By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: श्रीमद्भागवतप्रवचनम् -०७।। नारदभक्त्योः संवादः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > नारदोपाध्यायः > श्रीमद्भागवतप्रवचनम् -०७।। नारदभक्त्योः संवादः
नारदोपाध्यायःश्रीमद्भागवतप्रवचनम्

श्रीमद्भागवतप्रवचनम् -०७।। नारदभक्त्योः संवादः

डॉ.अमनदीप शर्मा
Last updated: 2025/07/18 at 6:48 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
3 Min Read
SHARE

श्रीमद्भागवतप्रवचनम् -०७
(द्वितीयोऽध्यायः)
नारदः अब्रवीत् – बाले ! त्वं वृथा हि स्वयम् एवं किमर्थं खिद्यसे ? अहो, त्वं एतावती चिन्तातुरा किमर्थम् ? भगवतः श्रीकृष्णस्य चरणकमलं चिन्तय, तस्य कृपया तव समस्तं दुःखम् अपगमिष्यति । यस्मात् कौरवाणाम् अत्याचारेभ्यः द्रौपदी रक्षिता, एवं गोपसुन्दर्यः सनाथाः जाताः, सः श्रीकृष्णः न क्वापि गतः । पुनश्च त्वं भक्तिः असि, सदैव तस्य प्राणेभ्यः अपि प्रियतमा असि, त्वया आहूतः चेत् सः नीचगृहेष्वपि याति । सत्य-त्रेता-द्वापरेषु त्रियुगेषु ज्ञान-वैराग्यौ मुक्तिसाधकौ आस्तां, किन्तु कलियुगे एकाकिनी भक्तिः हि ब्रह्मसायुज्यदात्री, अर्थात् मोक्षदात्री वर्तते । एतद्विचार्य हि परमानन्दचिन्मूर्तिः ज्ञानस्वरूपः श्रीहरिः स्वकीयेन सत्स्वरूपेण त्वां व्यरचयत् , अतः त्वं साक्षात् श्रीकृष्णचन्द्रस्य प्रिया एवं परमा सुन्दरी असि । एकदा त्वं बद्धहस्ता सती पृष्टवती आसीत् ‘किं करोम्यहम् ?’ इति, तदा भगवान् त्वाम् आदिष्टवान् यत् ‘मद्भक्तान् पोषय’ इति । त्वं भगवतः एनाम् आज्ञां स्वीकृतवती ; अस्मात् तवोपरि श्रीहरिः अत्यन्तं प्रसन्नः जातः, तथा तव सेवार्थं तां मुक्तिं तुभ्यं दासीत्वेन प्रदत्तवान्, एवं ज्ञान-वैराग्यौ च त्वत्पुत्रत्वेन तुभ्यं प्रदत्तवान् आसीत् । त्वं स्वकीयेन साक्षात् स्वरूपेण वैकुण्ठधाम्नि हि भक्तानां पोषणं करोषि, परं भूलोके तु केवलं त्वं तेषां पुष्ट्यर्थं हि छायारूपेण तिष्ठसि ।
तदा त्वं मुक्ति-ज्ञान-वैराग्यैः सह पृथ्वीतले आगतवती, एवं सत्ययुगतः द्वापरपर्यन्तम् अत्यन्तं प्रसन्नतया अतिष्ठः । कलियुगे मुक्तिः पाखण्डरूपेण रोगेण पीडिता भूत्वा क्षीणतां गता, तस्मात् सा तवाज्ञया सत्वरं वैकुण्ठलोकं प्रति प्रस्थितवती । अस्मिन् लोके अपि तव स्मरणात् सा पुनः प्रत्यागन्तुमर्हेत्, पुनश्च प्रत्यागच्छेत् । परन्तु एतौ ज्ञानवैराग्यौ स्वपुत्रौ मत्वा त्वं सहैव स्थापितवती । पुनरपि कलियुगे एतयोः उपेक्षाकारणतः त्वदीयौ एतौ पुत्रौ उत्साहहीनौ, वृद्धौ च अभवताम् । त्वं चिन्तां मा कुरु, अहम् अनयोः नवजीवनस्य उपायं चिन्तयिष्यामि । सुमुखि ! कलियुगसमानं न अन्यत् किमपि युगं स्यात्, अस्मिन् युगे त्वाम् अहं प्रत्येकं गृहेषु, प्रत्येकं जनानां हृदयेषु च स्थापयिष्यामि । पश्य, इतरधर्मान् तिरस्कृत्य तथा भक्तिसम्बद्धान् महोत्सवान् पुरस्कृत्य च, यदि अहं लोके तव प्रचारं न कुर्यां, तर्हि नाहं कदापि श्रीहरेः दासः स्याम् ।
अस्मिन् कलियुगे यः जीवः त्वयि युक्तः स्यात्, सः पापी एव भवेन्नाम, सः अपि सहजतया भगवतः श्रीकृष्णस्य अभयं धाम प्राप्नुयात् । यस्य हृदये निरन्तरं प्रेमरूपिणी भक्तिः निवसति, सः शुद्धान्तःकरणः पुरुषः स्वप्नेऽपि यमराजं न पश्यति । यस्य हृदये भक्तिमहाराज्ञी विराजमाना भवेत्, तं प्रेत-पिशाच-राक्षसादयः स्प्रष्टुम् अपि न प्रभवेयुः इति, शुभम् । (माहात्म्यम् -०२/०१-१७)
— नारदः ।

You Might Also Like

श्रीमद्भागवतप्रवचनम्- १६।।भक्तानाम् अवलम्बनार्थं मम किं कर्तव्यम्

श्रीमद्भागवतप्रवचनम्- १५ ।। सत्यभाषणपूर्वकं तथा ब्रह्मचर्यपालनपूर्वकं सदैव भागवतकथायाः श्रवणम् अत्यन्तम् उत्तमम्

श्रीमद्भागवतप्रवचनम् -१३।। भागवत्कथायाः श्रवणार्थम् आगताः गङ्गादिनद्यः, पुष्करादयः सरोवराः, कुरुक्षेत्रादीनि समस्तक्षेत्राणि, सर्वाः दिशः, दण्डकादीनि वनानि, हिमालयादयः पर्वताः

श्रीमद्भागवतप्रवचनम् -१२।। श्रीशुकदेवेन कथितं भागवतकथामृतम् अनुसृत्य यत्नपूर्वकं समुज्ज्वलं च ज्ञानयज्ञं करिष्यामि

श्रीमद्भागवतप्रवचनम् -११।। सनकादयः उक्तवन्तः – नारदमुने ! द्रव्ययज्ञः, तपोयज्ञः, योगयज्ञः, स्वाध्यायरूपः ज्ञानयज्ञः च इत्येते तु स्वर्गसुखपराः

TAGGED: श्रीमद्भागवतप्रवचनम्
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article श्रीमद्भागवतप्रवचनम् -०६।।भक्तिदेव्यै तस्याः प्रश्नानाम् उत्तरं नारदः ददत् व
Next Article श्रीमद्भागवतप्रवचनम् -०८।। देवर्षिनारद-भक्त्योः संवादः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?