विपक्षस्य नेता जयरामठाकुरः अर्की- अग्निकाण्डस्थलस्य निरीक्षणं कृतवान् अकथयत् च सर्वकारस्य मनोवृत्तिः निन्दनीया
हिमसंस्कृतवार्ता: – अर्की।
पूर्वमुख्यमन्त्री विपक्षस्य नेता च जयरामठाकुरः लोकसभासांसदः सुरेशकश्यपः च बुधवासरे अर्की-अग्निकाण्डस्थलं गत्वा प्रभावितपरिवारैः सह मिलित्वा तेषां कृते सान्त्वनां दत्तवन्तः। उभौ नेतारौ स्थलस्य निरीक्षणं कृत्वा स्थानीयव्यापारिणां सामान्यजनस्य च समस्याः श्रुतवन्तौ। जयरामठाकुरः अवदत् यत् एतत् दृश्यं भयंकरं स्यात्, अनेके जनाः स्वगृहस्य अन्तः जीविताः दग्धाः अभवन्।
सः मुख्यमन्त्रिण: सुक्खो मनोवृत्ति: अत्यन्तं असंवेदनशीला इति उक्तवान्, पीडिताः अन्यराज्यानां श्रमिका: अपि सन्ति चेदपि तेषां प्रति सर्वकारस्य उदासीनता निन्दनीया इति च अवदत्। सः प्रश्नं कृतवान् यत् अग्निप्रकोपसमये अग्निनिविदानां अभावः किमर्थम् आसीत्, अग्निः समये नियन्त्रितुं न शक्यते, यस्य परिणामेण एतादृशी महती प्राणहानिः अभवत् जयरामठाकुरः अवदत् यत् भविष्ये एतादृशाना घटनानां पुनरावृत्तिः न भवन्तु एतदर्थं सर्वकारेण कठोरसुरक्षामानकानि निर्धारयितव्यानि।
