स्वामि-रामदेवस्य महत् अभियानम्, धर्मग्रन्थानां शुद्धीकरणाय निर्मिता समितिः, काऽस्ति सम्पूर्ण-योजना ?
केन्द्रीय-संस्कृत-विश्वविद्यालयस्य कुलपति: श्रीनिवास-वरखेडी समित्याः विद्वत्सभायाः संयोजक:
हिमसंस्कृतवार्ता – हरिद्वारम्।
पतञ्जलि-योगपीठे आयोजिते द्विपञ्चाशत्तमे (५२ तमे) अखिलभारतीय-प्राच्यविद्या-सम्मेलने द्वितीयदिने शुक्रवासरे सनातनधर्मस्य ग्रन्थानां शुद्धीकरणस्य तेषां प्रामाणिकस्वरूपस्य च प्रकटीकरणस्य विषयः प्रमुखतया उत्थितः। सम्मेलने समग्रदेशस्य सन्तानां, धर्माचार्याणां, संस्कृतविदुषां, विविधानां धार्मिकसङ्घटनानां च प्रतिनिधीनाम् उपस्थितौ ‘सनातनधर्मशास्त्र-शुद्धीकरण-समितेः’ सङ्घटनस्य निर्णयः स्वीकृतः। अस्य अभियानस्य उद्देश्यं धर्मग्रन्थेषु कथितरूपेण कृतानां प्रक्षिप्तांशानां मिथ्याव्याख्यानां च निवारणं कृत्वा तेषां मूलस्वरूपस्य पुनर्प्रतिष्ठापनम् अस्ति। एतेन सहैव आधुनिक-प्रविधेः कृत्रिमप्रज्ञायाः (AI) माध्यमेन प्रसारितानां भ्रामकसूचनानामपि परिष्काराय उपक्रमः विधास्यते।
योगगुरुणा स्वामि-रामदेवेन विज्ञापितं यत् सम्मेलने अखिलभारतीय-सन्तसमितेः अध्यक्षाः, विविधाखाड़ानां प्रतिनिधयः, अखिलभारतीय-विद्वत्परिषत्-काशीविद्वत्परिषदोः पदाधिकारिणः, हिन्दूमहासभायाः, जगद्गुरु-शङ्कराचार्याणां प्रतिनिधयः, नैकासां धार्मिकसंस्थानां सदस्याश्च सम्मिलिताः अभवन्। सर्वैः धर्मगुरुभिः विचारविमर्शात् परं शास्त्राणां शुद्धीकरणाय समितेः निर्माणे सहमतिः प्रदर्शिता।
तेनोक्तं यत् केन्द्रीय-संस्कृत-विश्वविद्यालयस्य कुलपति: श्रीनिवास-वरखेडी-महोदय: समित्याः विद्वत्सभायाः संयोजकरूपेण नियुक्ताः। स्वामी परमात्मानन्द-महोदयाः सन्तसभाया: संयोजकत्वेन नियोजिताः। एतदतिरिच्य मार्गदर्शक-मण्डले शतसङ्ख्याकाः (१००) संन्यासिनः समाविष्टाः। अभियानस्य प्रथमे चरणे वेदानुसारिणां धर्मग्रन्थानां परीक्षणं शुद्धीकरणं च करिष्यते। तदनन्तरम् अन्ये ग्रन्था: अपि अस्यां प्रक्रियायां योजयिष्यन्ते। स्वामि-रामदेवस्य मते, अस्मिन् विस्तृते अभियाने शतकोटिरूप्यकाणां व्ययस्य अनुमानम् अस्ति।
स्वामि-रामदेवेन आरोपः कृतः यत् सनातनधर्मस्य ग्रन्थान् अनुचितप्रकारेण प्रस्तूय तेषाम् अपमानः विहितः। अद्य कृत्रिमप्रज्ञायाः (AI) माध्यमेनापि सनातनधर्मं तस्य ग्रन्थांश्च अधिकृत्य अशुद्धाः भ्रामकाश्च सूचनाः प्रसार्यन्ते। एवं सति शास्त्राणां शुद्धीकरणेन सह कृत्रिमप्रज्ञायां वर्तमानानाम् अशुद्धसूचनानां परिष्कारस्य दिश्यपि कार्यं विधास्यते।
सः अवदत् यः जनः यच्च सङ्घटनं सनातनधर्मस्य अपमानं करिष्यति, तस्य सामाजिकतया राजनैतिकतया च बहिष्कारः विधास्यते। अस्य अभियानस्य अन्तर्गतं गोहत्यायाः उपरि सम्पूर्णप्रतिबन्धस्य याचना अपि उत्थापयिष्यते। रामदेव-महोदयेन प्रतिपादितं यत् ख्रीष्टीय-मुस्लिम-मतावलम्बिनां समेषां धर्माणां पूर्वजाः सनातनिनाः एव आसन्, अतः सः सर्वान् प्रति स्वपूर्वजान् स्मृत्वा कृतज्ञतया गोमांसभक्षणं त्यक्तुम् अनुरोधम् अकरोत्। सहैव अस्यां दिशि विधि-प्रतिबन्धादिकं विधातुं सर्वकारमपि उपक्रान्तिं कर्तुम् आग्रहमकरोत्।
स्वामि-रामदेवेन वार्ताहरगोष्ठ्यां दिनद्वयात् पूर्वं सनातनधर्मग्रन्थानां मिथ्याव्याख्यायै अनुचितप्रस्तुत्यै च मुगलशासकाः आंग्लशासकाश्च उत्तरदायिनः उक्ताः। सम्प्रति प्राच्यविद्यासम्मेलनस्य माध्यमेन तेन सनातनधर्मग्रन्थानां शुद्धस्वरूपप्रस्तुतेः दायित्वं स्वीकृतम्। अस्मिन् अभियाने सनातनधर्मसम्बद्धाः साधु-सन्ताः सङ्घटनानां प्रतिनिधयश्च संयोजिताः। समितेश्च सङ्घटनम् कृतम् अस्ति।
