By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP CPS APPOINTMENT CASE : हिमाचल- उच्चन्यायालयस्य बृहत् निर्णयः, सीपीएस-नियुक्ति-अधिनियम: निरस्त:, सर्वा: सुविधा: समाप्ता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP CPS APPOINTMENT CASE : हिमाचल- उच्चन्यायालयस्य बृहत् निर्णयः, सीपीएस-नियुक्ति-अधिनियम: निरस्त:, सर्वा: सुविधा: समाप्ता:
हिमाचलवार्ता

HP CPS APPOINTMENT CASE : हिमाचल- उच्चन्यायालयस्य बृहत् निर्णयः, सीपीएस-नियुक्ति-अधिनियम: निरस्त:, सर्वा: सुविधा: समाप्ता:

डॉ मनोज शैल
Last updated: 2024/11/13 at 5:54 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

HP CPS APPOINTMENT CASE : हिमाचल- उच्चन्यायालयस्य बृहत् निर्णयः, सीपीएस-नियुक्ति-अधिनियम: निरस्त:, सर्वा: सुविधा: समाप्ता:
हिमसंस्कृतवार्ता: – शिमला।
मुख्यसंसदीयसचिवस्य (सीपीएस) नियुक्तीनां संवैधानिकस्थितेः विषये बुधवासरे हिमाचलप्रदेश- उच्चन्यायालयेन बृहत् निर्णयः कृतः। उच्चन्यायालयेन सीपीएस-अधिनियमः निरस्तः कृतः अस्ति। अस्य अन्तर्गतं मुख्यसंसदीयसचिवेभ्य: प्रदत्ताः सर्वाः सुविधाः निरस्ताः अभवन् । अधुना षट् मुख्यसंसदीयसचिवाः केवलं विधायकरूपेण एव कार्यं करिष्यन्ति। न्यायालयेन मुख्यसंसदीयसचिवानां नियुक्तयः असंवैधानिकाः इति घोषिताः। अस्मिन् प्रकरणे *पीपुल् फ़ॉर् रेस्पोन्सिबल गवर्नेन्स् इति* संस्थायाः पक्षतः २०१६ तमे वर्षे न्यायालये याचिका प्रवेशिता आसीत् । न्यायालये द्वितीया याचिका कल्पना, तृतीया याचिका भाजपानेता सतपाल सत्ती तथा अन्ये ११ भाजपा विधायकै: प्रवेशिता।
एतासु त्रिषु याचिकासु मूलप्रश्नः २००६ तमे वर्षे हिमाचलप्रदेशे निर्मितः अधिनियमः अस्ति । अस्य अन्तर्गतं पूर्वं भाजपा-सर्वकारेण स्वविधायकान् मुख्यसंसदीयसचिवा: अधुना काङ्ग्रेससर्वकारेण षट्विधायकाः मुख्यसंसदीयसचिवा: कृताः। अस्य प्रकरणस्य तर्कार्थं सर्वकारेण सर्वोच्चन्यायालयस्य वरिष्ठौ अधिवक्तृद्वयं नियुक्तौ । भाजपया दत्तया याचिकायां उक्तं यत् संविधाने सीपीएसपदस्य कोऽपि प्रावधानम् नास्ति तथा च भारतस्य संविधानस्य अनुच्छेदस्य १६४ अन्तर्गतं राज्ये १५ प्रतिशतात् अधिकं मन्त्रिमण्डलस्य सङ्घटनम् न कर्तुं शक्यते येन हिमाचले संख्या केवलं १२ एव भवितुम् अर्हति । मुख्यसंसदीयसचिवा: कृत्वा एषा संख्या १७-१८ यावत् भवति । अधुना उच्चन्यायालयेन सीपीएस नियुक्तिविधानम् निरस्तीकृतम्।

सीपीएस-नियुक्तिसम्बद्धः प्रथमः विवादः हिमाचले एव उत्पन्नः

सीपीएस-पदस्य नियुक्तिसम्बद्धः प्रथमः विवादः हिमाचले प्रकाशं प्राप्तवान् । वस्तुतः २००५ तमे वर्षे प्रथमवारं सीपीएस-नियुक्तिविषये विवादः उत्पन्नः आसीत् । तदनन्तरं राज्यसर्वकारेण सीपीएस-नियुक्त्यर्थं विधानसभातः अधिनियमः पारितः अभवत् । अस्मिन् तेषां नियुक्त्या आरभ्य वेतनवृत्ति:, अधिकारः च यावत् सर्वस्य नियमाः निर्मिताः । अस्य अन्तर्गतं अद्यपर्यन्तं सीपीएस-इत्यस्य नियुक्तिः क्रियते।

सीपीएस-निर्माणस्य निर्णयः असंवैधानिकः आसीत् – जयरामठाकुरः

विपक्षनेता पूर्वमुख्यमंत्री जयराम ठाकुरः अवदत् यत् भाजपा प्रथमदिनात् एव सीपीएस-निर्माणस्य निर्णयस्य विरुद्धा अस्ति यतः एषः असंवैधानिकः अस्ति तथा च संविधानविरुद्धः निर्णयः अस्ति। २०१७ तमे वर्षे यदा वयं सर्वकारे आसम् तदा अस्माकं काले अयं प्रश्नः अपि आगतः । अतः वयं पूर्णतया असंवैधानिकं मन्य मुख्यसंसदीयसचिवा: न नियुक्तवन्तः। अद्य उच्चन्यायालयेन पुनः सर्वकारस्य अधिनायकत्वम् असंवैधानिकं च निर्णयं अङ्गीकृतम्। अस्य पदस्य लाभं गृहीत्वा सर्वेषां विधायकानां सदस्यता अपि समाप्ता भवेत् इति वयं आग्रहं कुर्मः।

वीरभद्र-धूमल-सर्वकारेण नियुक्ता: मुख्यसंसदीयसचिवा:

देशस्य सर्वेषु राज्येषु सीपीएस-नियुक्तिविषये राजनैतिकयुद्धं प्रचलति। पूर्वमुख्यमंत्रिण: वीरभद्रसिंहस्य नेतृत्वे काङ्ग्रेससर्वकारेण २०१३ तमे वर्षे १० मुख्यसंसदीयसचिवा: नियुक्ताः आसन् । प्रेमकुमारधूमलस्य सर्वकारेण अपि त्रयः मुख्यसंसदीयसचिवा: नियुक्ताः आसन्। हिमाचलप्रदेशसंसदीयसचिवः (नियुक्ति:, वेतनं, वृत्ति:, अधिकार:, विशेषाधिकार: तथा सुविधा) अधिनियम-२००६ इत्यस्य अनुसारं सीपीएस इत्यस्य मन्त्रीरूपेण कार्यं कर्तुं पूर्वमेव निषेधः अस्ति। केवलम् अस्य अन्तर्गतं सीपीएस-नियुक्तयः कृताः सन्ति । परन्तु असम-हिमाचल-प्रदेशे सीपीएस-कृते निर्मितेषु नियमेषु भेदाः सन्ति ।

You Might Also Like

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः

अप्रत्याशित- मेघविस्फोट- घटनाः सङ्कुचन्तः हिमनदाः च जलवायुपरिवर्तनस्य सङ्केताः- मुख्यमन्त्री सुक्खु:

टांकरी लिपे: पुनरुत्थानाय आयोजिता कार्यशाला, द्वयो: छात्रवृत्तयो: घोषणा

अन्तर्राष्ट्रीय-मण्डी-महाशिवरात्रि-महोत्सवः – राजकीय-शोभायात्रया लघ्वीकाश्यां मण्ड्यां देवी-देवतानां महाकुम्भः आरब्धः

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP High Court, HP NEWS, उच्चतम: न्यायालय:, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल उच्च न्यायालय, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Tax- एक-चतुरधिक-पञ्दश-प्रतिशतम् वर्धितमस्ति राष्ट्रस्य शुद्ध-प्रत्यक्ष-करसंग्रहः
Next Article KKSU Ramtek : संयमितताहार:, नियमितयोगश्च स्वस्थजीवनशैल्या: एवं व्यक्तित्वनिर्माणस्य रहस्यम् – स्वामी परमार्थदेव:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?