स्वातंत्र्यदिवसविशेष: – राष्ट्र-प्रेम्णा पीतं वीरगति-सुधारसम्, हिमाचलस्य १७३८ सैनिकाः राष्ट्राय आत्मार्पणम् अकुर्वन्
हिमसंस्कृतवार्ता — आचार्य मनोज शैल:।
“ऐ मेरे वतन के लोगो… तुम खूब लगा लो नारा, ये शुभ दिन है हम सब का लहरा लो तिरंगा प्यारा, पर मत भूलो सीमा पर वीरों ने हैं प्राण गंवाए, कुछ याद उन्हें भी कर लो जो लौट के घर न आए………।”
एताः पङ्क्तयः देवभूमेः हिमाचलप्रदेशस्य तेभ्यः सैन्य-वीरेभ्यः समर्पिताः सन्ति, यैः भारतमातुः रक्षणाय स्वकीयानां प्राणानाम् सर्वोच्चं बलिदानं दत्तम्। स्वातन्त्र्यस्य अशीति-वर्षेषु हिमाचलप्रदेशस्य १७३८ सैनिकाः देशाय वीरगतिं प्राप्तवन्तः। एतेषां पराक्रमं राष्ट्र-समर्पणं च सम्पूर्णं जगत् नमस्करोति। हिमाचलप्रदेशे नास्ति तादृशः कोऽपि जनपद: यतः सैनिकैः सेनायां सेवाः न प्रदत्ताः स्युः।
राष्ट्र-रक्षणाय प्राणाहुतिं दत्तवत्सु प्रत्येक-मण्डलात् देशभक्ताः सम्मिलिताः आसन्। यदि मण्डलवारं बलिदानीनाम् अङ्कानाम् उपरि दृष्टिः प्रसार्यते, तर्हि वीरगति-प्राप्तृषु काङ्गड़ा-मण्डलम् अग्रेसरम् अस्ति। काङ्गड़ा-मण्डलस्य ७४३ सैनिकैः विविध-युद्धेषु त्रिवर्ण-ध्वजस्य गौरवम् स्वाभिमानं च स्व-प्राणान् समर्प्य वर्धितम्। स्वातन्त्र्यात् अधुना यावत् अष्टसु दशकेषु दशभ्यः अधिकानि युद्धानि लब्धानि, येषु १७३८ सैनिकाः हुतात्मनः (बलिदानिनः) संजाताः।
एतेषु बिलासपुर-मण्डलस्य १४९, चम्बा-मण्डलस्य ४८, हमीरपुरस्य ३४९, काङ्गड़ा-मण्डलस्य ७४३, कुल्लू-मण्डलस्य १४, लाहुल-स्पीति-तः अष्ट (८), मण्डी-मण्डलस्य १७१, शिमलायाः ३३, किन्नौरस्य षट् (६), सिरमौरस्य ४६, सोलनस्य ३४ तथा च ऊना-मण्डलस्य १३७ वीर-सैनिकाः सम्मिलिताः सन्ति। यदि भारतीय-सेनया लब्धानां युद्धानां वार्ता क्रियते, तर्हि १९४७ तः १९४९ पर्यन्तं पाकिस्तानेन सह सञ्जाते युद्धे हिमाचलप्रदेशस्य १३६ सैनिकाः वीरगतिं प्राप्ताः।
तत्रैव १९६५ तः १९६७ वर्षयोः मध्ये पाकिस्तानेन सह जाते युद्धे हिमाचलस्य ३४४ वीरैः वीरगतिः प्राप्ता। १९७१ तमे वर्षे पाकिस्तानेन सह युद्धे वीरभूमेः २५९ वीराः राष्ट्र-रक्षणाय बलिप्रदानेन स्व-प्राणान् हुतवन्तः। ‘ऑपरेशन-मेघदूत’ यत् १९८४ तमे वर्षे सियाचिन-हिमनदे (Glacier) पूर्ण-नियन्त्रणं प्राप्तुं भारतीय-सशस्त्र-बलैः सञ्चालितं साहसिकं सैन्य-अभियानम् आसीत्। अस्मिन् काले पाकिस्तानी-सेनया सह सञ्जाते सङ्घर्षे हिमाचलस्य ४९ वीरैः प्राणानां बलिदानं दत्तम्। १९८७ तमे वर्षे सञ्चालिते ‘ऑपरेशन-पवन’ अभियाने भारतीय-सेनायाः उग्रवादि-सङ्घटनेन सह सङ्घर्षः अभवत्। अस्मिन् सङ्घर्षे प्रदेशस्य ३९ सैनिकाः वीरगतिं प्राप्ताः। यदि ‘ऑपरेशन-विजय’ इत्यस्य वार्ता क्रियेत, तर्हि अत्रापि बलिदानस्य सङ्ख्या महती आसीत्।
१९९९ तमे वर्षे कारगिल-युद्धाय ‘ऑपरेशन-विजय’ इति नाम दत्तम् आसीत्। अस्मिन् भारतीय-सेनया कारगिल-पर्वत-शिखरेषु अधिकारं कृतवतः पाकिस्तानी-अनुप्रवेशकारिणः सैनिकांश्च निष्कास्य भारतीय-भूभागः स्व-नियन्त्रणे गृहीतः। अस्मिन् युद्धे हिमाचलप्रदेशस्य ५७ सैनिकैः राष्ट्र-रक्षणाय प्राणाहुतिः दत्ता। १३ सितम्बर २००१ दिनाङ्के भारतीय-संसदि सञ्जातस्य आतङ्कवादि-आक्रमणस्य प्रत्युत्तरे भारतसर्वकारेण ‘ऑपरेशन-पराक्रम’ इति सैन्य-अभियानं प्रवर्त्तितम् आसीत्। तस्मिन् युद्धे राज्यस्य ७७ वीराः बलिदानं प्राप्तवन्तः। सर्वाधिकं बलिदानम् ‘ऑपरेशन-रक्षक’ अभियाने अभवत्। ‘ऑपरेशन-रक्षक’ एकं प्रमुखम् आतङ्कवाद-विरोधि उग्रवाद-विरोधि च अभियानम् आसीत्। एतत् जम्मू-काश्मीरे प्रारब्धम् आसीत्। तस्मिन् काले हिमाचलप्रदेशस्य ३८३ सैनिकाः वीरगतिं गताः। एतेन सहैव अन्येषु अभियानेषु अपि हिमाचलस्य २१० सैनिकैः देश-सीमा-रक्षणे स्वकीयम् आत्मार्पणं कृतम्।
“स्वातन्त्र्यात् आरभ्य अधुना यावत् अशीति-वर्षेषु हिमाचलप्रदेशात् १७३८ सैनिकाः वीरगतिं प्राप्ताः। प्रत्येक-मण्डलात् सैनिकैः बलिदानं प्राप्तम्। राष्ट्र-रक्षणे समये-समये विविधानि सैन्य-अभियानानि सञ्चालितानि, येषु सेनायाः वीर-सैनिकैः वीरतायाः पराक्रमस्य च प्रमाणं यच्छद्भिः प्राणानां सर्वोच्चं बलिदानं दत्तम्। वयं तान् वीर-सुपुत्रान् शतशः प्रणमामः।”
— सेवानिवृत्तः ब्रिगेडियर-मदनशीलशर्मा, निदेशकः भूतपूर्व-सैनिक-कल्याण-निदेशालयः, हमीरपुरम्
