By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: श्रीमद्भागवतप्रवचनम् -०१
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > श्रीमद्भागवतप्रवचनम् > श्रीमद्भागवतप्रवचनम् -०१
श्रीमद्भागवतप्रवचनम्नारदोपाध्यायः

श्रीमद्भागवतप्रवचनम् -०१

डॉ.अमनदीप शर्मा
Last updated: 2025/07/17 at 7:13 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

श्रीमद्भागवतप्रवचनम् -०१

।। श्रीगणेशाय नमः ।।
।। श्रीव्यासाय नमः ।।
।। ओं नमो भगवते वासुदेवाय ।।
कृष्णं नारायणं वन्दे कृष्णं वन्दे व्रजप्रियम् ।
कृष्णं द्वैपायनं वन्दे कृष्णं वन्दे पृथासुतम् ।।

यः जगतः उत्पत्ति-स्थिति-विनाशानां कारणमस्ति, तथा आध्यात्मिकम्, आधिदैविकम्, आधिभौतिकं चेति तापत्रयस्य विनाशं करोति, तं सच्चिदानन्दस्वरूपं भगवन्तं श्रीकृष्णं वयं नमस्कुर्मः।
यस्मिन् समये श्रीशुकदेवस्य यज्ञोपवीत-संस्कारोऽपि न सञ्जातः आसीत्, तथा लौकिकं, वैदिकं चेति कर्मानुष्ठानस्य अवसरमपि सः‌ न प्राप्तवान् आसीत्, तत्समये एकाकी एव संन्यासं स्वीकर्तुं सः गृहतः निर्गतः । तदवलोक्य तस्य पिता व्यासदेवः विरहेण कातरः भूत्वा गृहतः निर्गन्तं पुत्रमुद्दिश्य उक्तवान् – ‘वत्स वत्स ! त्वं क्व गच्छसि ?’ इति । तदा वृक्षाः हि श्रीशुकदेवस्य पक्षतः तन्मयाः भूत्वा तद्वार्तां तस्य पितरमुद्दिश्य ज्ञापितवन्तः । एतादृशं सर्वभूतहृदयस्वरूपं श्रीशुकदेवमुनिम् अहं नमस्करोमि ।
एकदा भगवत्कथायाः रसास्वादनाय कुशलमुनिवरः शौनकः नैमिषारण्यक्षेत्रे विराजमानं महामतिं सूतदेवं नमस्कृत्य तं पृष्टवान् – ‘सूतवर्य ! भवतः ज्ञानम् अज्ञानान्धकारस्य विनाशार्थं कोटिशः सूर्याणां समानमस्ति । भवान् कृपया अस्माकं श्रवणेन्द्रियार्थं रसायनामृतस्वरूपां सारगर्भितां कथां श्रावयतु । भक्तिः, ज्ञानं, वैराग्यम् इत्यादिभिः प्राप्तव्या महती विवेकवृद्धिः कथं जायते, तथा विष्णुभक्ताः कथं मायामोहादिभ्यः तरितुं शक्नुयुः ? अस्मिन् घोरकलिकाले जीवः प्रायः आसुरिकः स्वभावयुक्तः दृश्यते, विविधैः क्लेशैः आक्रान्तस्य अस्य शुद्धीकरणार्थं सर्वश्रेष्ठोपायः कः ?
सूतदेव ! भवान् अस्माकं कल्याणार्थम् एतादृशं शाश्वतं साधनं कथयतु, यत् पावनानाम् अपि पावनतमं स्यात्, यच्च भगवतः श्रीकृष्णस्य प्राप्तिकरं भवेत् । चिन्तामणिः केवलं लौकिकं सुखं प्रदातुम् अर्हति, कल्पवृक्षः च अधिकाधिकं स्वर्गीयं सुखं दातुं सक्षमः स्यात् । परन्तु गुरुदेवः प्रसन्नः सन् भगवतः योगिदुर्लभं नित्यं वैकुण्ठधाम प्रदातुम् अर्हति इति, शुभम् । (माहात्म्यम् ०१/०१-०८)

— नारदः ।

You Might Also Like

श्रीमद्भागवतप्रवचनम्- १६।।भक्तानाम् अवलम्बनार्थं मम किं कर्तव्यम्

श्रीमद्भागवतप्रवचनम्- १५ ।। सत्यभाषणपूर्वकं तथा ब्रह्मचर्यपालनपूर्वकं सदैव भागवतकथायाः श्रवणम् अत्यन्तम् उत्तमम्

श्रीमद्भागवतप्रवचनम् -१३।। भागवत्कथायाः श्रवणार्थम् आगताः गङ्गादिनद्यः, पुष्करादयः सरोवराः, कुरुक्षेत्रादीनि समस्तक्षेत्राणि, सर्वाः दिशः, दण्डकादीनि वनानि, हिमालयादयः पर्वताः

श्रीमद्भागवतप्रवचनम् -१२।। श्रीशुकदेवेन कथितं भागवतकथामृतम् अनुसृत्य यत्नपूर्वकं समुज्ज्वलं च ज्ञानयज्ञं करिष्यामि

श्रीमद्भागवतप्रवचनम् -११।। सनकादयः उक्तवन्तः – नारदमुने ! द्रव्ययज्ञः, तपोयज्ञः, योगयज्ञः, स्वाध्यायरूपः ज्ञानयज्ञः च इत्येते तु स्वर्गसुखपराः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article दक्षिणस्य दिग्गजः अभिनेता-कोटा श्रीनिवास रावः इत्यस्य निधनम् अभवत्
Next Article श्रीमद्भागवतप्रवचनम् – ०२
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?