By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: श्रीमद्भागवतप्रवचनम् – ०२
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > श्रीमद्भागवतप्रवचनम् > श्रीमद्भागवतप्रवचनम् – ०२
श्रीमद्भागवतप्रवचनम्नारदोपाध्यायः

श्रीमद्भागवतप्रवचनम् – ०२

डॉ.अमनदीप शर्मा
Last updated: 2025/07/17 at 7:14 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

श्रीमद्भागवतप्रवचनम् – ०२

ततः सूतदेवः उक्तवान् – प्रियशौनक ! तव हृदये भगवत्प्रेम वर्तते ; अत एव अहं सम्यग्विचार्य तुभ्यं सम्पूर्णसिद्धान्तानां निष्कर्षं श्रावयामि, यत् जन्ममृत्युभयं नाशयति । यत् भक्तिप्रवाहं वर्धयति, एवं यच्च भगवतः श्रीकृष्णस्य प्रसन्नतायाः प्रधानं कारणं स्यात्, तत् साधनम् अहं वच्मि, तच्च सावधानतया शृणु । श्रीशुकदेवः कलियुगीयानां जीवानां कालरूपसर्पस्य मुखग्रासत्रासस्य आत्यन्तिकनाशार्थं श्रीमद्भागवतशास्त्रस्य प्रवचनं कृतवान् । मनसः शुद्धर्थम् इतोऽपि उत्तमं नान्यत् किमपि साधनं स्यात् लोके । यदा मनुष्यस्य जन्मजन्मान्तराणां पुण्यम् उदेति, तदा तस्य कृते अस्य भागवतशास्त्रस्य प्राप्तिर्जायते । यदा शुकदेवः परीक्षिन्महाराजम् एतस्याः कथायाः श्रावणार्थं सभायां विराजमानः आसीत्, तदा देवाः हस्तेषु अमृतकलशं गृहीत्वा तत्र सम्प्राप्तवन्तः । देवाः स्वकार्यं साधयितुं महान्तः कुशलिनः भवन्ति ; अतः अत्रापि ते सर्वे शुकदेवमुनिं नमस्कृत्य उक्तवन्तः – ‘भवता एतत् अमृतं स्वीकृत्य, अस्य विनिमयत्वेन अस्मभ्यं कथामृतं प्रदीयताम्’ इति । एवं प्रकारेण परस्परं विनिमयं विधाय राजा परीक्षित् अमृतपानं करोतु, तथा वयं सर्वे श्रीमद्भागवतरूपस्य अमृतस्य पानं करवामहै । अस्मिन् संसारे क्व काचः, क्व महामूल्यवान् मणिः, तद्वत् क्व सुधा, क्व च कथा ? एतद् विचार्य श्रीशुकदेवः तत्समये देवानाम् उपहासं कृतवान् । ते भक्तिशून्याः, अर्थात् कथायाः अनधिकारिणः इति विज्ञाय तेभ्यः कथामृतस्य दानं न कृतवान् । इत्थं प्रकारेण इयं श्रीमद्भागवतकथा देवानां कृते अपि दुर्लभा । पुराकाले श्रीमद्भागवतस्य श्रवणात् हि राज्ञः परीक्षितः मुक्तिं विलोक्य ब्रह्मापि आश्चर्यचकितः जातः। सः सत्ययुगे तुलां बद्ध्वा सर्वाणि साधनानि अतोलयत् । इतराणि साधनानि तुलायां लघूनि जातानि, परं स्वमहत्तायाः कारणतः भागवतं हि गुरुतमं जातम् ।एतद् दृष्ट्वा सर्वे ऋषयः विस्मयापन्नाः अभवन् । ते निश्चितवन्तः यत् कलियुगे एतस्य भगवद्रूपस्य भागवतशास्त्रस्य पठनेन, श्रवणेन च तत्कालं हि मोक्षसिद्धिः जायते इति । यदि सप्ताहविधिना श्रवणं क्रियते तर्हि इयं भक्तिप्रदा भवति । पुराकाले एनां कथां दयापरायणाः सनकादि-ऋषयः देवर्षये नारदाय श्रावितवन्तः। यद्यपि देवर्षिः आदौ ब्रह्मणः मुखात् कथां श्रुतवान् आसीत्, तथापि सप्ताहश्रवणविधिं तु सः सनकादिभ्यः हि ज्ञातवान् आसीत्
इति, शुभम् ।
(माहात्म्यम् -०१/०९-२२)
— नारदः ।

You Might Also Like

श्रीमद्भागवतप्रवचनम्- १६।।भक्तानाम् अवलम्बनार्थं मम किं कर्तव्यम्

श्रीमद्भागवतप्रवचनम्- १५ ।। सत्यभाषणपूर्वकं तथा ब्रह्मचर्यपालनपूर्वकं सदैव भागवतकथायाः श्रवणम् अत्यन्तम् उत्तमम्

श्रीमद्भागवतप्रवचनम् -१३।। भागवत्कथायाः श्रवणार्थम् आगताः गङ्गादिनद्यः, पुष्करादयः सरोवराः, कुरुक्षेत्रादीनि समस्तक्षेत्राणि, सर्वाः दिशः, दण्डकादीनि वनानि, हिमालयादयः पर्वताः

श्रीमद्भागवतप्रवचनम् -१२।। श्रीशुकदेवेन कथितं भागवतकथामृतम् अनुसृत्य यत्नपूर्वकं समुज्ज्वलं च ज्ञानयज्ञं करिष्यामि

श्रीमद्भागवतप्रवचनम् -११।। सनकादयः उक्तवन्तः – नारदमुने ! द्रव्ययज्ञः, तपोयज्ञः, योगयज्ञः, स्वाध्यायरूपः ज्ञानयज्ञः च इत्येते तु स्वर्गसुखपराः

TAGGED: श्रीमद्भागवतप्रवचनम् - ०२
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article श्रीमद्भागवतप्रवचनम् -०१
Next Article श्रीमद्भागवतप्रवचनम् -०३ संसारिक-विषयेभ्यः मुक्तस्य तथा विचरणशीलस्य नारदस्य सनकादिमुनिभिः सह कुत्र संयोगः जातः,
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?