सितम्बर-मासे रोहताङ्ग-प्रभृति-शिखरेषु हिमपातस्य शुभ्राच्छादनम्; त्रि-होराः यावत् स्थगिता मणिमहेश-यात्रा
हिमसंस्कृतवार्ता — शिमला।
हिमाचलप्रदेशे गुरुवासरे सहसैव ऋतु-परिवर्तनं दृष्टम्। रोहताङ्ग-गिरिद्वारे, धौलाधार-पर्वतमालासु, साच-घाटी-मार्गे, पवित्र-मणिमहेशे च समुन्नत-शिखरेषु नूतनः हिमपातः जातः, यत्रैव समतल-मध्य-पर्वतीय-क्षेत्रेषु धारासार-वृष्ट्या जन-जीवनं दुष्प्रभावितम् अभवत्। चम्बा-मण्डलस्य मणिमहेश-तीर्थे हिमपातेन तीर्थयात्रिकाणां सुरक्षायै प्राभातिकी यात्रा त्रि-होराः यावत् स्थगिता अभवत्। भरमौरस्य अलमी-क्षेत्रे तडिताघातेन सप्तविंशतिः (२७) मेष-अजाः पञ्चत्वं गताः, बह्व्यश्च क्षतविक्षताः अभवन्। मण्डी-मण्डलस्य सुन्दरनगरे प्रचण्ड-भूस्खलनेन द्वौ त्रि-तृतलीय-गृहे भग्नावशेषे जाते, द्वे वाहने च मलिनावशेषे निमग्ने। ऊना-मण्डले वृष्ट्या आलुक-शस्यस्य क्षतिः सञ्जाता तथा च कुल्लू-उपरि-शिमला-क्षेत्रेषु सेव-दाड़िम-प्राच्य-फलानां (जापानी फल) शातनं प्रभावितम् अभवत्। गुरुवासर-सायङ्कालं यावत् राज्ये षष्टिः (६०) मार्गाः अवरुद्धाः, एकत्रिंशत् (३१) विद्युत्-परिवर्तकाः च निष्प्रभावाः अभवन्।
पवित्र-मणिमहेश-परिसरे प्रायः दश-सेंटीमीटर-परिमितः हिमपातः
चम्बा-मण्डले प्रातःकाले सुन्दरासी, गौरीकुण्ड तथा च पवित्र-मणिमहेश-क्षेत्रेषु दश-सेंटीमीटर-परिमितः हिमपातः पञ्जीकृतः। प्रातःकाले डल-सरोवराभितः हिम-पतनानन्तरं प्रशासनेन सुरक्षार्थं यात्रा निरुद्धा। तथापि ऋतु-स्वच्छतानन्तरं त्रि-होराभ्यन्तरे एव यात्रा पुनः समारब्धा। तीर्थयात्रिकैः हिमपातस्य आनन्दः अपि अनुभूतः। भरमौरस्य अलमी-क्षेत्रे प्रभाते वज्रपातेन मेषपालकः भिन्दर-नामकः अपि दग्धः जातः, सप्तविंशतिः पशवश्च मृताः।
साच-घाटी-मार्गे त्रिंशत्-सेंटीमीटर-परिमितः हिमपातः
साच-घाटी-मार्गे प्रायः त्रिंशत् (३०) सेंटीमीटर-परिमितः हिमपातः अभवत्, येन बैरागढ-साचपास-किलाड़-मार्गः अवरुद्धः जातः तथा च पाङ्गी-उपत्यकायाः मण्डल-मुख्यालयेन सह सम्पर्कः छिन्नः। द्वाविंशति-परिवर्तकानां विकलतया ११० ग्रामेषु विद्युत्-प्रवाहः अवरुद्धः। कुल्लू-लाहुल-स्पीति-मण्डलयोः रोहताङ्ग, बारालाचा, कुञ्जम, शिङ्कुला इत्यादिषु शिखरेषु विरामानन्तरं हिमपातः जातः, अधस्तन-क्षेत्रेषु च वृष्टिः प्रवृत्ता। अनेन शैत्यं प्रवृद्धं जनैश्च ऊर्ण-वस्त्राणि धृतानि। मण्डलेषु सेव-फल-पेटीकानां वहनम् अपि मन्दगत्या प्रचलति।
भूस्खलनेन गृहाणि भग्नानि, किन्नौर-कैलाशेऽपि हिमपातः
मण्डी-जनपदस्य सुन्दरनगर-उपमण्डले चुरढ-विद्यालयसमीपे मध्याह्नात् परं भूस्खलनेन द्वे त्रि-तलीये भवने भग्ने अभवताम्। पर्वत-स्खलनेन विशालाः शिलाः भवनानि आक्रान्तवन्तः, येन एकस्य गृहस्य चत्वारः पिधानकाः (Shutters) निमग्नाः, द्वे कार-वाहने च विनष्टे। करसोग-शिमला-मार्गे चैलचौक-तत्तापानी-मार्गे च मलिनावशेष-पातेन यातायातम् अवरुद्धं जातम्। किन्नौर-कैलाश-शिखरेऽपि मन्दः हिमपातः संवृत्तः। काङ्गड़ा-शिमला-रामपुर-ऊना-प्रभृतिषु स्थानेषु मेघमालाः धारासारं वर्षन्ति, प्राभातिके काले च सर्वत्र शैत्यस्य प्रभावः दृष्टः।
