By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Independence Day 2026-‘व्यवस्था-परिवर्तनात् स्वावलम्बनं प्रति हिमाचलम्’ — स्वतन्त्रता-दिवसे मुख्यमन्त्रिणः राज्य-स्तरीय-सम्बोधनम्, अनेकासां जनकल्याण-योजनानाम् उद्घोषणम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > Independence Day 2026-‘व्यवस्था-परिवर्तनात् स्वावलम्बनं प्रति हिमाचलम्’ — स्वतन्त्रता-दिवसे मुख्यमन्त्रिणः राज्य-स्तरीय-सम्बोधनम्, अनेकासां जनकल्याण-योजनानाम् उद्घोषणम्
हिमाचलवार्ता

Independence Day 2026-‘व्यवस्था-परिवर्तनात् स्वावलम्बनं प्रति हिमाचलम्’ — स्वतन्त्रता-दिवसे मुख्यमन्त्रिणः राज्य-स्तरीय-सम्बोधनम्, अनेकासां जनकल्याण-योजनानाम् उद्घोषणम्

डॉ मनोज शैल
Last updated: 2026/08/15 at 10:45 PM
डॉ मनोज शैल
Share
12 Min Read
SHARE

Independence Day 2026-‘व्यवस्था-परिवर्तनात् स्वावलम्बनं प्रति हिमाचलम्’ — स्वतन्त्रता-दिवसे मुख्यमन्त्रिणः राज्य-स्तरीय-सम्बोधनम्, अनेकासां जनकल्याण-योजनानाम् उद्घोषणम्

हिमसंस्कृतवार्ता: — हमीरपुरम् । 

राजकीय-वरिष्ठ-माध्यमिक-पाठशाला-बड़सर-मध्ये आयोजिते हिमाचलप्रदेशस्य राज्य-स्तरीय-स्वतन्त्रता-दिवस-समारोहे मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खू-महोदयेन कर्मचारिणां तथा च अन्य-वर्गाणां कृते महत्यः घोषणाः कृताः। मुख्यमन्त्रिणा उक्तं यत् राज्यसर्वकारस्य आय-व्ययक-प्रतिबद्धतायाः अनुसारेण ‘एन.एच.एम.’-हिमाचलप्रदेशस्य अन्तर्गतं कार्यरतानां प्रायः ९००० ‘आशा’-कार्यकर्त्रीणां कृते दीयमानं मासिक-प्रोत्साहन-धनं ५८०० रूप्यकेभ्यः वर्धयित्वा ६८०० रूप्यकाणि करिष्यते। तेन एतस्याः वृद्धेः प्रवर्तनाय घोषणा कृता। तेन उद्घोषितं यत् ‘एन.एच.एम.’-हिमाचलप्रदेशस्य अन्तः कार्यरताः ते कर्मचारिणः, यैः स्व-वेतनस्य युक्तीकरणात् परं सप्त-वर्षाणां सेवा पूर्णा कृता, तेभ्यः १ अप्रैल २०२६ दिनाङ्कात् संशोधितं वेतनं दास्यते। एतदतिरिच्य सर्वकारस्य आय-व्ययक-प्रतिबद्धतां पूरयन् तेन ‘एन.एच.एम.’-हिमाचल-अन्तर्गतं कार्यरतानां बाह्यस्रोत-कर्मचारिणां (Outsource) परिचारिकाणां (Nurses), भेषजज्ञानां (Pharmacists), शल्यक्रिया-कक्ष-सहायकानां प्रयोगशाला-तन्त्रज्ञानां च कृते प्रतिमासं २५००० रूप्यकाणि तथा च ‘डाटा-एंट्री-ऑपरेटर’-कर्मचारिणां कृते प्रतिमासं १८००० रूप्यकाणि संशोधित-पारिश्रमिकस्य घोषणा कृता। एतत् संशोधितं पारिश्रमिकं १ सितम्बर २०२६ दिनाङ्कात् प्रभावी भविष्यति।

 

मुख्यमन्त्रिणः स्वपृष्ठभागे स्वाक्षरं (Autograph) ग्रहीतुं बालकानां हठः

बड़सर-मध्ये आयोजिते अशीतितमे राज्य-स्तरीय-स्वतन्त्रता-दिवस-समारोहस्य समापने विद्यालयीय-छात्रेषु मुख्यमन्त्रिणः सुखविन्दरसिंहसुक्खू-महोदयस्य स्वाक्षरं (Autograph) ग्रहीतुं स्पर्धा दृष्टा। बालकानां हठः विचित्रः आसीत्, ते मुख्यमन्त्रिणः स्व-युतकस्य (Shirt) पृष्ठभागे एव स्वाक्षरम् ऐच्छन्। पूर्वं तु मुख्यमन्त्रिणा एतत् उक्त्वा अस्वीकृतं यत् युतकस्य पृष्ठभागे स्वाक्षर-प्रदानेन भवतां मातापितरौ क्रुद्धौ भविष्यतः। किन्तु, यदा बालकाः न अमन्यन्त, तदा मुख्यमन्त्रिणा पृष्ठभागे स्वाक्षराणि प्रदत्तानि।

 

विविध-विभागेषु सहस्रशः पदानां पूरणस्य उद्घोषणम्

मुख्यमन्त्रिणा जल-शक्ति-विभागे विविध-श्रेणीनां ४००० पदानां पूरणस्य अपि घोषणा कृता। तेन प्रोक्तं यत् सर्वकारीय-कर्मचारिभिः निवृत्तवेतनधारिभिश्च प्रदेशस्य विकासे अमूल्यं योगदानं दत्तम् अस्ति, अस्माकं सर्वकारश्च तेषां हितानां रक्षणाय प्रतिबद्धः वर्तते। तेन उक्तं यत् अस्माकं सर्वकारः ‘मल्टी-टास्क-वर्कर्स’ तथा च बाह्यस्रोत-कर्मचारिणां चिन्तानां प्रति संवेदनशीलः अस्ति। वयं तेषां विषयाणां सर्वान् पक्षान् गम्भीरतया विचारयामः तेभ्यश्च उचितं लाभं दातुं नीतेः निर्माणाय विचारं कुर्मः। मुख्यमन्त्रिणा वन-मित्राणां मानदेयं १२,००० रूप्यकाणि कर्तुं घोषणा कृता। तेन सर्वेषु पञ्चायतेषु ‘मल्टी-टास्क-वर्कर्स’-इत्येषां ४००, शिक्षा-विभागे ‘कनिष्ठ-सहायक-पुस्तकालयस्य’ (Junior Assistant Library) २०० तथा च जिला-परिषदः अधीनेषु पञ्चायतेषु ‘कार्य-प्रशिक्षु-प्राविधिक-सहायकस्य’ (Job Trainee Technical Assistant) २८० पदानां पूरणस्य अपि उद्घोषणा कृता। साकमेव १९७५ वरिष्ठ-माध्यमिक-विद्यालयेषु एकैकस्य द्वारपालस्य (चौकीदार) तथा च एकैकस्य ‘मल्टी-टास्क-वर्कर’-कर्मचारिणः चत्वारि सहस्राणि पदानि पूरयितुं प्रोक्तम्।

 

कर्मचारिभ्यः निवृत्तवेतनधारिभ्यश्च महती घोषणा

मुख्यमन्त्रिणा उक्तं यत् वर्त्तमान-सर्वकारस्य सत्तायां प्रापनात् पूर्वं पूर्वतन-सर्वकारः वेतन-निवृत्तवेतन-अवशिष्टांश-रूपेण १० सहस्र-कोटि-रूप्यकेभ्यः अधिकां देयतां त्यक्त्वा गतः आसीत्। सर्वकारः सर्वदा कर्मचारिणां निवृत्तवेतनधारिणां च हितैषी अस्ति। प्रदेशस्य कठिनाम आर्थिक-स्थितिम् अपि विगणय्य अधुना यावत् प्रायः २१७० कोटि-रूप्यकेभ्यः अधिकं वेतन-निवृत्तवेतन-अवशिष्ट-धनं प्रदत्तम् अस्ति। मुख्यमन्त्रिणा उद्घोषितं यत् चतुर्थ-श्रेणी-कर्मचारिभ्यः अस्मिन्नेव मासे वेतन-अवशिष्टांश-रूपेण अतिरिक्तं २०,००० रूप्यकाणां भुक्तिष: करिष्यते। तेन एतदपि घोषितं यत् २०१६ तः २०२१ वर्षाणां मध्ये निवृत्तानां तृतीय-श्रेण्याः निवृत्तवेतनधारिणां पारिवारिक-निवृत्तवेतनधारिणां च कृते अस्मिन्नेव मासे तेषां अवशिष्ट-राशेः अतिरिक्तं ३५ प्रतिशतं भुक्ति: करिष्यते। एवमेव प्रथम-द्वितीय-श्रेण्याः निवृत्तवेतनधारिभ्यः पारिवारिक-निवृत्तवेतनधारिभ्यश्च अपि अस्मिन्नेव मासे तेषां अवशिष्ट-राशेः १५ प्रतिशतं भुक्ति: करिष्यते। तेन उक्तं यत् एतेषु संवितरणेषु सर्वकारः २८१ कोटि-रूप्यकाणि व्ययीकरिष्यति।

‘इन्दिरा-गाँधी-मातृ-शिशु-सङ्कल्प-योजना’ प्रायोगिक-आधारेण प्रारप्स्यते

मुख्यमन्त्रिणा प्रोक्तं यत् भारतसर्वकारस्य पक्षतः सम्प्रति प्रसारितायाम् ‘राष्ट्रिय-परिवार-स्वास्थ्य-सर्वेक्षणस्य’ वार्तायां वर्त्तमान-राज्यसर्वकारस्य काले हिमाचलप्रदेशे महिलानां बालकानां च स्वास्थे परिष्कार: रेखाङ्कितः। तेन उक्तं यत् यद्यपि राज्ये महत्त्वपूर्णा प्रगतिः जाता, किन्तु इतोऽपि परिष्कारस्य आवश्यकता अस्ति। एतेनैव उद्देश्येन राज्यसर्वकारेण मातृभ्यः बालकेभ्यश्च श्रेष्ठं तथा च अधिक-पौष्टिकम् अन्नम् उपलब्धं कारयितुम् ‘इन्दिरा-गाँधी-मातृ-शिशु-सङ्कल्प-योजनां’ प्रारब्धुं निर्णयः गृहीतः। सुक्खू-महोदयेन उक्तं यत् राज्यसर्वकारः अधुना एतां योजनां प्रवर्त्तयितुं सज्जः अस्ति अस्याश्च प्रायोगिक-चरणं २ अक्तूबर-दिनाङ्कात् प्रदेशस्य विविधानां मण्डलानां २१ ‘आई.सी.डी.एस.’-खण्डेषु प्रारप्स्यते। षण्णां मासानाम् अनन्तरं प्रायोगिक-चरणस्य समीक्षा करिष्यते तस्य परिणामानाम् आधारेण च योजना सम्पूर्णे हिमाचलप्रदेशे प्रवर्तिष्यते। तेन उक्तं यत् योजनायाः अन्तः मातृभ्यः, महिलाभ्यः तथा च ६ मासेभ्यः ३ वर्षं यावत् वयसः बालकेभ्यः सम्प्रति दीयमानं पोषण-साहाय्यम् इतोऽपि सुदृढं करिष्यते। वर्त्तमाने दीयमानाः तण्डुलाः, द्विदलानि (दालें), तैलम्, पिष्टक-खाद्यम्, पिष्टकम् (पंजीरी), दुग्ध-चूर्णं च अधिक-पौष्टिक-स्वच्छ-रीत्या संवेष्टितेभ्यः ‘प्रीमिक्स’-खाद्य-पदार्थेभ्यः श्रेष्ठतरं विधास्यते। एतदतिरिच्य लाभांशिनाम् इच्छानुसारं सप्ताहे त्रिवारं दुग्धम् अण्डानि वा उपलब्धं कारयिष्यन्ते। ३ तः ६ वर्षं यावत् वयसः बालकेभ्यः दीयमानं तप्त-पक्व-भोजनम् अपि पोषण-गुणवत्तां वर्धयितुं श्रेष्ठतरं करिष्यते। मुख्यमन्त्रिणा उक्तं यत् योजनायां पारदर्शकतां गुणवत्तां च निश्चेतुं सम्पूर्ण-क्रयण-प्रक्रियायाः दायित्वं मण्डल-स्तरे ‘आई.सी.डी.एस.’-खण्ड-स्तरे च समर्पयिष्यते। अनेन स्थानीय-स्तरे पारदर्शिकं क्रयणं निश्चितं भविष्यति मातृणां बालकानां च कृते स्वच्छ-नूतन-गुणवत्तापूर्ण-खाद्य-सामग्र्याः उपलब्धता निश्चिता भविष्यति। तेन उक्तं यत् योजनायाः उद्देश्यं मूल-स्तरे पोषण-साहाय्यं सुदृढं विधातुं सम्पूर्ण-हिमाचलप्रदेशे महिलानां बालकानां च स्वास्थ्य-पोषण-सम्बद्धान् श्रेष्ठ-परिणामान् निश्चेतुम् अस्ति।

 

१०० नूतनाः ‘सीबीएसई’-विद्यालयाः उद्घाटयिस्यन्ते, निवृत्ताः चिकित्सकाः २०२७ पर्यन्तं सेवां दास्यन्ति

तेन आगामि-शैक्षणिक-सत्रात् सम्पूर्ण-प्रदेशे १०० नूतनानां ‘सीबीएसई’-विद्यालयानाम् उद्घाटनस्य अपि घोषणा कृता। तेन उद्घोषितं यत् अस्मात् मासात् आरभ्य ३१ मार्च २०२७ यावत् निवृत्ताः चिकित्सकाः सेवायां स्थास्यन्ति ते च ३१ मार्च २०२७ दिनाङ्के निवृत्ताः भविष्यन्ति। मुख्यमन्त्रिणा सुक्खू-महोदयेन उद्घोषितं यत् अग्रिमे काले १०० पञ्चायत-क्षेत्राणि हरित-पञ्चायतक्षेत्रानि (Green Panchayats) करिष्यन्ते। मुख्यमन्त्रिणा प्रोक्तं यत् अस्माकं सर्वकारेण सर्वकारीय-क्षेत्रे सहस्रशः युवकेभ्यः जीविका प्रदत्ता। काङ्ग्रेस-सर्वकारस्य काले कस्यामपि नियुक्ति-परीक्षायां प्रश्न-पत्रं न त्रुटितम् (Leak)। अस्य विपरीते पूर्वतन-भाजपा-सर्वकारस्य काले आरक्षणा-नियुक्ति-परीक्षायाः प्रश्न-पत्रं बहिरागतम् कर्मचारी-चयन-आयोगे आयोजितासु नियुक्तिषु च बृहत्-प्रमाणेन अनियिमितताः प्राप्ताः, अपि च प्रश्न-पत्राणि विक्रीयन्ते स्म। अस्माकं सर्वकारेण युवानः प्रति विश्वासघातं कृतवतां जनानां विरुद्धं कठोरा कार्याचरणा कृता तादृशेषु दुष्कर्मसु संलग्नाः जनाः कारागारं प्रेषिताः।

सप्तसु मण्डलेषु दुग्ध-प्रसंस्करण-संरचनायां द्वयोः वर्षयोः १५० कोटि-रूप्यकाणि व्ययीभविष्यन्ति

तेन उक्तं यत् काङ्गड़ा-मण्डलस्य ढगवार-मध्ये प्रायः २५० कोटि-रूप्यकाणां व्ययेन प्रतिदिनं १.५ लक्ष-सेटक-क्षमता-युक्तं प्रदेशस्य प्रथमम् अत्याधुनिकं दुग्ध-प्रसंस्करण-संयन्त्रं स्थाप्यमानम् अस्ति अस्य च कार्यम् अस्मिन्नेव वर्षे पूर्णं भविष्यति। काङ्गड़ा, ऊना, चम्बा तथा च हमीरपुर-मण्डलानां सहस्रशः कृषकेभ्यः अस्याः सुविधायाः साक्षात् लाभः लप्स्यते। तेन उद्घोषितं यत् आगामिषु द्वयोः वर्षयोः राज्यसर्वकारः सोलनं, ऊना, सिरमौर:, शिमला, मण्डी, कुल्लू तथा च हमीरपुर-मण्डलेषु दुग्ध-प्रसंस्करण-संरचनायाम् १५० कोटि-रूप्यकाणि व्ययीकरिष्यति। अनेन ‘डेयरी’-क्षेत्रम् इतोऽपि सुदृढं भविष्यति कृषकेभ्यश्च श्रेष्ठाः अवसराः सृष्टाः भविष्यन्ति।

 

समर्पिता उद्यानपालन-नीतिः (बागवानी नीति) प्रवर्तिष्यते: मुख्यमन्त्री

मुख्यमन्त्रिणा उक्तं यत् कृषकाणां समृद्धिं निश्चितं कर्तुं सहैव राज्यसर्वकारः उद्यानपालकानाम् आर्थिक-स्थितिं विकसितुम् अपि समान-रूपेण कटिबद्धः अस्ति। हिमाचलप्रदेशः देशस्य प्रथमं राज्यं भवितुं गच्छति, यत् एकाम् समर्पिताम् उद्यानपालन-नीतिं प्रवर्त्तयिष्यति। अनेन प्रायः ८२,२०० जनेभ्यः जीविकाया: अवसराः सृष्टाः भवेयुः इति आशा अस्ति। तेन उक्तं यत् सेब-फलानां संवेष्टनाय (Packaging) सार्वभौमिक-सम्पुटकस्य (Universal Carton) अनिवार्यतां कृत्वा सहस्रशः उद्यानपालकेभ्यः पूर्वमेव लाभः प्राप्तुम् आरब्धः। अनेन तेषाम् उत्पादानां श्रेष्ठानि मूल्यानि निश्चितानि जातानि विपण्यां च तेषाम् शोषणे नियन्त्रणं कर्तुं साहाय्यं प्राप्तम्।

 

२ अक्तूबर-दिनाङ्कात् ‘अपना परिवार सुखी परिवार’-इति योजना प्रारप्स्यते

मुख्यमन्त्रिणा सुक्खू-महोदयेन उक्तं यत् जनैः सह वार्तालापस्य समये तेन तादृशानाम् आर्थिक-दुर्बल-परिवाराणां विषये ज्ञातम्, येषां नामानि ‘बी.पी.एल.’-सूच्यां न आसन्। तादृशानां परिवाराणाम् उचितं परिचयं निश्चेतुं राज्यसर्वकारेण गते एकस्मिन् वर्षे अष्टसु चरणेषु सर्वेक्षणं कारितम्। प्रदेशस्य प्रायः १९ लक्ष-परिवारेषु १.८० लक्ष-परिवाराणां परिचय: तादृश-परिवार-रूपेण जात:, येभ्यः सर्वकारात् अधिकस्य साहाय्यस्य ध्यानस्य च आवश्यकता वर्तते। मुख्यमन्त्रिणा प्रोक्तं यत् एतेषां परिवाराणां चयनम् उपायुक्तानां माध्यमेन कृतम् अस्ति तेषां पक्षतः अन्तिमाः सूच्यः अपि ज्ञापिताः सन्ति। एतेभ्यः परिवारेभ्यः राज्यसर्वकारः २ अक्तूबर-दिनाङ्कात् ‘अपना परिवार सुखी परिवार’-इतिज्ञयोजनां प्रारप्स्यते। अस्याः अन्तः आगामिषु द्वयोः वर्षयोः एतेषां परिवाराणाम् आर्थिक-स्थितिं परिष्कर्तुं एका व्यवस्था स्थापयिष्यते। तेन उक्तं यत् सर्वेभ्यः उपायुक्तेभ्यः निर्देशाः दत्ताः यत् आगामि-द्वयोः मासयोः अभ्यन्तरे योजनायाः अन्तर्गतानां प्रत्येक-परिवाराणाम् आवश्यकतानां मूल्याङ्कनं क्रियेत। अनेन प्रत्येक-परिवाराय आवश्यकीनां विशेष-साहाय्यानां परिचये साहाय्यं लप्स्यते। केन्द्रस्य राज्यसर्वकारस्य च विविधाः योजनाः एतान् परिवारान् लक्षीकृत्य करिष्यन्ते येन ते उपलब्धानाम् अवसराणां कल्याणकारिणीनां योजनानां च पूर्णं लाभं प्राप्तुं शक्नुयुः। तेन स्पष्टीकृतं यत् एतेषु अर्धाधिकाः परिवाराः पूर्वमेव ‘बी.पी.एल.’-सूच्यां सम्मिलिताः सन्ति, यदा च केचन परिवाराः सम्प्रति अस्याः अन्तः न आगच्छन्ति।

 

‘बी.पी.एल.’-सूची यथा वर्तते तथैव स्थास्यति – मुख्यमन्त्री

तेन आश्वासनं दत्तं यत् राज्यसर्वकारः ‘बी.पी.एल.’-परिवारेभ्यः दीयमानं कमपि लाभं न तु न्यूनीकरिष्यति न च प्रतिनिवर्तयिष्यति। मुख्यमन्त्रिणा उक्तं यत् केचन विपक्ष-नेतारः एतां भ्रामिकां वार्तां प्रसारयन्ति यत् सर्वकारः ‘बी.पी.एल.’-परिवाराणां सङ्ख्यां न्यूनीकर्तुम् इच्छति। तेन उक्तं यत् एते आरोपाः सर्वथा असत्याः निराधाराश्च सन्ति। ‘बी.पी.एल.’-सूची यथा अस्ति तथैव स्थास्यति एतेभ्यः परिवारेभ्यः दीयमानाः सर्वे वर्त्तमान-लाभाः निरन्तरं स्थास्यन्ति। मुख्यमन्त्रिणा प्रोक्तं यत् तेषां सर्वकारेण प्रथमवारं राज्यस्य आर्थिक-संसाधनानां सुदृढीकरणाय व्यवस्थिता दृष्टिः स्वीकृता हिमाचलप्रदेशं च आर्थिक-दृष्ट्या स्वावलम्बिनं कर्तुं दिशि निर्णयात्मकानि पदानि गृहीतानि।

‘राज्यम् अधुना निरन्तरं वित्तीय-स्वावलम्बनस्य दिशि अग्रे सरति’

मुख्यमन्त्रिणा उक्तं यत् षोडशेन (16th) वित्त-आयोगेन प्रायः ८,००० तः १०,००० कोटि-रूप्यकाणां राजस्व-हानि-अनुदानं (RDG) स्थगितम्, यत् राज्यम् १९५२ वर्षात् संविधानस्य २७५(१) अनुच्छेदस्य अन्तर्गतं प्राप्नोति स्म। अनेन निर्णयेन राज्यस्य गम्भीरे आर्थिक-सङ्कटे गमनस्य आशङ्का प्रकटीकृता आसीत्। तथापि, हिमाचलप्रदेशः अस्याः कठिनायाः स्थितेः सफलतापूर्वकं बहिरागतवान्। तेन उक्तं यत् अस्माकं निरन्तर-प्रयासैः राज्यम् अधुना निरन्तरं वित्तीय-स्वावलम्बनस्य दिशि अग्रे सरति। सुक्खू-महोदयेन उक्तं यत् राज्यसर्वकारः भाखड़ा-परियोजना-सम्बद्धं प्रायः ७००० कोटि-रूप्यकाणां स्व-अधिकारं दृढतया सत्यनिष्ठतया च अग्रे नयति। एवमेव शानन, बैरास्यूल, जल-उपकर (Water Cess) तथा च चण्डीगढ-सम्बद्धेषु विषयेषु हिमाचलस्य वैधानिक-अधिकाराणां सुरक्षणाय प्रयासाः निरन्तरं प्रचलन्ति।

 

चिट्टा’-मुक्त-हिमाचल-अभियानस्य द्वितीयं चरणम् ऊना-तः प्रारप्स्यते

मुख्यमन्त्रिणा उक्तं यत् जनानां सक्रिय-सहयोगेन समर्थनेन च अस्माकं सर्वकारेण ‘चिट्टा-मुक्त-हिमाचल-अभियानम्’ आरब्धम्। अभियानस्य द्वितीयं चरणं ७ सितम्बर २०२६ दिनाङ्कात् ऊना-तः प्रारप्स्यते। शीघ्रमेव ‘खेलो हिमाचल, चिट्टा-मुक्त अभियानम्’ अपि प्रारप्स्यते, यस्य माध्यमेन युनः क्रीडाभिः सह योजयितुं स्वस्थ-उत्पादक-जीवनशैलीं स्वीकर्तुं च प्रोत्साहयिष्यन्ते। तेन उक्तं यत् नशा-तस्कर-जालं नाशयितुं हिमाचलप्रदेशं च नशामुक्तं राज्यं रचयितुं कठोराः निर्णयाः गृह्यमाणाः सन्ति।

 

सर्वेषु विधानसभा-क्षेत्रेषु स्वच्छ-जलाय प्रवर्त्यते २००० कोटि-रूप्यकाणां योजना – सुक्खू

सुक्खू-महोदयेन उक्तं यत् राज्यसर्वकारः प्रत्येक-नागरिकाय स्वच्छं सुरक्षितं च पेयं जलम् उपलब्धं कारयितुं कार्यं करोति। सर्वेषु विधानसभा-क्षेत्रेषु स्वच्छ-जलस्य उपलब्धतां निश्चेतुं २००० कोटि-रूप्यकाणां व्यापिका योजना प्रवर्त्यते। साकमेव वर्त्तमान-जल-संरचनां सुदृढां पुनर्निर्मितां च कर्तुं भू-जल-पुनर्भरणं प्रोत्साहयितुं च अनेके उपायाः क्रियमाणाः सन्ति। एतैः उपायैः जलस्य उपलब्धतायां गुणवत्तायां च परिष्कार: भविष्यति राज्यस्य च समग्रा जल-सुरक्षा सुदृढा भविष्यति। तेन उक्तं यत् धार्मिक-पर्यटनस्य विकासाय मण्डी-मण्डले माता-बगलामुखी-‘रोपवे’-यानं जनतायै समर्पितम्। चिन्तपूर्णी-मन्दिरे बाबा-बालकनाथ-मन्दिरे चापि ‘रोपवे’-निर्माणं करिष्यते, मण्डी-मध्ये च शिवधामस्य कार्यं पूर्वमेव आरब्धम्। मुख्यमन्त्रिणा प्रोक्तं यत् राज्यस्य इतिहासे प्रथमवारं सर्वकारीय-विद्यालयानां छात्राः शैक्षणिक-भ्रमणाय विदेशं प्रेषिताः।

 

स्वास्थ्य-सेवायां परिष्कार: सर्वकारस्य सर्वोच्च-प्राथमिकतासु सम्मिलितः – मुख्यमन्त्री

तेन उक्तं यत् शिक्षया सह स्वास्थ्य-सेवायां परिष्कार: अपि राज्यसर्वकारस्य सर्वोच्च-प्राथमिकतासु सम्मिलितः अस्ति। रुग्णेभ्यः विशेषज्ञ-स्वास्थ्य-सेवाः आधुनिक-चिकित्सा-उपकरणानि च उपलब्धं कारयितुम् ऐतिहासिकाः उपायाः कृताः। तेन प्रोक्तं यत् हिमाचले प्रथमवारं सर्वेषु चिकित्सा-महाविद्यालयेषु चमियाणा-चिकित्सालयेन सह ‘रोबोटिक-शल्यक्रियायाः’ (Robotic Surgery) सुविधा आरब्धा। मुख्यमन्त्रिणा उक्तं यत् अस्याः सुविधायाः प्रदेशस्य जनेभ्यः राज्यस्य अन्तः एव उन्नता चिकित्सा-प्रौद्योगिकी उपलब्धा भवितुं शक्ष्यति। तेन प्रोक्तं यत् वैयक्तिक-चिकित्सालयेषु ‘रोबोटिक-शल्यक्रियायाः’ व्ययः सामान्यतः ५ लक्ष-रूप्यकेभ्यः अधिकः भवति, यदा च राज्यसर्वकारः सर्वकारीय-संस्थासु एतां सुविधां ३०,००० रूप्यकेभ्यः ८०,००० रूप्यकाणां व्ययेन उपलब्धं कारयति। अनेन सामान्य-जनेभ्यः उन्नतः उपचारः सुलभः भविष्यति।

प्रथमवारं लक्षशः छात्राः साक्षात् (Live) अशृण्वन् मुख्यमन्त्रिणः सम्बोधनम्

तत्रैव हिमाचले स्वतन्त्रता-दिवसः प्रथमवारं सर्वकारीय-विद्यालयेभ्यः बहुभिः कारणैः विशिष्टः अभवत्। प्रदेशस्य सर्वकारीय-विद्यालयेषु प्रथमवारं मुख्यमन्त्रिणः सुखविन्दरसिंहसुक्खू-महोदयस्य राज्य-स्तरीय-सम्बोधनस्य प्रत्यक्ष-प्रसारणं (Live Broadcast) कृतम्, यत् लक्षशः छात्राः एकत्रैव दृष्टवन्तः श्रुतवन्तश्च। छात्राः स्वतन्त्रता-दिवस-समारोहस्य, मुख्य-अतिथेः सन्देशस्य तथा च स्वतन्त्रता-सङ्ग्रामस्य इतिहासस्य देशस्य महान्-राष्ट्रनायकानां योगदानस्य च विषये ज्ञापयिष्यन्ते। षष्ठी-कक्षा-तः द्वादशी-कक्षां यावत् छात्राः तेषां सम्बद्धेषु राजकीय-वरिष्ठ-माध्यमिक-विद्यालयेषु समारोहेषु योजिताः। तत्रैव ‘कॉम्प्लेक्स’-विद्यालयेषु ५०० मीटर-परिधौ स्थितानां प्राथमिक-विद्यालयानां छात्राः अपि मुख्य-समारोहस्य अङ्गं संजाताः।

 

विद्यालयेषु १७ दिनाङ्के भविष्यति १५ अगस्त-अवकाशः

स्वतन्त्रता-दिवसमधिकृत्य शिक्षा-विभागस्य पक्षतः प्रसारितानाम् आदेशानां मध्ये अधुना प्रदेशस्य विद्यालयेषु १७ अगस्त-दिनाङ्के अवकाशः भविष्यति। मुख्यमन्त्रिणा स्पष्टीकृतं यत् १५ अगस्त-दिनाङ्के आयोजितानां कार्यक्रमाणां कारणेन छात्रेभ्यः शिक्षकेभ्यश्च १७ अगस्त-दिनाङ्के विरामः (अवकाशः) प्रदास्यते। शिक्षा-निदेशालयेन कतिपय-दिनेभ्यः पूर्वम् आदेशं प्रसार्य प्रदेशस्य सर्वान् सर्वकारीय-विद्यालयान् १५ अगस्त-दिनाङ्के सामान्य-रूपेण उद्घाटितं स्थापयितुं निर्देशः दत्तः आसीत्। आदेशेषु प्रोक्तम् आसीत् यत् विद्यालयेषु स्वतन्त्रता-दिवसः सम्पूर्णेण उत्साहेन, गौरवेण देशभक्ति-वातावरणेन च आचर्यताम्। सर्वेषां छात्राणाम् उपस्थितिः निश्चिता क्रियताम्। १७ अगस्त-दिनाङ्कस्य विराममधिकृत्य शनिवासरे शिक्षा-विभागेन अधिसूचना प्रसारिता।

You Might Also Like

स्वातंत्र्यदिवसविशेष: – राष्ट्र-प्रेम्णा पीतं वीरगति-सुधारसम्, हिमाचलस्य १७३८ सैनिकाः राष्ट्राय आत्मार्पणम् अकुर्वन्

मुख्यमन्त्रिण: हमीरपुराय शिक्षायै स्वास्थ्याय च महान् उपहार:, उद्घाट्यते हिमाचलस्य प्रथम: विज्ञानमहाविद्यालय:

देशभक्तेः गीतैः एव सीमितं न स्वातन्त्र्यदिवसस्य उत्सवः, वेषभूषया अपि मातृभूमेः प्रेम्णः सन्देशः

प्रदेशस्य विद्यालयेषु १७ अगस्त-दिनाङ्के अवकाशः भविष्यति, मुख्यमन्त्रिणा सुक्खुना बिलासपुरे कृता घोषणा

Independence Day 2026 – स्वातन्त्र्यदिवसे हिमाचले ४३३ काराबद्धानां दण्डे भविष्यति शिथिलता, त्रयः मोचयिष्यन्ते

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article वैश्विक-अस्थिरतायाः मध्ये भारतं तीव्रतमं वर्धमाना प्रमुख-अर्थव्यवस्था: वैश्विक-अस्थिरतायाः मध्ये भारतं तीव्रतमं वर्धमाना प्रमुख-अर्थव्यवस्था- राष्ट्रपतिः द्रौपदी मुर्मु
Next Article स्वातंत्र्यदिवसविशेष: – राष्ट्र-प्रेम्णा पीतं वीरगति-सुधारसम्, हिमाचलस्य १७३८ सैनिकाः राष्ट्राय आत्मार्पणम् अकुर्वन्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?