शिवागम-साधकाः १८ सितम्बर-दिनाङ्के करिष्यन्ति डल-सरोवरावरण-भेदम्; तदनन्तरं प्रारप्स्यते पवित्रं ‘शाही-स्नानम्’
हिमसंस्कृतवार्ता — चम्बा।
त्रिलोचन-महादेवस्य वंशजाः सञ्चूई-ग्रामस्य शिव-शिष्या: (शिवागम-साधकाः) शुक्रवासरे मध्याह्ने द्वादश-वादने (१२:००) डल-सरोवरे सम्प्राप्य ‘सरोवर-भेदन-विधिम्’ (झील तोड़ने की रस्म) सम्पादयिष्यन्ति। धार्मिक-मान्यतानुसारं राधाष्टमी-पर्वणि सम्पद्यमानेन अनेन अनुष्ठानेन सहैव श्रीमणिमहेश-यात्रायाः महत्त्वपूर्णं धार्मिक-चरणं परिपूर्णं भवति। राधाष्टम्याः पावन-पर्वणि डल-सरोवर-भेदनस्य शताब्दयः पुरातनी परम्परां निर्वोढुं सञ्चूई-ग्रामस्य शिव-शिष्या: गुरुवासरे भरमौरतः मणिमहेशं प्रति प्रस्थिताः। प्रसिद्ध-चौरासी-मन्दिरस्य परिक्रमाम् अनुष्ठाय, श्रीमणिमहेश-मन्दिरे च दर्शन-पूजनानन्तरं शिव-साधकै: तत्र उपस्थिताः शिव-भक्ताः आशीर्भिः समलङ्कृताः।
ततः परं दलं डल-सरोवरं प्रति अग्रेसरम् अभवत्। सञ्चूई-ग्रामस्य शिव-साधकानां निर्गमने सति मार्गे स्थाने-स्थाने स्थानीय-जनैः तीर्थयात्रिकैश्च तेषां भव्यं स्वागतं विहितम्। शिव-भक्तैः जयघोषैः तेषाम् उत्साहवर्धनं कृतम्। धार्मिक-आस्थया सम्बद्धम् इमं महत्त्वपूर्णं सोपानं दृष्ट्वा यात्रिकेषु अतीव उल्लासः दृश्यते।
दशनामी-अखाडा़दलस्य पवित्र-यष्टिभिः (छड़ी) सह प्रस्थानम्
सञ्चूई-ग्रामस्य शिव-शिष्यै: सह दशनामी-अखाडा़दलस्य यष्टि:, कार्त्तिकेय-स्वामिनः यष्टि:, चरपटनाथस्य यष्टि:, तथा भादवाही-क्षेत्रस्य यष्टि: (पवित्र-धर्म-यष्टयः) अपि डल-सरोवरं प्रति प्रस्थिताः सन्ति। सर्वाः एताः धर्म-यष्टयः शिव-साधकाश्च गुरुवासर-रात्रौ ‘धनछोह’-नामके सुरम्य-विश्राम-स्थले विश्रामं करिष्यन्ति। शुक्रवासरे प्रातःकालात् अत्रत्यः अग्रिम-प्रवासः समारप्स्यते, मध्याह्ने च ते डल-सरोवरं प्राप्स्यन्ति। अस्मिन् अवसरे सरोवरे स्नानार्थं सहस्रशः भक्तानां सम्मेलनस्य सम्भावना वर्तते।
