By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: उद्यानपालकेभ्यः सर्वकारस्य महदोपहार:,एमआईएस-अन्तर्गतं प्रति-किलोग्रामं त्रीणि रूप्यकाणि वर्धिष्यन्ते सेव-मूल्यानि
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > उद्यानपालकेभ्यः सर्वकारस्य महदोपहार:,एमआईएस-अन्तर्गतं प्रति-किलोग्रामं त्रीणि रूप्यकाणि वर्धिष्यन्ते सेव-मूल्यानि
हिमाचलवार्ता

उद्यानपालकेभ्यः सर्वकारस्य महदोपहार:,एमआईएस-अन्तर्गतं प्रति-किलोग्रामं त्रीणि रूप्यकाणि वर्धिष्यन्ते सेव-मूल्यानि

डॉ मनोज शैल
Last updated: 2026/09/17 at 9:05 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

उद्यानपालकेभ्यः सर्वकारस्य महदोपहार:,एमआईएस-अन्तर्गतं प्रति-किलोग्रामं त्रीणि रूप्यकाणि वर्धिष्यन्ते सेव-मूल्यानि

हिमसंस्कृतवार्ता — शिमला।

 

हिमाचलप्रदेशस्य फल-उत्पादकेभ्यः (उद्यानपालकेभ्यः) राज्यस्य सुक्खू-सर्वकारः महदोपहारं प्रदातुं सज्जः अस्ति। प्रदेशे ‘विपणन-हस्तक्षेप-योजनायाः’ (MIS – Market Intervention Scheme) क्रयण-प्रक्रियायाः अन्तर्गतं सेव-फलस्य न्यूनतम-समर्थन-मूल्यं वर्धयितुं विचारः क्रियते। अस्मिन् सन्दर्भे सर्वकार-स्तरे व्यापक-विमर्शः प्रचलति। आगामि-काले सेव-क्रयण-मूल्यं संवर्ध्य प्रति-किलोग्रामं पञ्चदश (१५) रूप्यकाणि विधास्यते। एतदर्थं सर्वकारेण प्रस्तावः सज्जीकृतः अस्ति। आगामिनि विधानसभायाः शीतकालीन-सत्रे मुख्यमन्त्री सुखविन्दरसिंहसुक्खू-महोदयः अस्य औपचारिकाम् उद्घोषणां कर्तुं शक्नोति। साम्प्रतं ‘एचपीएमसी’ माध्यमेन कृषकेभ्यः द्वादश रूप्यकाणि प्रति-किलोग्रामं समर्थन-मूल्यं दीयते, यस्मिन् सर्वकारः विपुलं धनभारं वहति।

गते वित्त-वर्षे (२०२५-२६) एमआईएस-अन्तर्गतं प्रदेशे एक-लक्ष-मीट्रिक-टन् परिमितं सेव-क्रयणं कृतम् आसीत्, यत्रैव अस्मिन् वर्षे अल्प-उत्पादनात् अद्यावधि प्रायः षट्-सहस्र (६०००) मीट्रिक-टन् परिमितम् एव क्रयणं जातम्। एतादृश्यां स्थितौ मूल्य-वृद्धौ सत्यां शिमला, किन्नौर:, लाहुल-स्पीति’, कुल्लू, चम्बा, मण्डी, सिरमौर-प्रभृति-मण्डलानां लक्षाधिकाः उद्यानपालका: लाभान्विताः भविष्यन्ति।

विदितं स्यात् यत् प्रतिकूल-ऋतु-कारणात् यत् सेव-फलं वृक्षात् पतति, तस्य ‘सी-श्रेण्याः’ (C-Grade) फलानां क्रयणं सर्वकारः करोति, येन ‘एचपीएमसी’ द्वारा फल-मद्यं (Fruit Wine), रस-उत्पादाः च निर्मीय विपणौ विक्रीयन्ते।

 

षष्टि-प्रतिशतं (६०%) जनाः अनुबन्धे यच्छन्ति फल-वाटिकाः; मध्यस्थाः न लप्स्यन्ते लाभम्

राज्यस्य षष्टि-प्रतिशताधिकाः (६०%) उद्यानपालका: स्व-वाटिकाः मध्यस्थेभ्यः अनुबन्धेन प्रयच्छन्ति। किन्तु अधुना ते मध्यस्थाः एमआईएस-अन्तर्गतं फल-विक्रयणं कर्तुं न शक्ष्यन्ति। अस्य क्रयणस्य कृते साम्प्रतं भूमेः अधिकृतं’ भू-स्वामित्व-प्रमाणपत्रम् (जमाबन्दी) याच्यते, येन मध्यस्थानां वञ्चना समाप्ता भविष्यति। अनेन वास्तविक-उद्यानपालका: साक्षात् फलानि विक्रीय लाभं प्राप्स्यन्ति, एमआईएस-धनराशिः च साक्षात् तेषां वित्तकोष-संख्यासु (Bank accounts) गमिष्यति।

You Might Also Like

सितम्बर-मासे रोहताङ्ग-प्रभृति-शिखरेषु हिमपातस्य शुभ्राच्छादनम्; त्रि-होराः यावत् स्थगिता मणिमहेश-यात्रा

शिवागम-साधकाः १८ सितम्बर-दिनाङ्के करिष्यन्ति डल-सरोवरावरण-भेदम्; तदनन्तरं प्रारप्स्यते पवित्रं ‘शाही-स्नानम्’

सङ्कटे हिमाचलस्य सुरम्यः विहग:, गिरेः दुर्लभं न्यासं रक्षिष्यति वन्य-प्राणि-विभागः

क्रीडा-मञ्चानां माध्यमेन बालकान् यूनश्च लक्ष्यीकुर्वन्ति आतङ्किनः; संयुक्तराष्ट्र-प्रतिवेदने प्रकटनम्

कृषकाणाम् आय-संवर्धनाय प्रयासाः; मक्का-गोधूमयो: च निर्धारयिष्यते न्यूनतम-समर्थन-मूल्यम् (MSP)

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article सङ्कटे हिमाचलस्य सुरम्यः विहग:, गिरेः दुर्लभं न्यासं रक्षिष्यति वन्य-प्राणि-विभागः
Next Article शिवागम-साधकाः १८ सितम्बर-दिनाङ्के करिष्यन्ति डल-सरोवरावरण-भेदम्; तदनन्तरं प्रारप्स्यते पवित्रं ‘शाही-स्नानम्’
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?