By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: पतञ्जलि-विश्वविद्यालये द्विपञ्चाशत्तमम् (५२ तमम्) अखिलभारतीय-प्राच्यविद्या-सम्मेलनं सम्पन्नम्, सनातनपरम्परात: आरभ्य कृत्रिमप्रज्ञां (ए.आई.) यावत् विषयेषु सञ्जातं मन्थनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > पतञ्जलि-विश्वविद्यालये द्विपञ्चाशत्तमम् (५२ तमम्) अखिलभारतीय-प्राच्यविद्या-सम्मेलनं सम्पन्नम्, सनातनपरम्परात: आरभ्य कृत्रिमप्रज्ञां (ए.आई.) यावत् विषयेषु सञ्जातं मन्थनम्
धर्मसंस्कृतिःराष्ट्रीयवार्ताःसंस्कृतगतिविधयः

पतञ्जलि-विश्वविद्यालये द्विपञ्चाशत्तमम् (५२ तमम्) अखिलभारतीय-प्राच्यविद्या-सम्मेलनं सम्पन्नम्, सनातनपरम्परात: आरभ्य कृत्रिमप्रज्ञां (ए.आई.) यावत् विषयेषु सञ्जातं मन्थनम्

डॉ मनोज शैल
Last updated: 2026/11/01 at 12:01 AM
डॉ मनोज शैल
Share
8 Min Read
SHARE

पतञ्जलि-विश्वविद्यालये द्विपञ्चाशत्तमम् (५२ तमम्) अखिलभारतीय-प्राच्यविद्या-सम्मेलनं सम्पन्नम्, सनातनपरम्परात: आरभ्य कृत्रिमप्रज्ञां (ए.आई.) यावत् विषयेषु सञ्जातं मन्थनम्

हिमसंस्कृतवार्ता – डॉ रेणुका बोकारे, हरिद्वारम्।

पतञ्जलि-विश्वविद्यालये आयोजितं द्विपञ्चाशत्तमम् (५२ तमम्) अखिलभारतीय-प्राच्यविद्या-सम्मेलनं दिनत्रयं यावत् प्रवृत्तात् व्यापकात् शैक्षणिक-आध्यात्मिक-सांस्कृतिक-विमर्शात् परम् ऐतिहासिक-उपलब्धिभिः सह सम्पन्नं जातम्। पतञ्जलि-विश्वविद्यालयस्य, केन्द्रीय-संस्कृत-विश्वविद्यालयस्य तथा च भारतीय-विद्वत्-परिषदः संयुक्ततत्त्वावधाने आयोजितेऽस्मिन् राष्ट्रियसम्मेलने भारतीयज्ञानपरम्परायाः, संस्कृतभाषायाः, योगस्य, आयुर्वेदस्य, भारतीयदर्शनस्य, सनातनसंस्कृतेः, प्राच्यविद्यानां संरक्षणस्य तथा च आधुनिकशिक्षाव्यवस्थायाम् एतासां समावेशस्योपरि विस्तरेण चर्चा सञ्जाता। सम्मेलने भारतीयज्ञानपरम्परायाः आधुनिकविज्ञानप्रविध्योश्च मध्ये समन्वयस्थापनस्यापि बलं दत्तम्।

समापनसमारोहे प्रदेशसर्वकारस्य मन्त्रिमण्डलस्य (कैबिनेट्) मन्त्री प्रदीपबत्रा-महोदयः, योगगुरुः स्वामी रामदेवः, आचार्यः बालकृष्णः, समग्रदेशात् समागताः सन्त-महात्मानः, धर्माचार्याः, शिक्षाविदः, विद्वांसश्च उपस्थिताः आसन्। त्रिदिवसीयेऽस्मिन् आयोजने देशस्य षड्विंशतेः (२६) राज्येभ्यः केन्द्रशासितप्रदेशेभ्यश्च प्रायशः अष्टादशशतं (१८००) प्रतिभागिनः सहभागितां कृतवन्तः। सम्मेलनस्य अवसरे पञ्चत्रिंशतः (३५) पुस्तकानां विमोचनं विहितम्, अपरपक्षे विविधविषयेषु उत्कृष्टशोधपत्रप्रस्तोतृभ्यः चतुर्विंशतिविद्वद्भ्यः शोधच्छात्रेभ्यश्च सम्मानः प्रदत्तः।

 

भारतीयपञ्चाङ्गाय विक्रमसंवताय च राष्ट्रियजीवने व्यापकं स्थानं प्राप्यताम् : स्वामी रामदेवः

 

योगगुरुणा स्वामि-रामदेवेन भारतीयसंस्कृतेः, सनातनपरम्परायाः, राष्ट्रियाभिज्ञानस्य च सुदृढीकरणे बलं ददता उक्तं यत् भारतीयपञ्चाङ्गं विक्रमसंवतं च राष्ट्रियजीवने अधिकव्यापकरूपेण अङ्गीकरणस्यावश्यकता वर्तते। तेनोक्तं यत् सनातनसंस्कृतिः केवलं धार्मिक्याम् आस्थायां सीमिता नास्ति, अपि तु इयम् अहिंसायाः, सत्यस्य, सद्भावस्य, मानवहितस्य चोपरि आधृतं जीवनदर्शनं वर्तते।

स्वामि-रामदेवेन ब्राह्मण-क्षत्रिय-वैश्य- शूद्र-इत्येतेषाम् अवधारणानां केवलं जातीनां सीमासु सङ्कुचितदृष्ट्या दर्शनापेक्षया गुणस्य, कर्मणः, चरित्रस्य च व्यापके सन्दर्भे अवगमनस्य विषयः प्रतिपादितः। तेनोक्तं यत् शिक्षायाः उद्देश्यं केवलं वृत्तिप्रापणं (रोजगारप्रदानं) नास्ति, अपि तु छात्रेषु स्वस्थविचाराणां, नैतिकमूल्यानां, व्यापकदृष्टिकोणस्य, सांस्कृतिकचेतनायाश्च विकासकरणमपि भवेत्। सः वर्तमानशिक्षापद्धतेः न्यूनातिरेकतासु त्रुटिषु ध्यानम् आकर्षयन् भारतीयज्ञानपरम्परायै सनातनजीवनमूल्येभ्यश्च शिक्षाव्यवस्थायाम् उचितस्थानप्रदानस्यावश्यकताम् अबोधयत्।

 

सनातनपरम्पराम् अधिकृत्य पतञ्जलौ रचितः इतिहासः – आचार्यः बालकृष्णः

 

आचार्येण बालकृष्णेन सम्मेलनम् एतत् भारतीयज्ञानपरम्परायाः सनातनसंस्कृतेश्च संरक्षणस्य दिशि कश्चन महत्त्वपूर्णोपलब्धिरूपेण प्रतिपादितम्। तेनोक्तं यत् सम्मेलनावसरे सम्पन्नैः विचारविमर्शैः सन्त-महात्मनां सहभागितया च बहुषु महत्त्वपूर्णविषयेषु सार्थकः संवादः सञ्जातः।

तेनोक्तं यत् विविधेभ्यः मतेभ्यः पन्थेभ्यश्च सम्बद्धानां सन्तानाम् एकस्मिन् मञ्चे समवेतीकरणं तथा च सनातनशास्त्राणां शुद्धये सर्वसम्मत्या समितेः सङ्घटनं स्वयमेव महती उपलब्धिरस्ति। सम्मेलने निर्मिता ‘सनातनशास्त्र-शुद्धि-समितिः’ तेन ऐतिहासिकी उपक्रान्तिः उक्ता।

आचार्य-बालकृष्णेन उक्तं यत् सम्मेलने विद्वांसः सन्ताश्च प्रातःकालाद् आरभ्य निशीथं यावत् उपविश्य गम्भीरविषयेषु विचारविमर्शं कृतवन्तः। भारतीयज्ञानपरम्परायाः, शास्त्राणां, सनातनसंस्कृतेश्च संरक्षणाय सर्वेषाम् एकीभूय कार्यकरणं भविष्यस्य कृते प्रेरणादायकं वर्तते।

 

स्वामि-रामदेवाय ‘विद्याधिपति-प्रशस्ति-पत्रम्’ आचार्य-बालकृष्णाय ‘महामहोपाध्याय’ इति सम्मानम्

सम्मेलनावसरे भारतीयज्ञानपरम्परायाः, संस्कृतस्य, योगशास्त्रस्य, आयुर्वेदस्य च क्षेत्रेषु उल्लेखनीयं योगदानं कृतवत्यः विभूतयः सम्मानिताः कृताः।

अखिलभारतीय-प्राच्यविद्या-सम्मेलनस्य अध्यक्षैः केन्द्रीय-संस्कृत-विश्वविद्यालयस्य कुलपतिभिः प्रो. श्रीनिवास-वरखेडी-महोदयैः परमपूज्येभ्यः स्वामि-रामदेवेभ्यः ‘विद्याधिपति-प्रशस्ति-पत्रम्’ समर्प्य सम्मानं कृतम्। तथैव संस्कृतस्य, योगशास्त्रस्य, आयुर्वेदस्य, भारतीयज्ञानपरम्परायाश्च संरक्षणे संवर्धने च उल्लेखनीययोगदानाय आचार्य-बालकृष्णः प्रतिष्ठितायाः ‘महामहोपाध्यायः’ इत्युपाध्या विभूषितः।

पतञ्जलि-विश्वविद्यालयस्य प्रतिकुलपतिने साध्वी-डॉ.-देवप्रियायै ‘महाचार्या’ इति सम्मानः प्रदत्तः। व्याकरणक्षेत्रे विशिष्टवैदुष्याय डॉ. शिवानी वि. महोदयायै ‘व्याकरणपण्डिता’ इति सम्मानः समर्पितः। एतदतिरिच्य डॉ. कविता होले महोदयां संयोज्य अन्येभ्योऽपि विद्वद्भ्यः तेषां योगदानाय सम्मानः विहितः।

विविधविषयवर्गेषु उत्कृष्टशोधपत्राणि समुपस्थापयद्भ्यः चतुर्विंशतिभ्य: (२४) विद्वद्भ्यः शोधच्छात्रेभ्यश्च सर्वश्रेष्ठशोधपत्रपुरस्काराः वितरिताः। संस्कृतविदुषः कविराज-मनोहरलाल-आर्यस्य सहितानां विविधानां विदुषां पदाधिकारिणां चापि अभिनन्दनं कृतम्। सम्मेलने प्रोफेसर्-अरुणरञ्जनमिश्र-महोदयाः अखिलभारतीय-प्राच्यविद्या-सम्मेलनस्य नूतनाध्यक्षरूपेण मनोनीताः।

सनातनदर्शने निहितम् अस्ति मानवहितस्य प्रकृतिसंरक्षणस्य च सन्देशः – एन.पी. सिंहः

 

भारतीयशिक्षाबोर्डस्य अध्यक्षेण एन.पी. सिंहेन उक्तं यत् सनातनदर्शनं केवलम् आध्यात्मिकचिन्तनपर्यन्तं सीमितं नास्ति, अपि तु अस्मिन् जीवनस्य, समाजस्य, प्रकृतेः, समग्रमानवकल्याणस्य च व्यापको दृष्टिकोणः अन्तर्भूतः अस्ति।

तेन भारतीयज्ञानपरम्परायाः आधुनिकविज्ञानप्रविध्योश्च मध्ये समन्वयस्थापनं समयानुकूलम् आवश्यकम् उक्तम्। सहैव भारतीयसंविधानस्य उद्देशिकायां (प्रस्तावनायां) सन्निविष्टानां सामाजिक- आर्थिक-राजनैतिकन्यायानाम् आदर्शानां सनातनमूल्यानां च व्यापकसामाजिकसन्दर्भेऽपि विचाराः समुपस्थापिताः।

 

समग्रे भारते गुरुकुलशिक्षायाः अङ्गीकरणस्यावश्यकता – स्वामी आनन्दस्वरूपः

समापनसमारोहे समागतेन शाम्भवीपीठाधीश्वरेण स्वामि-आनन्दस्वरूपमहाराजेन संस्कारयुक्तायाः शिक्षाव्यवस्थायाः विकासे बलं दत्तम्। तेनोक्तं यत् राष्ट्रव्यापिस्तरे गुरुकुलशिक्षणपद्धतेः अङ्गीकरणस्यावश्यकता वर्तते।

तेन परामर्शः दत्तः यत् अष्टभ्यः एकादशवर्षपर्यन्तवयस्केभ्यः (८–११) बालेभ्यः गुरुकुलाधारितशिक्षायाः उपलम्भीकरणव्यवस्थायाः प्रवर्तने विचारः करणीयः। स्वामि-आनन्दस्वरूपेण पतञ्जलि-विश्वविद्यालयस्य भारतीयशिक्षाबोर्डस्य च प्रयासानां भूरिशः प्रशंसां कुर्वता स्वकीययोः द्वयोः विद्यालययोः भारतीयशिक्षाबोर्डेन सह सम्बद्धीकरणस्य घोषणाऽपि कृता।

 

पतञ्जलौ बालेभ्यः दीयमानाः संस्काराः स्वप्नस्य साकारतादृशाः – प्रदीपबत्रा 

 

प्रदेशसर्वकारस्य मन्त्रिमण्डलस्य (कैबिनेट्) मन्त्रिणा प्रदीपबत्रा-महोदयेनोक्तं यत् सः गतेभ्यः बहुभ्यः वर्षेभ्यः पतञ्जलिना सह संयुक्तः वर्तते। अत्रत्यां कार्यशैलीं, विचारधारां, विकासकार्याणि च दृष्ट्वा सः प्रसन्नाम् आत्मगौरवं चानुभवति।

तेनोक्तं यत् पतञ्जलौ बालेभ्यः यादृशी शिक्षा यादृशाश्च संस्काराः प्रदीयन्ते, तत् कस्यचित् स्वप्नस्य साकारतासदृशम् अस्ति। देशस्यान्याभिः संस्थाभिरपि अस्याः व्यवस्थायाः प्रेरणा ग्रहीतव्या।

तेनोक्तं यत् सनातनधर्मस्य, वैदिकपरम्पराणां, भारतस्य गौरवशालिनः इतिहासस्य, संस्कृतेश्च अधिकसशक्तीकरणाय सामूहिकाः प्रयासाः करणीयाः।

 

षड्विंशति: राज्येभ्यः अष्टादशशतं (१८००) प्रतिभागिनः सम्मिलिताः

 

सम्मेलने देशस्य षड्विंशति: (२६) राज्येभ्यः केन्द्रशासितप्रदेशेभ्यश्च प्रायशः अष्टादशशतं (१८००) प्रतिभागिनः सहभागितां कृतवन्तः। एतेषु पञ्चशताधिक-द्विपञ्चाशत् (५५२) शिक्षकाः प्राध्यापकाश्च, सप्तषष्ट्यधिक-चतुश्शतं (४६७) शोधच्छात्राः, त्र्यधिक-चतुश्शतं (४०३) छात्राः तथा च अष्टसप्तत्यधिक-त्रिशतं (३७८) अन्ये प्रतिभागिनः समाविष्टाः आसन्।

आयोजने द्वात्रिंशतः (३२) कुलपतीनां, चत्वारिंशदधिकानां (४०+) सन्तानां, नवत्यधिकानां (९०+) विदुषां च सहितानां विविधानां शैक्षिकाणां प्रबन्धसमीतीनां च प्रतिनिधीनाम् उपस्थितिः आसीत्। दिनत्रयं यावत् प्रवृत्ते अस्मिन् सम्मेलने विद्वद्भिः भारतीयशास्त्रैः, संस्कृतसाहित्येन, दर्शनेन, योगेन, आयुर्वेदेन, पारम्परिकज्ञानविज्ञानेन च सम्बद्धेषु विविधविषयेषु स्वकीयविचाराः समुपस्थापिताः।

 

पञ्च नूतनाः शोधानुभागाः (विषयवर्गाः) योजिताः, तिस्रः नूतनाः पुरस्कारश्रेण्यः आरब्धाः

 

सम्मेलनस्य शैक्षणिक-उपलब्धिषु शोधपत्रप्रस्तुत्यर्थं पञ्चानां नूतनानां विषयवर्गाणां संयोजनं महत्त्वपूर्णम् आसीत्। एतेषु ‘कुम्भरहस्यम्’, ‘भारतीयज्ञानप्रणाली’, ‘भारतीयानुसन्धानपद्धतिः’, ‘बालसाहित्यम्’ तथा च ‘प्राच्यविद्यायाः पुनरावलोकनम्’ इति विषयाः समाविष्टाः सन्ति।

एतेषां विषयाणां समावेशनेन भारतीयज्ञानपरम्परायाः विविधायामेषु अनुसन्धानस्य शैक्षिकादानप्रदानस्य च विस्तारः संवृद्धः। एतदतिरिच्य पतञ्जलि-विश्वविद्यालयस्य पक्षतः प्रतिवर्षं तिस्रः नूतनाः पुरस्कारश्रेण्यः प्रायोजितुम् उपक्रमः कृतः, यासाम् आरम्भः अस्मादेव सम्मेलनाद् अभवत्।

 

पञ्चत्रिंशतः पुस्तकानां विमोचनम्, द्विनवतिः पुस्तक-प्रदर्शनी-प्रकोष्ठाः आकर्षकाः अभवन्

सम्मेलनावसरे भारतीयज्ञानपरम्परा- योग-आयुर्वेद- संस्कृतसाहित्य- भारतीयदर्शन- तथा च प्राच्यविद्यासम्बद्धानां पञ्चत्रिंशतः (३५) ग्रन्थानां विमोचनं विहितम्।

विविधविषयवर्गाणाम् अन्तर्गतं शोधपत्राणि प्रस्तूयन्त। एतेन सहैव द्विनवतिः (९२) पुस्तक-प्रदर्शनी-प्रकोष्ठाः (स्टॉल्स्) स्थापिताः आसन्, येषु विभिन्नप्रकाशकैः, संस्थाभिः, प्रायोजकैरपि सहभागिता कृता। एतेषां प्रकोष्ठानां माध्यमेन छात्रैः, शोधच्छात्रैः, विद्वद्भिश्च भारतीयशास्त्राणां, संस्कृतसाहित्यस्य, नूतनशोधप्रकाशानां च परिचयं प्राप्तुम् अवसरः लब्धः।

 

कुलपतिसम्मेलने उच्चशिक्षायाः भारतीयज्ञानप्रणाल्याश्चोपरि मन्थनम्

 

सम्मेलनस्य अन्तिमे दिने कुलपतिसम्मेलनस्य आयोजनं विहितम्। पूज्यस्वामि-आर्षदेवस्य तथा च डॉ.-गौतम-आर्.के.-महोदयस्य संयोजने सम्पन्नायां गोष्ठ्यां विविधानां विश्वविद्यालयानां कुलपतयः वरिष्ठाः शिक्षाविदश्च भारतीयज्ञानप्रणालीम् उच्चशिक्षायाः मुख्यधारया सह योजयितुं विचारविमर्शं कृतवन्तः।

गोष्ठ्यां संस्कृतस्य प्राच्यविद्यानां चाध्ययन-अध्यापनस्य प्रोत्साहनाय, विश्वविद्यालयानां मध्ये शैक्षिकादानप्रदानस्य संवर्धनाय, भारतीयानुसन्धानपद्धतेः विकासाय तथा च पारम्परिकज्ञानविज्ञानम् अधिकं शोधाभिमुखं विधातुमित्यादिषु विषयेषु गम्भीरा चर्चा सञ्जाता।

 

साध्वी-देवप्रियया प्रस्तुता त्रिदिवसीयसम्मेलनस्य आख्या

 

पतञ्जलि-विश्वविद्यालयस्य प्रतिकुलपतिना साध्वी-डॉ.-देवप्रियया सम्मेलनस्य विस्तृतामाख्यां प्रस्तूय त्रिषु दिनेषु आयोजितानां शैक्षणिक- शोधपरक-आध्यात्मिक-सांस्कृतिक-गतिविधीनां विवरणं दत्तम्।

तया समग्रदेशात् समागतानां विदुषां सहभागिता, शोधपत्रप्रस्तुतीकरणं, सन्तसम्मेलने सम्पन्नः विचारविमर्शः, आयोजनाच्च प्राप्ताः उपलब्धयः इत्येतेषां विषये प्रकाशः पातितः। तया प्रतिपादितं यत् एतत् आयोजनं केवलम् एकं शैक्षणिकसम्मेलनं नासीत्, अपि तु सन्तान्, विदुषः, शिक्षाविदः, शोधच्छात्रांश्च एकस्मिन् मञ्चे समानीय भारतीयज्ञानपरम्परायाः संरक्षणस्य संवर्धनस्य च दिशि कश्चन महत्त्वपूर्णः उपक्रमः आसीत्।

तया आयोजनस्य साफल्ये आचार्य-बालकृष्णस्य मार्गदर्शनार्थं, प्रेरणायै, सहयोगाय च कृतज्ञता ज्ञापिता।

 

शताधिकाभिः सांस्कृतिकप्रस्तुतिभिः विमोहितं मनः

 

त्रिदिवसीयसम्मेलनस्य अवसरे पतञ्जलि-विश्वविद्यालयस्य सांस्कृतिकदलस्य छात्रैश्च भारतीयसंस्कृतिं, परम्पराम्, आध्यात्मिकमूल्यानि चाधृत्य विहिताभिः शताधिकाभिः (१००+) सांस्कृतिकप्रस्तुतिभिः गतिविधिभिश्च स्वकीयप्रतिभा प्रदर्शिता।

एताभिः प्रस्तुतिभिः अतिथीनां, सन्तानां, विदुषां च मनांसि मोहितानि। कार्यक्रमस्य अन्ते स्वामी-रामदेवेन सम्मेलनस्य मुख्यायोजकस्य ललित-पोफलिया-महोदयस्य सुपुत्राय हर्षद-पोफलिया-महोदयाय, सह-आयोजकाभ्यां श्रीकान्त-बड़वे-राहुल-राठी-महोदयाभ्यां च तेषां योगदानाय कृतज्ञता प्रदर्शिता।

साध्वी-डॉ.-देवप्रियया विश्वविद्यालयस्य अध्यापकानां, विभागाध्यक्षाणां, सङ्कायसदस्यानां, कार्यक्रमसंयोजकानां, कर्मचारिणां, प्रबन्धसमीतीनां, छात्राणां च योगदानस्य भूरिशः प्रशंसा कृता। तया प्रोक्तं यत् अतिथिसत्कारे, पञ्जीकरणे, शैक्षणिकसत्रेषु, शोधपत्रप्रस्तुतीकरणे, आवासव्यवस्थायां, भोजनप्रबन्धे, मञ्चसञ्चालने, प्राविधिकव्यवस्थासु, सांस्कृतिककार्यक्रमेषु च सर्वैः पूर्णया निष्ठया कार्यं कृतम्।

सम्मेलनस्य एषा सफलता भारतीयज्ञानपरम्परायाः, संस्कृतस्य, योगस्य, आयुर्वेदस्य, सनातनसंस्कृतेश्च संरक्षणस्य संवर्धनस्य च दिशि कश्चन महत्त्वपूर्णं पदं मन्यते। आयोजकानाम् अनुसारेण, समग्रदेशात् समागतानां सन्तानां, विदुषां, शिक्षाविदां, शोधच्छात्राणां च मध्ये सम्पन्नः अयं व्यापकः विमर्शः आगामिकाले भारतीयज्ञानप्रणालीं शिक्षायाः अनुसन्धानस्य च मुख्यधारया सह योजयितुं कृतेभ्यः प्रयासेभ्यः नूतनां दिशं प्रदास्यति।

You Might Also Like

पतञ्जलौ बालेभ्यः प्राप्यमाणाः संस्काराः कस्यचित् स्वप्नस्य साकाररूपम् इव – प्रदीप-बत्रा

अखिलभारतीय-प्राच्यविद्या-सम्मेलने वैज्ञानिकग्रन्थस्य “वैदिक-आख्यान-विज्ञानम्” इत्यस्य वैज्ञानिकग्रन्थस्य गरिमामयं लोकार्पणम्

स्वामि-रामदेवस्य महत् अभियानम्, धर्मग्रन्थानां शुद्धीकरणाय निर्मिता समितिः, काऽस्ति सम्पूर्ण-योजना ?

52th AIOC – अखिलभारतीय-प्राच्यविद्या-सम्मेलनम् – सनातनशास्त्रशुद्धिः हरिद्वारे सनातनशास्त्र-शुद्धीकरणस्य महाभियानम्, सन्तैः कृतं मन्थनम्

52th AIOC – प्राचीनज्ञानसम्पदः संरक्षणस्य, संवर्धनस्य, समकालीनजीवने च तस्याः प्रासङ्गिकतायाः अवबोधनस्य महत्त्वपूर्णावसरम् एतद् सम्मेलनम्- राज्यपालः डॉ. बिसेन:

TAGGED: \हिमाचल के आज के समाचार, 52th AIOC, Central Sanskrit University, cmo himachal, cmo himachal Pradesh. HP News, Daily Sanskrit News, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal government, Himachal news, Himachal Sanskrit Academy, himachal update, Himsanskrit news, himsanskrit varta, Himsanskritam, Himsanskritnews, Himsanskritvarta, narendra modi, pmo, Sanskrit news, sanskrit news channel, sanskrit News pdf, Today Sanskrit Nerws, varta, vartah, अखिलभारतीयप्राच्यविद्यासम्मेलनम्, आज के संस्कृत समाचार, दिव्य हिमाचल समाचार, देश विदेश की ताजा खबरें, दैनिक समाचार, संस्कृत समाचार, संस्कृतवार्ताः, संस्कृतवि, हरिद्वारम्, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल का सबसे पहला संस्कृत समाचार पत्र, हिमाचल की खबरें, हिमाचल समाचार, हिमाचल सरकार, हिमाचल सरकार के निर्णय
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article अखिलभारतीय-प्राच्यविद्या-सम्मेलने वैज्ञानिकग्रन्थस्य “वैदिक-आख्यान-विज्ञानम्” इत्यस्य वैज्ञानिकग्रन्थस्य गरिमामयं लोकार्पणम्
Next Article पतञ्जलौ बालेभ्यः प्राप्यमाणाः संस्काराः कस्यचित् स्वप्नस्य साकाररूपम् इव – प्रदीप-बत्रा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?