार्यक्रमस्य संचालनं डा. सचिनद्विवेदिना कृतं धन्यवादमतं च डॉ. रेणुका करंदीकर अज्ञापयत् ।