अजमेरः-कार्यशालाया: द्वितीये दिवसे एकीकृतशिक्षणं, मूल्यशिक्षणं, अधिगमस्तर:, बहुभाषावादश्च समालोकितः।
हिमसंस्कृतवार्ता:- डॉ. अमित शर्मा, अजमेर।
राजस्थानस्य अजमेरस्थे क्षेत्रीयशिक्षामहाविद्यालये जायमानाया: उत्तरक्षेत्रीय- राज्यानां पञ्चदिवसीयाया: अभिविन्यासकार्यशालाया: द्वितीये दिवसे विविधा विषया: समालोकिता:। प्रारम्भे राज्यस्य प्रतिनिधिभि: गतदिनस्य विवरणं स्थापितम्। हिमाचलप्रदेशस्य संस्कृतशिक्षक: डॉ. अमितशर्मा सर्वप्रथमं विवरणं प्रस्तुतवान्। चंडीगढ़स्य आंग्लशिक्षिका ईशा अपि विवरणं प्रस्तुतवती। तदनु हरियाणाप्रान्तस्य राजस्थानस्य च प्रतिनिधयः अपि विवरणस्य प्रस्तुतिं कृतवन्तः।
प्रथमसत्रम्- प्रथमसत्रे डॉ. अमृता कात्यायनी एकीकृतशिक्षणं, मार्गदर्शनं, परामर्शनं मूल्यशिक्षा च विवेचितवती। हिंदी पाठ्यपुस्तकस्य माध्यमेन सा पुस्तकस्य सन्देश- मूल्य- संस्कृतेश्च समायोजनं दर्शितवती।
सहैव डॉ. राजीव रंजन: अपि स्वविषयं स्थापितवान्। तेन शिक्षणे विशेष आवश्यकतायुक्तबालानां प्रकारा:, तेषां बाधकतत्त्वानि समाजस्य भूमिका च सम्यक् प्रतिपादिता।
द्वितीयसत्रम्- द्वितीये सत्रे डॉ. के वी श्रीदेवी अधिगमस्तराणां, अधिगमसम्प्राप्तीनां च विवेचनं कृतवती। छात्राणाम् अधिगमक्षमतानां, अधिगमस्य बाधानां च वर्णनं तया बोधितम्।
तृतीयसत्रम्- अस्मिन् सत्रे शिक्षणे बहुभाषिकतावादस्य महत्त्वं विवेचितम्। अस्मिन् सत्रे प्रो. आयुष्मान गोस्वामी, प्रो मीनाक्षी खार च स्व स्व विषयं समुपस्थापितवन्तौ। भाषाया: का शक्ति: या मनसि भावं जनयति आनन्दं च उत्पादयति इति प्रो गोस्वामीवर्या: अनंतोर्जा युक्तेसत्रे योजितवन्त:।
चतुर्थसत्रम्- भाषागतपाठयपुस्तकानां विविध- अभिविन्यासः अस्मिन् सत्रे शिक्षकै: कृत:। विभिन्नदलेषु उपविश्य तै: स्वविषयस्य पुस्तकस्य स्वरूपं ज्ञातम्।
हिमाचल प्रदेशस्य संस्कृत शिक्षक: डॉ. अमित शर्मा गतदिनस्य विवरणं प्रस्तुतवान्।

अजमेरः- कार्यशालाया: द्वितीये दिवसे एकीकृतशिक्षणं, मूल्यशिक्षणं, अधिगमस्तर:, बहुभाषावादश्च समालोकितः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
