अखिलभारतीयकालिदाससमारोहः २०२५
वार्ताहर: – जगदीश डाभी, हिमसंस्कृतवार्ता:
अखिलभारतीयकालिदाससमारोहः २०२५ – जिला-स्तरीया प्रतियोगिता, नीमच – साहित्य-संस्कृत्योः सुगन्ध्या सुशोभितं जिला-शिक्षा-प्रशिक्षण-संस्थानम्, नीमचम् इत्यस्य प्राङ्गणं विशेषं जातं, यदा अखिलभारतीय-कालिदास-समारोहः २०२५ इत्यस्य अन्तर्गता जिला-स्तरीया प्रतियोगिता गरिमया वातावरणेन सम्पन्ना।
एषा परम्परा १९५८ तः निरन्तरं प्रवहति। या अस्याः जनपदस्य छात्राणां प्रतिभां नूतनानि शिखराणि प्रदत्तवती।
कार्यक्रमस्य शुभारम्भः माँ सरस्वती-पूजन इत्यनेन अभवत्। सरस्वती-वन्दना श्रीमती चन्दा,सोलंकी इत्यनेन प्रस्तुताभूत्।
माननीयः सहायक-संचालक-महोदयः श्रीमनोज-जैन-नामकः श्रीदिग्विजय-पालीवालेन सत्कारितः। संस्थानस्य प्राचार्या श्रीमतीपुष्पाञ्जलि-तिवारी-नाम्ना सत्कृता च। संस्कृत-गीतं श्रीमती भाग्यवन्ती निमावत इत्यनेन प्रस्तुतम्। कार्यक्रमस्य सञ्चालनं संस्कृत-प्रकोष्ठस्य जिला-प्रभारी श्रीभगवतीलाल-शर्मा इत्यनेन सम्यक् कृतम्।
अस्मिन् अवसरि संभाषण-प्रतियोगिता, श्लोक-पाठ-प्रतियोगिता, चित्रकला-प्रतियोगिता च आयोजिता। निर्णायक-मण्डले श्रीदिग्विजय-पालीवालः, श्रीमती हेमलता-वर्मा, श्रीमती शिक्षा-शर्मा च आसन्।
🏆 प्रतियोगिताफलम्-प्रथमस्थानम्
संभाषण-प्रतियोगिता : शरद् नागदा (कक्षा १२, उत्कृष्ट-मनासा) श्लोक-पाठ-प्रतियोगिता : प्रद्युम्नः (कक्षा १२, उत्कृष्ट-नीमच) चित्रकला-प्रतियोगिता : साक्षी (कक्षा ९, सांदीपनि-विद्यालयः मनासा) द्वितीयस्थानम् संभाषण-प्रतियोगिता : खुशबू (कक्षा ९, सांदीपनि-विद्यालयः नीमच) श्लोक-पाठ-प्रतियोगिता : हर्षितः (कक्षा ११, उत्कृष्ट-मनासा)
चित्रकला-प्रतियोगिता : रौनकः (कक्षा ९, सांदीपनि-विद्यालयः जावद्) तृतीयस्थानम् संभाषण-प्रतियोगिता :अनम् बी (कक्षा ९, सांदीपनि-विद्यालयः जावद्) श्लोक-पाठ-प्रतियोगिता : कुञ्जबाला गोपालः (कक्षा १०, सांदीपनि-विद्यालयः जावद्)
चित्रकला-प्रतियोगिता : शीतल (कक्षा १२, उत्कृष्ट-नीमच)
🎖️ प्रमाणपत्रवितरणम्विजेतारः माननीय-सहायक-संचालक-श्रीमनोजजैन-महोदयेन करकमलात् प्रमाणपत्रैः सन्मानिताः।
अवसरे अस्मिन् सहायक-संचालक-महोदयः, प्राचार्या महोदया, पालीवालमहोदयेनश्च विद्यार्थिभ्यः प्रेरणादायी उद्बोधनं दत्तवन्तः।
सर्वेभ्यः छात्राणाम् उत्साहवर्धनं कृतम्। कार्यक्रमः संस्थायाः गतिविधि-प्रभारी श्रीमती इन्दिरा-लोहार इत्यनेन कृत-आभार-प्रदर्शनेन समापनं प्राप्तवान्। अयं आयोजनः विद्यार्थीनां प्रतिभा-विकासे, कालिदासस्य सांस्कृतिक-परम्परायाः संरक्षणे च अतीव महत्त्वपूर्णः सिद्धः!