By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: KKSU Ramtek – स्वामी विवेकानन्देन भारतस्य सशक्तीकरणाय आत्मनिर्भरत्वाय च दिशा प्रदत्ता — प्रो. परागजोशीः।
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > दिवसविशेषः > KKSU Ramtek – स्वामी विवेकानन्देन भारतस्य सशक्तीकरणाय आत्मनिर्भरत्वाय च दिशा प्रदत्ता — प्रो. परागजोशीः।
दिवसविशेषःप्रादेशिकवार्तासंस्कृतगतिविधयः

KKSU Ramtek – स्वामी विवेकानन्देन भारतस्य सशक्तीकरणाय आत्मनिर्भरत्वाय च दिशा प्रदत्ता — प्रो. परागजोशीः।

डॉ मनोज शैल
Last updated: 2026/01/14 at 9:53 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

KKSU Ramtek – स्वामी विवेकानन्देन भारतस्य सशक्तीकरणाय आत्मनिर्भरत्वाय च दिशा प्रदत्ता — प्रो. परागजोशीः।

स्वामी विवेकानन्द-जयंती-अवसरे भारतबोध-प्रज्ञाप्रवाह-ग्रन्थ-अध्ययन-कार्यशालायाः उद्घाटनम्।

 

हिमसंस्कृतवार्ता: – डॉ रेणुका बोकारे, नागपुरम्।

कविकुलगुरुकालिदास-संस्कृत-विश्वविद्यालयस्य IKS-केन्द्रस्य राष्ट्रियसेवा-योजनायाश्च संयुक्ततत्त्वावधानान्तर्गतं स्वामी विवेकानन्द-जयंतीं मातृजिजाऊ-जयंतीं तथा युवा-दिवसं च उपलक्ष्य विविधाः कार्यक्रमाः आयोजिताः। अस्मिन् अवसरे संस्कृत-भाषा-साहित्य-विभागाध्यक्षः प्रो. परागजोशीः विशेष-व्याख्यानं प्रदत्तवान्।

कार्यक्रमस्य शुभारम्भः स्वामी विवेकानन्दस्य मातृजिजाऊश्च चित्रयोः पुष्पाञ्जल्यार्पणेन दीपप्रज्वलनेन च कृतः। कार्यक्रमस्य अध्यक्षतां परमपूज्य-गोलवलकर-गुरुजी-शैक्षणिक-परिसरस्य प्रमुखः प्रो. हरेकृष्ण-अगस्तीः अलङ्कृतवान्। कार्यक्रमस्य प्रस्तावनां राष्ट्रियसेवा-योजनायाः निदेशकः डॉ. जयवन्त-चौधरीः प्रस्तुतवान्। प्रस्तावनायां डॉ. चौधरीः उक्तवान् यत् प्रत्येकः विद्यार्थी स्वीयाः आन्तरिकाः क्षमताः विकासयेत्, मानसिक-स्वास्थ्यस्य च पोषणं कर्तव्यम्। तदनन्तरं विद्यार्थिषु आत्मविश्वासस्य निर्भयतायाश्च निर्माणं अत्यावश्यकम्, येन ते जीवनस्य विविधाः चुनौतयः समर्थतया समासादयितुं शक्नुवन्ति। एकाग्रता लक्ष्ये च केन्द्रीकरणं व्यक्तित्व-विकासाय अत्यन्तं आवश्यकम् इति अपि तेन प्रतिपादितम्।

 

स्वामीविवेकानन्दस्य जीवनचरितं अवश्यमेव अध्ययेतव्यम् – प्रो. परागजोशीः

मुख्यवक्ता प्रो. परागजोशीः स्वीय-व्याख्याने स्वामी विवेकानन्दस्य जीवनस्य विविधाः घटनाः प्रकाशयामास। सः अवदत् यत् स्वामी विवेकानन्दस्य जीवनचरितं प्रत्येकः युवा अवश्यं पठेत्, तस्मात् प्रेरणां च गृह्णीयात्। स्वामी विवेकानन्देन भारतीय-संस्कृतेः महत्त्वं विश्वस्य समक्षं प्रतिपादितम्, युवभ्यश्च स्वाभिमानस्य कर्तृत्वस्य चरित्र-निर्माणस्य च मन्त्रः प्रदत्तः।

आत्मविश्वास-राष्ट्रभक्ति-मानवसेवा-आधारिताः स्वामी विवेकानन्दस्य विचाराः अद्यापि भारतं सशक्तं आत्मनिर्भरं च कर्तुं मार्गं दर्शयन्ति। तेषां विचारानुसारं आत्मविश्वास-शिस्त-कर्तव्यबोध-राष्ट्रसेवायुक्ता युवा-पीढी एव भारतं महाशक्तिं कर्तुं समर्था। ऊर्जा-विचार-परिवर्तन-क्षमतायुक्ताः युनः राष्ट्रस्य सत्याधिष्ठाना: सन्ति इति तेन प्रतिपादितम्।

 

 

 

 

प्रो. हरेकृष्ण-अगस्तीः स्वीय-अध्यक्षीय-भाषणे मातृजिजाऊयाः त्यागं स्मारयन् आदर्श-मातृ-गुरु-स्वरूपे प्रकाशं कृतवान्। कार्यक्रमस्य सञ्चालनं राष्ट्रियसेवा-योजनायाः छात्रा ईशा-मशानकर इत्यया कृतम्।

 

 

एकविंशति-दिवसीय-ग्रन्थ-अध्ययन-कार्यशालायाः उद्घाटनम्

युवा-दिवस-अवसरे विश्वविद्यालयीय-विद्यार्थिनां कृते राष्ट्रियसेवा-योजना तथा IKS-केन्द्रस्य संयुक्ततत्त्वावधानान्तर्गतं अभिनवः उपक्रमः आरब्धः। ‘भारतबोध-ज्ञान-प्रवाह’ इति नाम्ना एकविंशति-दिवसीया कार्यशाला उद्घाटिता। विद्याभारत्या प्रकाशितायाः भारतबोध-प्रज्ञाप्रवाह-ग्रन्थमालायाः विविध-ग्रन्थानां अध्ययनं कृत्वा विद्यार्थिभिः स्वविचाराः प्रस्तुताः करिष्यन्ते।

उद्घाटन-सत्रे प्रथमं व्याख्यानं ज्योतिष-विभागस्य विद्यार्थी विष्णुवर्धनः प्रस्तुतवान्। अस्मिन् अवसरे प्रो. हरेकृष्ण-अगस्तीः अवदत् यत् एषः ग्रन्थ-अध्ययन-उपक्रमः स्वामी विवेकानन्दस्य ‘शिक्षया आत्मविकासः’ इति विचारं व्यवहारतः साकारयन् प्रशंसनीयः प्रयोगः अस्ति।

अस्य उपक्रमस्य उद्देश्यं विद्यार्थिषु स्वतन्त्र-चिन्तन-क्षमतायाः विकासः, लेखन-भाषणयोः माध्यमेन स्वविचाराणां प्रभावी-अभिव्यक्तेः कौशल-विकासश्च अस्ति। विश्वविद्यालयीयाः विद्यार्थी निर्भीकाः स्पष्ट-विचारयुक्ताश्च भवन्तु — एतदेव अस्य प्रयासस्य मूल-लक्ष्यम्।

एषः उपक्रमः IKS-केन्द्रस्य प्रमुखया प्रो. कलापिनी-अगस्तीया राष्ट्रियसेवा-योजना-समन्वयकेन डॉ. जयवन्त-चौधरीणां मार्गदर्शनेन सम्पन्नः। शिक्षां आत्मविकासस्य साधनं मन्यमानस्य स्वामी विवेकानन्दस्य विचारान् प्रत्यक्ष-उपक्रमेण साकारयितुं प्रशंसनीयम्। अस्मिन् अवसरे रामटेक-परिसरस्य सञ्चालकेन प्रो. हरेकृष्ण-अगस्तिना प्रमुख-वक्त्रा प्रो. परागजोशिना च शुभहस्ताभ्यां सर्वे सहभागी-विद्यार्थिनः प्रमाणपत्रैः सम्मानिताः।

 

 

 

 

You Might Also Like

विपक्षस्य नेता जयरामठाकुरः अर्की- अग्निकाण्डस्थलस्य निरीक्षणं कृतवान् अकथयत् च सर्वकारस्य मनोवृत्तिः निन्दनीया

मकरसंक्रांति: एकतायाः, अखण्डतायाः शक्ति-उपासनायाश्च प्रारम्भकालः – आचार्यरोशनकौशल:

*कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये सर्वदर्शनविभागे आचार्यपदे उमामहेश्वरी बी नियुक्ता* 

मकर संक्रान्ति: शास्त्रीय-महत्त्वं जीवनोपयोगिता च । एकतां माधुर्यम् जीवनकलां च शिक्षयति मकर-संक्रान्ति: – डॉ मनोज शैल:

मकरसंक्रान्तेः फलम् (जनवरी 2026)

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, KKSU, KKSU Ramtek, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालय, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, संस्कृत विश्वविद्यालय, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article मकरसंक्रांति: एकतायाः, अखण्डतायाः शक्ति-उपासनायाश्च प्रारम्भकालः – आचार्यरोशनकौशल:
Next Article विपक्षस्य नेता जयरामठाकुरः अर्की- अग्निकाण्डस्थलस्य निरीक्षणं कृतवान् अकथयत् च सर्वकारस्य मनोवृत्तिः निन्दनीया
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?