मकरसंक्रांति: एकतायाः, अखण्डतायाः शक्ति-उपासनायाश्च प्रारम्भकालः – आचार्यरोशनकौशल:
श्रीअरविंदसंस्कृतमहाविद्यालये करसोगे हिमाचल-संस्कृत-अकादमी-द्वारा कार्यक्रम: आचरित:

हिमसंस्कृतवार्ता: – मण्डी।
हिमाचल-संस्कृत-अकादमी-शिमला इत्यनया श्रीअरविन्द-संस्कृत-महाविद्यालये करसोगे मकर-सङ्क्रान्ति-उत्सवः आयोजितः।
अस्मिन् अवसरे क्षेत्रस्य सुविख्याताः विद्वांसः आचार्य-रोशनलाल-कौशल-महोदयाः मुख्य-अतिथि-रूपेण उपस्थिताः आसन्। कार्यक्रमस्य अध्यक्षता डाॅ. सेवकराम-शास्त्री-महोदयैः कृता। अस्मिन् कार्यक्रमे सारस्वत-अतिथिरूपेण डाॅ. मनोज-शैलः, सेवानिवृत्त-तहसीलदारः वेदप्रकाशः, शिवकुमारश्च मञ्चासीनाः आसन्।
कार्यक्रमस्य शुभारम्भः भगवत्याः सरस्वत्याः सम्मुखे दीप-प्रज्ज्वलनेन वैदिक-मङ्गलाचरणपुरस्सरं च अभवत्। महाविद्यालयस्य प्राचार्येण आचार्य-कुशाल-शर्मा-महोदयेन मुख्यातिथि-सहितं सर्वेषां आगन्तुकानां वाचिकं स्वागतं कृतम्। मञ्चस्य सञ्चालनं महाविद्यालयस्य आचार्येण लिखित-शर्मा-महोदयेन कृतम्। हिमाचलप्रदेश-संस्कृत-अकादम्याः अधिकारिभ्यां नरेन्द्रकुमारेण पवनकुमारेण च अतिथीनां सम्मानं कृतम्।
तदनन्तरं महाविद्यालयस्य छात्र-छात्राभिः अनेके सांस्कृतिक-कार्यक्रमाः मकर-सङ्क्रान्तेः महत्त्वविषये भाषणादयश्च प्रस्तुताः। तेषु हिमांशु-नामकस्य छात्रस्य ओजपूर्णं भाषणं विशेषरूपेण उत्साहवर्धकं आसीत्। कार्यक्रमे उपस्थिताभ्यां आचार्य-शान्ताकुमारेण डाॅ. गगनेश्वर्या च मकर-सङ्क्रान्ति-विषये स्वरचित-काव्यपाठः कृतः। सारस्वत-अतिथिभिः डाॅ. मनोज-शैल-शिवकुमार-वेदप्रकाशैः मकर-सङ्क्रान्तेः सांस्कृतिकाः, पारम्परिकाः वैज्ञानिकाश्च पक्षाः व्याख्याताः। विशिष्टातिथिः हेतराम-ठाकुरः विशेषरूपेण करसोग-क्षेत्रस्य ‘साजा’ परम्परायाः उपरि प्रकाशं निक्षिप्तवान्। प्रस्तुति-कर्तृभ्यः प्रतिभागिभ्यः अकादम्याः पक्षतः मुख्यातिथीनां करकमलैः सम्मानं पुरस्कारश्च प्रदत्तः।
मुख्यातिथिः रोशनलाल-कौशलः कार्यक्रमं सम्बोधयन् भारतीय-परम्परायाः, उत्सवानां माघमासस्य च महत्त्वं प्रतिपादितवान्। सः खगोलविद्या, द्वादश-आदित्याः, सूर्यस्य सङ्क्रमणगतिः, दक्षिणायन-उत्तरायण-विमर्शः तथा स्थानीय-परम्पराणां विस्तृतं ज्ञानं दत्तवान्। तेन प्रतिपादितं यत् मकर-सङ्क्रान्तिः एकतायाः, अखण्डतायाः शक्ति-उपासनायाश्च प्रारम्भकालः मन्यते। आचार्य-कौशलेन करसोग-क्षेत्रे प्रचलन्तः पाजा-हवन-गुड़-तिल-कृशर-इत्यादि-भोज्यपदार्थानां महत्त्वं विस्तरेण उक्तं तथा च आचरणार्थं सरलाः प्रयोगाः अपि सूचिताः।

कार्यक्रमस्य समापन-अवसरे अध्यक्षीय-भाषणे डाॅ. सेवकराम-शास्त्री अवदत् यत् मकर-सङ्क्रान्तेः सिद्धान्तान् आचरणशीलतां च नूतन-सन्ततिं प्रति प्रापयितुं एतादृशानां कार्यक्रमाणां विशेषं महत्त्वं वर्तते। अस्मिन् दृष्ट्या सः संस्कृत-अकादम्यै आयोजक-आचार्येभ्यश्च वर्धापनं शुभकामनाश्च दत्तवान्।
अस्मिन् अवसरे क्षेत्रस्य विशिष्टाः विद्वांसः सामाजिकाश्च यथा— प्रकाशशास्त्री, भावेन्द्रशास्त्री, धर्मपालशास्त्री, आचार्यबलवन्तः, कपिलशास्त्री, डाॅ. किशोरीलालः, डाॅ. गगनेश्वरी, कपूरचन्दः, भूपेन्द्रशास्त्री, गुड्डूशास्त्री, डाॅ. खेमराजः, डाॅ. परमानन्दः संस्कृतशिक्षकपरिषद: राज्यवित्तसचिव: लोकपाल: जिला-उपाध्यक्ष: देविन्द्र: इत्यादयः उपस्थिताः आसन्।
