संस्कृताध्ययनात् परं शिक्षणजगति आजीविकानां द्वाराणाम् उद्घाटनं स्वयमेव भवति – डाॅ. सवितुर् प्रकाशगंगवारः
वार्ताहर: – जगदीश डाभी
उत्तरप्रदेश संस्कृतसंस्थानेन निदेशकस्य विनयश्रीवास्तवस्य मार्गदर्शने संचालितायाः ऑनलाइन प्रशिक्षण-पाठ्यक्रमनिर्माणयोजनायाः अंतर्गते संस्कृतभाषा शिक्षणकक्षासु प्रेरणासत्रस्य शुभारंभः प्रशिक्षुणी प्रियाशर्मा द्वारा सरस्वतीवन्दनया अभवत् तथा संस्थानगीतिका कवितावर्मा द्वारा प्रस्तुतिता। मुख्यातिथेः परिचयः संस्थानस्य परिचयः, मुख्यातिथीनां समागतानां च स्वागतं समन्वयकः दिव्यरंजनः कृतवान्। स्वागतगीतं प्रशिक्षिका पूजावाजपेयी द्वारा कृतम् । कार्यक्रमाणां क्रमे अनुभवकथन श्यामला, वैशाली च, सुभाषितं विनीता, एकलसंस्कृतगीतं चंद्रकला विजया च, सुभाषितांताक्षरी शोभारानी, पल्लवी, कुसुमः वाणी च प्रस्तुतवत्यः।
मुख्यप्रेरकः डाॅ. सवितुर् प्रकाशगंगवारः महोदयः प्रेरणासत्रस्य संस्कृते जीविकानां अवसराः मुख्यविषयेऽस्मिन् प्रेरयित्वा उन्होंने बोधितवान् यत् संस्कृतभाषा न केवलं वेदपारायणाय पाण्डित्यकर्मार्थञ्च अपितु संस्कृत माध्यमेन अपि जीवकोपार्जनं अत्यंतं सरलम् अस्ति। शिक्षणक्षेत्रे अतिलाभदायकं भूत्वा अन्येषु क्षेत्रेषु यथा संस्कृते डायलॉगलेखनम्, संस्कृतगीतगायनं, संस्कृतसमाचारवाचनम् आदिषु विभिन्नेषु क्षेत्रेषु अपि कार्यं कृत्वा वयं सरलतया जीवीकोपार्जनं कर्तुं शक्नुमः। प्रशिक्षकः रजनीशतिवारी आगन्तुकानाम् अतिथीनां धन्यवादं ज्ञापितवान् तथा कार्यक्रमे अस्मिन् उत्तरप्रदेश संस्कृतसंस्थानस्य निदेशकः विनयश्रीवास्तवः, भाषाविभागस्य मुख्यसचिवः, प्रशासनिकाधिकारी जगदानंदझा, दिनेशमिश्रः, योजनायाः प्रधानसहायकः भगवानसिंहचौहानः, प्रशिक्षणप्रमुखः सुधीष्ठमिश्रः, समन्वयकगणः धीरजमैठाणी, दिव्यरंजनः, राधाशर्मा च तथा संस्थानस्य प्रशिक्षकेषु महेन्द्रमिश्रः, गोपालकृष्णमिश्रः, गणेशदत्तद्विवेदी, शशिकान्तः, डाॅ. स्तुतिगोस्वामी, अनीतावर्मा, इत्यादयः अन्ये सर्वे प्रशिक्षकाः उपस्थिताः आसन्। शान्तिमंत्रं प्रशिक्षुः अथर्वः अथच तकनीकीसहयोगं प्रशिक्षकः ओमदत्तद्विवेदी कृतवान्। कार्यक्रमस्य संचालनं प्रशिक्षिका मीनाकुमारी कृतवती।