52th AIOC – अखिलभारतीय-प्राच्यविद्या-सम्मेलनम् – सनातनशास्त्रशुद्धिः
हरिद्वारे सनातनशास्त्र-शुद्धीकरणस्य महाभियानम्, सन्तैः कृतं मन्थनम्

> सनातनशास्त्र-शुद्धीकरण-अभियानस्य माध्यमेन भारतीयज्ञानपरम्परायाः प्रामाणिकतायाः, संरक्षणस्य, पुनर्प्रतिष्ठापनायाः च महाभियानम्
> स्वामी-रामदेव-आचार्य-बालकृष्णयोः नेतृत्वे आयोजितं सम्मेलनम्
> शङ्कराचार्यमहाराजः, गुरुशरणानन्दमहाराजः, स्वामी-चिदानन्दमहाराजः, राजेन्द्रदासजीमहाराज:, गीतामनीषीज्ञानानन्दमहाराज: इत्यादयः बहवः सन्ताः सम्मिलिताः अभवन्
हिमसंस्कृतवार्ता – डॉ मनोजशैल:।
हरिद्वारस्थे पतञ्जलि-विश्वविद्यालये आयोजितस्य त्रिदिवसीयस्य द्विपञ्चाशत्तमस्य (५२ तमस्य) अखिलभारतीय-प्राच्यविद्या-सम्मेलनस्य शुभारम्भः भारतीयज्ञानस्य, दर्शनस्य, संस्कृतस्य, सनातनशास्त्रीयपरम्परायाश्च संरक्षणस्य संवर्धनस्य च सङ्कल्पेन सह अभवत्। सम्मेलनस्य कश्चन प्रमुखः विमर्शः सनातनशास्त्राणां प्रामाणिकतया, मूलपाठानां रक्षणेन, प्रक्षिप्तांशानां शास्त्रीयपरीक्षणेन, शास्त्राणां प्रामाणिकव्याख्यया च सम्बद्धः वर्तते। अस्मिन् सन्दर्भे सनातनशास्त्र-शुद्धीकरण-अभियानं पुरस्कृत्य विशेषचर्चा प्रचलति। अस्य उद्देश्यं मूलग्रन्थान्, तेषां पारम्परिकव्याख्याः, प्रामाणिकस्रोतांसि च आधृत्य भारतीयज्ञानपरम्परायाः वास्तविकं स्वरूपं समुपस्थापयितुम् अस्ति। योगगुरुणा स्वामी-रामदेवमहाराजेन अस्य अभियानस्य सन्दर्भे शास्त्रेषु प्रक्षिप्तांशानां, मिथ्याव्याख्यानां, मूलग्रन्थानां च प्रामाणिकाध्ययनस्य आवश्यकतायां बलम् आहितम्। अस्यां दिशि वेदानाम्, उपनिषदाम्, रामायणस्य, महाभारतस्य, पुराणानाम्, दर्शनानां, संस्कृतस्य च मूलग्रन्थानां गम्भीराध्ययनस्य प्रामाणिकप्रकाशनस्य च आवश्यकतायां विचारः प्रस्तुतः।
सम्मेलने संस्कृतभाषायाः, वेद-वेदाङ्गानाम्, भारतीयदर्शनस्य, इतिहासस्य, योगस्य, आयुर्वेदस्य, प्राचीनचिकित्सापद्धतीनां, भारतीयज्ञानपरम्परायाश्च विविधानाम् आयामानाम् उपरि विद्वद्विमर्शः प्रचलति। एतेन सहैव युवशोधच्छात्रेभ्यः विदुषीमहिलाभ्यश्च अपि स्वशोधशास्त्रीयचिन्तनयोः प्रस्तौतुं सुअवसराः दीयन्ते।
सम्मेलनस्य वैशिष्ट्यम् एतदस्ति यत् अत्र प्राचीनज्ञानपरम्परा केवलम् अतीतस्य दायत्वेन (न्यासत्वेन) न, अपि तु वर्तमानस्य भविष्यस्य च निर्माणस्य आधारशिलात्वेन द्रष्टुं प्रयासः विधीयते।
सम्मेलने सत्पुरुषाणां वचनानि
जगद्गुरु-शङ्कराचार्यमहाराजेन उक्तं यत् भारते शिक्षा, शासनं, व्यवहारश्च सनातनधर्मावलम्बी भवेत्।
कार्ष्णि-पीठाधीश्वरेण गुरुशरणानन्दमहाराजेन उक्तं यत् अस्माकं बहिर्जनेभ्यः तावद् भयं नास्ति, यावद् आत्मीयेभ्यः अस्ति। वेदवाणी अमरा अस्ति, अस्याः मूले यदस्ति, यत् सत्यमस्ति, यत् विराटम् अस्ति, या च समग्रता वर्तते, तया सह सर्वान् परिचायितव्यम्। अस्माकं संस्कृतौ विचारः आत्मनः निःसरति, कृत्रिमप्रज्ञातः (ए.आई.-AI) न। वेदाः वाङ्मयं च अतीव पवित्राणि सन्ति। एतादृश्याः विद्यायाः प्रसारः भवेत्। अर्थस्य अनर्थः न करणीयः।
तेन उक्तं यत् अस्माकं शास्त्रेषु सत्याद् अपि महती वस्तु वर्तते—ऋतम्, तस्य पालनम् अनिवार्यम् अस्ति।
वेदाः एव अस्माकं राष्ट्रस्य समाधानम्
परमार्थ-पीठाधीश्वरेण स्वामी-चिदानन्दसरस्वतीमहाराजेन उक्तं यत् कुम्भात् पूर्वं सनातनवैदिकसंस्कृतिं तस्याः मूलस्वरूपे आनेतुं स्वामी-रामदेवमहाराजेन आचार्य-बालकृष्णेन च मिलित्वा योग-आयुर्वेदक्षेत्रे अद्भुतं कार्यं कृतम्। एषा युवाभ्यां द्वयोः साधनायाः दिव्यता सङ्कल्पस्य च विस्तारः अस्ति।
सः अवदत् यत् अद्य समाजे महत्तरं सङ्कटं चिन्तनस्य वर्तते। सनातनस्य यात्रा प्रतिरोधस्य यात्रा नास्ति, शोधस्य यात्रा अस्ति; प्रतिशोधस्य नास्ति, परिवर्तनस्य यात्रा अस्ति; विरोधस्य यात्रा नास्ति, सहयोगस्य यात्रा अस्ति। सनातनः सम्पूर्णविश्वस्य कृते, सर्वेषां कृते श्वासं गृह्णाति। वेदाः एव अस्माकं राष्ट्रस्य संविधानम्, वेदाः एव च अस्माकं राष्ट्रस्य समाधानम्। अद्य अस्माभिः सुप्तः समाजः प्रबोधनीयः। आक्षेपोऽपि सनातनो नास्ति, प्रक्षिप्तोऽपि सनातनो नास्ति।
स्वामिना उक्तं यत् सनातनो रोगो नास्ति, योगोऽस्ति, यः सर्वान् योजयति। सनातनः व्याधिः नास्ति, सनातनस्तु उपचारः अस्ति, व्याधीनां समाधानमस्ति। समाधानं डेंग्यू-सदृशं न, अपि तु दिव्यं (डिवाइन) भवति। एषा शास्त्राणां शुद्धेः यात्रा न, अपि तु सम्पूर्णभारतस्य शुद्धेः यात्रा वर्तते। कृत्रिमप्रज्ञायाः (आर्टिफिशियल इन्टेलिजेन्स) सकाशात् अस्माभिः ऋषिमतेः (ऋषि-इन्टेलिजेन्स) प्रति अग्रे गन्तव्यम्। ऋषीणां सनातनबुद्ध्या अस्माकं ध्येयं दत्तम्, बुद्धिः दत्ता, प्रज्ञा दत्ता, ज्ञानं च दत्तम्। इमामेव यात्रां पुरस्कृत्य अग्रे गन्तव्यम्। धैर्येण, एकीभूय च कार्यं करणीयम्।

ए.आई. केवलं कृत्रिमप्रज्ञा न भूयात्, अपि तु यथार्थप्रज्ञा भवेत्
गीतामनीषिणा ज्ञानानन्दमहाराजेन उक्तं यत् वेदेभ्यः शास्त्रेभ्यश्च यदा प्रक्षिप्तांशाः निष्कासिताः भविष्यन्ति, तदा वेदानां विशुद्धं रूपं समुद्भासिष्यते, अतः एतेषां निष्कासनम् अत्यावश्यकमस्ति। ए.आई. केवलं कृत्रिमप्रज्ञा (आर्टिफिशियल इन्टेलिजेन्स) न भूयात्, अपि तु यथार्थप्रज्ञा (एक्चुअल इन्टेलिजेन्स) भवेत्।
माधवप्रियस्वामिमहाराजेन उक्तं यत् कतिचन कार्याणि केवलं प्रवचनेन प्रक्षिप्तांश-निष्कासनेन च न सिद्ध्यन्ति, व्यवहारेण सिद्ध्यन्ति। वयं कृत्रिमप्रज्ञायाः (ए.आई.) विरोधिनः न स्मः। विज्ञानस्य विकासः भविष्यति, ज्ञानस्य विकासः भविष्यति, तस्य संरक्षणं कथं कर्तव्यम् इत्यस्य विचारः करणीयः। अद्यतनयुवभ्यः सन्देशः दत्तः यत् भवद्भिः कृत्रिमप्रज्ञायाः (ए.आई.) दासाः न, अपि तु स्वामिनः भवितव्यम्। अस्माभिः भारतस्य प्राचीनज्ञानपरम्परा तत्र निवेशनीया (फीड-करणीया)। अस्य कृते अस्माकं संस्कृतानुसन्धानकर्तारः विद्वांसः अपेक्षिताः सन्ति।
महामहोपाध्यायेन
स्वामी-गोविन्ददेवगिरिमहाराजेन आभासीयरूपेण (वर्चुअल्-माध्यमेन) सम्बद्ध्य उक्तं यत् धर्मशास्त्राणां चिन्तनार्थं सर्वान् सन्तान् एकस्मिन् मञ्चे समवेतकरणाय स्वामी-रामदेवमहोदयाय आचार्य-बालकृष्णमहोदयाय च बहवः साधुवादाः समर्पिताः। तेन उक्तं यत् धर्मशास्त्रेषु ये प्रक्षिप्तांशाः सन्ति, तेषां निष्कासनार्थं समितेः सङ्घटनं नितराम् आवश्यकम् अस्ति। अस्माकं शास्त्रेषु स्थितानां प्रक्षिप्तांशानाम् अपनयनं पृथक्करणं च अतीवावश्यकमस्ति।
सन्तानां सामूहिकसामर्थ्येन देशस्य कल्याणमार्गः प्रशस्तः भवेत्
महामण्डलेश्वर: स्वामी-अवधेशानन्दगिरिमहाराजेन आभासीयरूपेण सम्बद्ध्य उक्तं यत् बहवः जनाः एतादृशं प्रयासं कुर्वन्तः सन्ति येन भारतस्य संस्कृतेः संस्कारेषु च प्रहारः भवेत्। अतः अस्माभिः सर्वैः एकमतैः भूत्वा अस्माकं शास्त्राणि, संस्काराः, संस्कृतिश्च युवसन्ततौ रोपणीयाः। अस्माभिः सर्वैः एकत्र समागन्तव्यं सर्वे भेदाश्च परिहर्तव्याः। एषः प्रयासः अतीव अनुकरणीयः अस्ति। सन्तानां सामूहिकसामर्थ्येन देशस्य कल्याणमार्गः प्रशस्तः भवेत् इति तेन प्रतिपादितम्।
वेदानुकूला वाणी एव प्रमाणम् अस्ति
मलूकपीठाधीश्वरेण स्वामी-राजेन्द्रदासमहाराजेन उक्तं यत् सर्वे सन्ताः एकस्मिन् मञ्चे एकस्मिन् विचारे च तिष्ठेयुः। वयं सर्वे अनेके सन्त: अपि एकाः स्मः एकाश्च भवेम। वेदानुकूला वाणी एव प्रमाणम् अस्ति, अतः वैदिकसिद्धान्तानां विरोधिनीं वाचं न स्वीकुर्वन्तु। अद्यतनयुवभ्यः पवित्रा दृष्टिः, पवित्रः आहारः, शुद्धाश्च विचाराः आवश्यकाः सन्ति। भारतवर्षस्य धरा गोवधात् मुक्ता भवेत्, एतादृशः सङ्कल्पः करणीयः इति आह्वानं कृतम्।
विश्वजागृतिमिशनस्य सन्त-सुधांशुमहाराजेन उक्तं यत् सनातनस्य पवित्राणां ग्रन्थानां विशुद्धीकरणं संशोधनं च नितराम् आवश्यकम् अस्ति। वेदानां, स्मृतीनां, सदाचारस्य च अद्य महती आवश्यकता अस्ति।
स्वामी-जितेन्द्रानन्दमहाराजेन उक्तं यत् अस्माकं मनुस्मृतेः मूलप्रतयः अस्माकं पार्श्वे भवेयुः, याः अस्माकं देशात् वैदेशिकशक्तिभिः स्ववशं नीताः सन्ति। शास्त्रार्थः मीमांसा च अस्माकं परम्परा वर्तते।
मलूकपीठाधीश्वरेण स्वामी-राजेन्द्रदासमहाराजेन उक्तं यत् सर्वे सन्ताः एकस्मिन् मञ्चे एकस्मिन् विचारे च तिष्ठेयुः। वयं सर्वे अनेके सन्त: अपि एकाः स्मः एकाश्च भवेम। वेदानुकूला वाणी एव प्रमाणम् अस्ति, अतः वैदिकसिद्धान्तानां विरोधिनीं वाचं न स्वीकुर्वन्तु। अद्यतनयुवभ्यः पवित्रा दृष्टिः, पवित्रः आहारः, शुद्धाश्च विचाराः आवश्यकाः सन्ति। भारतवर्षस्य धरा गोवधात् मुक्ता भवेत्, एतादृशः सङ्कल्पः करणीयः इति आह्वानं कृतम्।
