
विक्रमजीतसिंहसनातनधर्ममहाविद्यालये दशदिवसीयसंस्कृतसम्भाषणशिबिरस्य भव्यः समापनसमारोहः सम्पन्नः
विज्ञानप्रदर्शनी, संस्कृतनाटिका, संस्कृतक्रिकेट्-विवरणम् च अभवन् प्रमुखाकर्षणानि; ५३ विद्यार्थिनः शिबिरे पञ्जीकृताः।

कानपुरम्। विक्रमजीतसिंहसनातनधर्ममहाविद्यालये संस्कारशालायाः संस्कृतविभागस्य तथा संस्कृतभारत्याः कानपुरमहानगरस्य संयुक्ततत्त्वावधाने आयोजितस्य दशदिवसीयस्य संस्कृतसम्भाषणशिबिरस्य समापनसमारोहः अत्यन्तम् उत्साहेन हर्षोल्लासेन च सम्पन्नः।
अस्मिन् शिबिरे कुलम् ५३ विद्यार्थिनः पञ्जीकरणं कृत्वा सक्रियतया सहभागिताम् अकुर्वन्। शिबिरस्य प्रमुखम् उद्देश्यम् आसीत् विद्यार्थिषु संस्कृतभाषायाः प्रति रुचिं वर्धयितुं तथा संस्कृतभाषां सरलां, सहजां, व्यवहारोपयोगिनीं च कर्तुम्।
समापनसमारोहे विद्यार्थिभिः दशदिनेषु प्राप्तस्य संस्कृतसम्भाषणकौशलस्य विविधासु गतिविधिषु प्रदर्शनं कृतम्। विज्ञानप्रदर्शनी, संस्कृतनाटिका, संस्कृतक्रिकेट्-विवरणम् इत्यादयः कार्यक्रमाः विशेषाकर्षणस्य केन्द्रम् अभवन्। विद्यार्थिभिः संस्कृतमाध्यमेन विज्ञानस्य आधुनिकविषयाणां च प्रस्तुतीकरणं कृत्वा संस्कृतभाषायाः आधुनिकजीवने अपि महत्त्वं प्रदर्शितम्।
कार्यक्रमे शोधच्छात्रा नौशीन शिबिरसम्बद्धान् स्वीयान् अनुभवान् प्रस्तुतवती। विधिविभागस्य छात्रा श्रद्धा संस्कृतसंख्यागीतस्य मनोहरां प्रस्तुतिम् अकरोत्। शिबिरे सहभागितां कृतवद्भ्यः सर्वेभ्यः विद्यार्थिभ्यः प्रमाणपत्राणि प्रदत्तानि।
समारोहे मुख्यातिथिरूपेण श्रीचन्द्रप्रकाशत्रिपाठीमहोदयस्य गरिमामयी उपस्थितिः आसीत्। तदतिरिक्तं प्रो. इन्द्रमणिः, प्रो. अनिलकुमारमिश्रः, प्रो. आनन्दशुक्लः, श्रीमती मञ्जूद्विवेदी, प्रो. आशीषसिंहः, प्रो. नन्दलालः तथा डॉ. धीमान् इत्यादयः विशिष्टाः अतिथयः उपस्थिताः आसन्। अतिथिभिः संस्कृतभाषायाः प्रचारप्रसारे विद्यार्थिनां भूमिकायाः महत्त्वं प्रतिपादितम् तथा छात्राणां प्रयासाः प्रशंसिताः।
शिबिरस्य संयोजिका प्रो. शोभामिश्रा तथा संस्कारशालायाः सहसंयोजकः प्रो. ओमप्रकाशमिश्रः कार्यक्रमस्य सफलतायै महत्त्वपूर्णं योगदानम् अददताम्। संस्कृतसम्भाषणप्रशिक्षकः देवेशविद्यार्थी विद्यार्थिभ्यः दशदिनपर्यन्तं संस्कृतभाषायां सम्भाषणस्य, विचाराणाम् अभिव्यक्तेः तथा विविधगतिविधिषु संस्कृतस्य प्रयोगस्य प्रशिक्षणम् अददात्।
कार्यक्रमस्य कुशलं सञ्चालनं शोधच्छात्रा सुश्री देवांशिकाद्विवेदी कृतवती। सम्पूर्णस्य समापनसमारोहस्य विशेषप्रबन्धनं श्रीसुरेन्द्रत्रिवेदीमहोदयेन कृतम्। समारोहे महाविद्यालयस्य प्राध्यापकाः, शोधच्छात्राः तथा विद्यार्थिनः उत्साहपूर्वकं समुपस्थिताः आसन्।
अयं दशदिवसीयः संस्कृतसम्भाषणशिबिरः केवलं प्रशिक्षणकार्यक्रमस्य समापनं न, अपितु विद्यार्थिषु संस्कृतसम्भाषणस्य आत्मविश्वासस्य नवीनोत्साहस्य च सञ्चारस्य महत्त्वपूर्णः अवसरः अभवत्। अनेन कार्यक्रमेण पुनः सिद्धं यत् संस्कृतं न केवलं प्राचीनसाहित्यस्य भाषा, अपितु विज्ञानस्य, आधुनिकज्ञानस्य, क्रीडायाः तथा दैनन्दिनजीवनस्य अपि सशक्ता अभिव्यक्तिभाषा अस्ति।
जयतु संस्कृतम्! जयतु भारतम्!
