श्रीमद्भागवतप्रवचनम् -०५
तस्मात् हे साधो ! अहं आश्चर्यचकितेन चित्तेन स्वकीये अस्मिन् विषये शोकं कुर्वती तिष्ठामि । त्वं परमः बुद्धिमान् एवं योगनिधिः वर्तसे ; अतः एतस्य किं कारणं भवितुमर्हेत्, कृपया ज्ञापय इति ।
ततः नारदः उक्तवान् – अनघे ! अहं स्वहृदये ज्ञानदृष्ट्या तव दुःखस्य कारणं पश्यामि, अतः त्वया विषादः नहि कर्तव्यः । श्रीहरिः तव कल्याणं करिष्यति ।
सूतदेवः अब्रवीत् – मुनिवर ! देवर्षिः नारदः एकस्मिन् क्षणे हि तत्सर्वस्य कारणं ज्ञात्वा अकथयत् ।
नारदः – देवि ! सावधानतया शृणु । इदं दारुणं कलियुगं वर्तते । तस्मात् सम्प्रति सदाचारः, योगमार्गः, तपः इत्यादयः सर्वे विलुप्ताः जाताः । जनाः शठतायाम् एवं दुष्कर्मसु संलग्नाः भूत्वा अघासुराः सञ्जाताः सन्ति । संसारे यत्रापि दृश्यते, तत्रैव सत्पुरुषः दुःखात् म्लानमुखः तिष्ठति, दुष्टः च सुखी । अस्मिन् काले यस्य बुद्धिमतः पुरुषस्य धैर्यम् अचलं स्यात्, स हि महान् ज्ञानी, पण्डितः वा कथ्यते । पृथ्वी क्रमशः प्रतिवर्षं शेषनागस्य कृते भाररूपा सञ्जाता अस्ति । किमधिकम्, इदानीम् इयं स्पर्शयोग्या अपि नैव, दर्शनयोग्या तु दूरे तिष्ठतु । न वा अस्यां मङ्गलकार्यं हि दृश्यते । इतः परं कस्यचन दृष्टौ अपि पुत्राभ्यां सह भवत्याः दर्शनं न भविष्यति । विषयानुरागकारणतः अन्धेभ्यः जीवेभ्यः उपेक्षिता सती त्वं जर्जरत्वं गता आसीः । वृन्दावनस्य पवित्रसंयोगेन त्वं पुनः नवतरुणी सञ्जाता असि । अतः एतद् वृन्दावनधाम धन्यमस्ति, यत्र भक्तिः सततं नृत्यति । परन्तु तव एतयोः पुत्रयोः नात्र कोऽपि ग्राहकः स्यात्, तस्मात् अनयोः वार्धक्यं न अपगतम् । अत्र किञ्चित् आत्मसुखप्राप्तेः कारणतः एतौ शयानौ इव परिलक्ष्येते ।
भक्तिः अपृच्छत् – मुनिवर ! राज्ञा परीक्षिता एतत् पापि कलियुगं किमर्थं रक्षितम् ? एतस्य आगमनात् हि सर्ववस्तूनां सारः क्व गतः ? करुणामयः हरिरपि एतम् अधर्मं कथं द्रष्टुमर्हति ? मुने ! मम सन्देहोऽयं दूरीक्रियतां, तव वचनैः अहं महतीं शान्तिम् अनुभवन्ती अस्मि इति ।
तदा नारदः अब्रवीत् – बाले ! यदि त्वं तद्विषयं पृष्टवती, तर्हि प्रेम्णा शृणु ; कल्याणि ! तत् ते सर्वं वक्ष्यामि, येन च तव सर्वदुखम् अपगमिष्यति । यस्मिन् दिने भगवान् श्रीकृष्णः एतं भूलोकं परित्यज्य स्वकीयं परमधाम प्रति प्रस्थितवान्, तस्मात् दिनात् आरभ्य अत्र सर्वसाधनानां बाधकं कलियुगं समागतम् । दिग्विजयकाले राज्ञः परीक्षितः दृष्टिपातत्वात् कलियुगं दीनवत् तं शरणम् आगतम् । भ्रमरवत् सारग्राही राजा एतत् निश्चितं कृतवान् यत् एतस्य हननं नाहं कुर्यामिति, शुभम् । (माहात्म्यम् -०१/५४-६७)
— नारदः ।
श्रीमद्भागवतप्रवचनम् -इदं दारुणं कलियुगं वर्तते । तस्मात् सम्प्रति सदाचारः, योगमार्गः, तपः इत्यादयः सर्वे विलुप्ताः जाताः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
