संस्कृतभारत्याः उत्तरक्षेत्रस्य कार्यकर्तृविकासवर्गः कुरुक्षेत्रे महता वैभवेन सम्पन्नः
संस्कृतभाषायाःसंवर्धनाय समर्पितं विश्वस्तरीयं सङ्घटनं संस्कृतभारती अस्मिन् वर्षे सर्वेषां कार्यकर्तॄणां कृते विकासवर्गाणाम् आयोजनं करोति।
एतेषां वर्गाणाम् आयोजनं सङ्घटनस्य योजनानुसारं क्षेत्रशः जायमानमस्ति।
अस्यामेव श्रृंखलायां उत्तरक्षेत्रस्य कार्यकर्तृविकासवर्गः हरियाणाप्रान्तस्य सुप्रतिष्ठिते धार्मिकक्षेत्रे कुरुक्षेत्रे अभवत्।अस्मिन् वर्गे हरियाणापञ्जाबजम्मूदेहलीहिमाचलेभ्यः पञ्चप्रान्तेभ्यः दशाधिकशतं कार्यकर्तारः सहर्षं भागम् अवहन्। मुख्यप्रशिक्षकरूपेण अखिलभारतसम्पर्कप्रमुखः श्रीशदेवपुजारी सहप्रशिक्षणप्रमुखः श्रीरामश्च आवर्गम् उपस्थाय प्रशिक्षणम् अयच्छताम्।
सत्रेषु सङ्घटनस्य विस्ताराय अनेकेषां विषयाणां चर्चा अभवत्।अग्रिमवर्षेषु संस्कृतभारती कथं प्रतिगृहं प्राप्नुयात् इत्यस्मिन् विषयेऽपि विस्तृता योजना कृता। एकं सत्रं सामाजिकजनानां कृते अपि आयोजितम्,सत्रेऽस्मिन् संस्कृतभारत्याः कार्याणां परिचयः संस्कृतभाषायाः समाजे भूमिका च इति विषयद्वयं श्रीशमहोदयेन उपस्थापितम्।अस्मिन् वर्गे क्षेत्रसङघटनमन्त्री श्रीनरेन्द्रकुमारः,अध्यक्षः डॉ यशवीरसिंहः,मन्त्री कौशलकिशोरः,प्रशिक्षणप्रमुखः श्रीसञ्जीवः,सम्पर्कप्रमुखः श्रीनिवासः,गीताशिक्षणप्रमुखः डॉ जोगिन्द्रसिंहः चोपस्थिताः अभवन्।
हरियाणाप्रान्तस्य सहमन्त्री श्रीभूपेन्द्रः साहित्यप्रमुखः श्रीपुष्पेन्द्रश्च वर्गस्य व्यवस्थाम् अकुरुताम्। डॉ रामनिवासः श्रीहरिदेवशास्त्री च प्रबन्धनगणस्य मार्गदर्शनम् अकुरुताम्।
संस्कृतभारत्याः उत्तरक्षेत्रस्य कार्यकर्तृविकासवर्गः कुरुक्षेत्रे महता वैभवेन सम्पन्नः

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment