अखिलभारतीय-प्राच्यविद्या-सम्मेलने वैज्ञानिकग्रन्थस्य “वैदिक-आख्यान-विज्ञानम्” इत्यस्य वैज्ञानिकग्रन्थस्य गरिमामयं लोकार्पणम्

सम्मेलने समवेताः साधु-सन्ताः, शास्त्रशुद्धये समितेः संरचना
मुख्याः अंशाः
> शङ्कराचार्यैः सह समग्रदेशस्य विविधानां गुरुपरम्पराणां सन्तैः सनातनशास्त्र-शुद्धि-अभियानाय सर्वसम्मतिः प्रदत्ता।
> पतञ्जलि-विश्वविद्यालये ‘सनातनशास्त्र-शुद्धि-समितेः’ संरचना।
> अस्याः समितेः अन्तर्गते ‘विद्वत्परिषदः’ ‘सन्त-संन्यासि-परिषदः’ च संयोजनम्।
सिक्ख-जैन-बौद्ध-परम्पराणाम् अपि प्रतिनिधित्वं सुनिश्चितं भविष्यति।
हिमसंस्कृतवार्ता- डॉ रेणुका बोकारे, हरिद्वारम्।
सनातनपरम्परायाः, संस्कृतेः, शास्त्राणां च प्रामाणिकतायाः संरक्षणाय हरिद्वारस्थे पतञ्जलि-विश्वविद्यालये आयोजिते द्विपञ्चाशत्तमे (५२ तमे) अखिलभारतीय-प्राच्यविद्या-महासम्मेलने (AIOC) द्वितीयदिने कश्चन युगान्तकारी निर्णयः स्वीकृतः। जगद्गुरु-शङ्कराचार्याणाम्, अखिलभारतीय-सन्तसमितेः, विविधाखाड़ानां, विविधानां गुरुपरम्पराणां सन्तानां, राष्ट्रिय-स्वयंसेवक-सङ्घस्य (RSS), विश्वहिन्दूपरिषदः (VHP) च पदाधिकारिणां समुपस्थितौ ‘सनातनशास्त्र-शुद्धिकरण-समितेः’ निर्माणाय सर्वसम्मत्या सहमतिः प्रदर्शिता।
अस्याः समितेः कार्यसञ्चालनाय द्वे परिषदावेव निर्मिते—’विद्वत्परिषद्’ तथा ‘सन्त-संन्यासि-परिषद्’। अस्यां शास्त्रशुद्धिसमितौ सिक्ख-जैन-बौद्ध-परम्पराणाम् अपि सहभागिता सुनिश्चिता भविष्यति। विदुषां शास्त्रज्ञानाम् आचार्याणां च विद्वत्परिषद् शास्त्रेषु समये समये सञ्जातानां प्रक्षिप्तांशानां, विकृतीनां, मिथ्याव्याख्यानां च गभीरम् अध्ययनं कृत्वा स्ववृत्तं (रिपोर्ट्) सन्त-संन्यासि-परिषदं प्रति समर्पयिष्यति।
सन्त-संन्यासि-परिषदः संयोजकरूपेण आचार्यमहासभायाः पूज्यस्वामी परमात्मानन्द-महोदयः, तथा च विद्वत्परिषदः संयोजकरूपेण नवदेहलीस्थ-केन्द्रीय-संस्कृत-विश्वविद्यालयस्य कुलपतयः प्रो. श्रीनिवास-वरखेडी-महोदयाः नियोजिताः सन्ति।
अस्मिन्नेव मङ्गलमये अवसरे योगऋषिणा स्वामि-रामदेवमहाराजेन पूज्येन आचार्य-बालकृष्णेन च रचितस्य सनातनधर्मप्रसङ्गाधृतस्य नूतनस्य वैज्ञानिकग्रन्थस्य “वैदिक-आख्यान-विज्ञानम्” इत्यस्य गरिमामयं लोकार्पणं विहितम्।
सम्मेलने योगऋषिः स्वामी रामदेवः स्पष्टमकरोत् यत् वेदविरुद्धम्, सनातनविरुद्धम् आचरणं कुर्वाणानां गोहत्यां च विदधतां जनानां सामाजिक- आर्थिक-राजनैतिक-धार्मिकदृष्ट्या सर्वथा बहिष्कारः करणीयः। सः चिन्तां प्रकटयन् अवदत् यत् सम्प्रति ‘च्याट्-जीपीटी’ (ChatGPT), ‘जेमिनी’ (Gemini) इत्यादीनां कृत्रिमप्रज्ञा-उपकरणानां (AI Tools) माध्यमेन अशुद्धोद्धरणानि गृहीत्वा अस्माकं देवी-देवतानां, भगवतः श्रीरामस्य, मातुः सीतायाः च विषये मिथ्यारोपाः प्रसार्यन्ते, यस्य प्रतिषेधः नितान्तमपेक्षितः। कोटि-कोटि-वर्षपुरातना अस्माकं वेदपरम्परा, श्रुतिपरम्परा, ऋषिपरम्परा च विशुद्धतमे रूपे तिष्ठेत् इति लक्ष्यम् अस्ति।
पूज्यः आचार्य-बालकृष्णः अवदत् यत् विकृतीकृतस्य भारतीयतिहासस्य सनातनदृष्ट्या पुनर्लेखनं पतञ्जलौ क्रियमाणम् अस्ति। सन्तैः यः शास्त्रशुद्धेः महासङ्कल्पः स्वीकृतः, तं पूरयितुं वयं सम्पूर्णशक्त्या, प्रामाणिकतया, योजनाबद्धरीत्या च कार्यं करिष्यामः।
अस्मिन् महासम्मेलने विश्वहिन्दूपरिषदः अध्यक्षाः आलोककुमाराः, राष्ट्रियस्वयंसेवकसङ्घस्य रामलाल:, महामण्डलेश्वराः स्वामी अवधेशानन्दगिरिमहाराजाः, स्वामी गोविन्ददेवगिरिमहाराजाः, त्रयोविंशतेः (२३) विश्वविद्यालयानां कुलपतयः, चत्वारिंशत् (४०) प्रमुखाः विद्वांसश्च उपस्थिताः आसन्।
