By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: आनी-क्षेत्रे जयरामस्य सुक्खू-सर्वकारोपरि तीक्ष्णः प्रहारः, उक्तवान्—पिहिताः विद्यालयाः चिकित्सालयाश्च, पशुचिकित्सालयेष्वपि आरोपितं तालकम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > आनी-क्षेत्रे जयरामस्य सुक्खू-सर्वकारोपरि तीक्ष्णः प्रहारः, उक्तवान्—पिहिताः विद्यालयाः चिकित्सालयाश्च, पशुचिकित्सालयेष्वपि आरोपितं तालकम्
राजनैतिकवार्ताहिमाचलवार्ता

आनी-क्षेत्रे जयरामस्य सुक्खू-सर्वकारोपरि तीक्ष्णः प्रहारः, उक्तवान्—पिहिताः विद्यालयाः चिकित्सालयाश्च, पशुचिकित्सालयेष्वपि आरोपितं तालकम्

डॉ मनोज शैल
Last updated: 2026/11/10 at 10:51 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

आनी-क्षेत्रे जयरामस्य सुक्खू-सर्वकारोपरि तीक्ष्णः प्रहारः, उक्तवान्—पिहिताः विद्यालयाः चिकित्सालयाश्च, पशुचिकित्सालयेष्वपि आरोपितं तालकम्

हिमसंस्कृतवार्ता — कुल्लू।

पूर्वमुख्यमन्त्री प्रतिपक्षनेता च जयरामठाकुरः आनी-क्षेत्रे नवनिर्वाचितानां जनप्रतिनिधीनां सम्मानसमारोहे प्रदेशस्य काङ्ग्रेस-सर्वकारस्योपरि तीक्ष्णं प्रहारम् अकरोत्। सः अवदत् यत् स्वजनानां काठिन्यं निवारयितुं तेषां च भारं लघूकर्तुं यत् सुखं भवति, तस्य आनन्दः एव अपरः वर्तते। अस्मिन्नेव क्षेत्रे जातत्वात् संवर्धितत्वाच्च सः अत्रत्यानां जनानां समस्याः काठिन्यानि च सम्यक्तया अवगच्छति।

जनसभां सम्बोधयता जयरामठाकुरेण प्रतिपादितं यत् तस्य पूर्वतनसर्वकारेण जनानां सौकर्यार्थं कार्यं कृतं तथा च कोविड-विभीषिका-सङ्कटस्य मध्येऽपि मार्गनिर्माणक्षेत्रे कीर्तिमानानि (रिकॉर्ड) स्थापितानि। सः पक्षं कृतवान् यत् तस्य सर्वकारेण वृद्धानां कृते निवृत्तिवेतनस्य (पेंशन) प्रदानाय प्रथमे मन्त्रिमण्डलोपवेशने (कैबिनेट-गोष्ठ्याम्) एव प्रयासाः आरब्धाः आसन्।

 

आनी-क्षेत्रे संस्थानानां पिधानस्य आरोपः

जयरामठाकुरः आक्षेपम् अकरोत् यत् मुख्यमन्त्री सुखविन्दरसिंहसुक्खू-महोदयः सत्ताग्रहणात् परं जनानां सौकर्याय उद्घाटितानि सहस्राधिकाणि संस्थानानि पिहितवान्। सः अवदत् यत् आनी-विधानसभाक्षेत्रे विद्यालयानां, चिकित्सालयानां, सर्वकारीयकार्यालयानां च सहैव षडधिकाः पशुचिकित्सालयाः अपि पिहिताः। सः अकथयत् यद् आनी-क्षेत्रं पशुपालने दुग्धोत्पादने च महत्त्वपूर्णां भूमिकां निर्वहति। ईदृशावस्थायां पशूनाम् उपचाराय पशुचिकित्सालयानाम् आवश्यकता वर्तते। सः सर्वकारस्योपरि पशुपालकानां समस्यानाम् उपेक्षायाः आरोपम् अकरोत्।

 

बीबीएमबी (BBMB) तथा ‘वाइल्डफ्लावर हॉल’ प्रकरणयोः अपि उत्थापिताः प्रश्नाः

प्रतिपक्षनेत्रा मुख्यमन्त्रिणः उपरि उपलब्धीनां श्रेयग्रहणाक्षेपं कुर्वता ‘बीबीएमबी’ तथा ‘वाइल्डफ्लावर हॉल’ इत्याख्यौ विषयौ उत्थापितौ। सः अवदत् यत् बीबीएमबी-संस्थायाः अन्तिमः विजयः २०११ तमे वर्षे तत्कालीनमुख्यमन्त्रिणः प्रेमकुमारधूमलस्य सर्वकारस्य कार्यकाले सञ्जातः आसीत्। अपरत्र ‘वाइल्डफ्लावर हॉल’ सम्बद्धः विजयः अक्टोबर् २०२२ मध्ये लब्धः आसीत्, यदा तु सुखविन्दरसिंहसुक्खू-महोदयः अस्य मासद्वयानन्तरं मुख्यमन्त्री अभवत्।

 

सुन्दरसिंहठाकुरम् अधिकृत्य अपि विहिता टिप्पणी

जयरामठाकुरेण विधायकं सुन्दरसिंहठाकुरम् अधिकृत्य अपि मुख्यमन्त्री लक्षीकृतः। सः अवदत् यत् मन्त्रिपदप्रदानस्य नाम्नि तस्मै दीर्घकालात् प्रतीक्षा कारिता वर्तते। सः परामर्शं प्रददात् यत् सुन्दरसिंहठाकुरेण मन्त्रिपदस्य अपेक्षया स्वस्वाभिमानः प्राथमिकतया स्वीकरणीयः मुख्यमन्त्रिणे च स्पष्टतया वक्तव्यं यत् सः मन्त्री भवितुं नेच्छति।

 

पञ्चायतनिर्वाचनस्य काङ्ग्रेस-दलस्य पराजयस्य च प्रतिपादनम्

जयरामठाकुरः प्रावोचत् यत् मुख्यमन्त्री स्वकीयसर्वकारस्य स्थितिं विलोक्य पञ्चायतनिर्वाचनं कारयितुं नैच्छत्। सः आरोपम् अकरोत् यत् निर्वाचनस्य स्थगनाय प्रकरणं सर्वोच्चन्यायालयं यावत् नीतं तथा च अधिवक्तृषु कोटिशः रूप्यकाणि व्ययीकृतानि। सः अवदत् यद् भाजपा-दलेन निर्वाचनसञ्चालनाय प्रयासाः विहिताः अन्ततः च निर्वाचनानि सम्पन्नानि। जयरामठाकुरेण विश्वास: कृत: यद् जिला-परिषदः निर्वाचने काङ्ग्रेस-दलेन द्वादशसु मण्डलेषु एकादशसु (११/१२) पराजयः अनुभूतः, यदा तु चम्बा-मण्डले भाजपा-दलं केवलम् एकेन मतेन पृष्ठतः अभवत्। सः आगामिनि विधानसभा-निर्वाचनेऽपि काङ्ग्रेस-दलस्य पराभवस्य पक्षम् अकरोत्।

 

निर्वाचन-प्रतिज्ञासु स्वास्थ्यसुविधासु चापि सर्वकार: आक्षिप्त:

प्रतिपक्षनेत्रा काङ्ग्रेस-दलस्य निर्वाचन-प्रतिज्ञासु प्रश्नान् उत्थापयता पृष्टं यत् प्रदेशस्य कियतीभ्यः महिलाभ्यः १५०० रूप्यकाणां सम्मानराशिः प्रदत्ता? सः युवकेभ्यः वृत्तिप्रदानस्य (रोजगारस्य) प्रतिज्ञायामपि सर्वकारम् आक्षिप्तवान् आरोपं च अकरोत् यत् कोविड-विभीषिकाले रुग्णानां साहाय्यं कृतवन्तः केचन युवानः अपि सेवातः निष्कासिताः। सः आनी-क्षेत्रे स्वास्थ्यसेवानां स्थितावेव चिन्तां प्रकटयन् अवदत् यत् चिकित्सालयेषु वैद्यानां स्वास्थ्यकर्मिणां (पैरामेडिकल-कर्मिणां) च महती न्यूनता वर्तते। बहुषु स्थानेषु क्ष-किरण (X-Ray) पराश्रव्यध्वनि (Ultrasound) सदृशाः सुविधाः अपि नोपलभ्यन्ते। सः इदमपि आरोपयत् यत् लोकयानानाम् अर्धाधिकाः मार्गाः पिहिताः सन्ति, दुग्धोत्पादकेभ्यश्च समये भुक्ति: न प्रदीयते।

जयरामठाकुरः अवदत् यत् मुख्यमन्त्री प्राकृतिकापदः समये आनी-विधानसभाक्षेत्रे केवलम् एकवारमेव सम्प्राप्तः, यदा तु तस्य मुख्यमन्त्रित्वकार्यकाले सः सप्तवारम् अत्र आगतवान् आसीत्। सः स्वसर्वकारस्य काले मार्ग-स्वास्थ्य-शिक्षा- ‘जलजीवन-अभियान’-अन्तर्गततया शतशः कोटिरूप्यकाणां योजनानां सञ्चालनस्य प्रतिपादनम् अकरोत्।

You Might Also Like

पङ्कजराय-महोदयः सञ्जातः हिमाचल-विद्युद्-नियामक-आयोगस्य अध्यक्षः, ऊर्जाविभागेन निर्गमिता अधिसूचना

देवभूमौ हिमाचले भवेत् एकः संस्कृत-विश्वविद्यालयः — कुलपतिना प्रो. बिहारीलालशर्मणा प्रदेशसर्वकारः साग्रहम् अभ्यर्थितः

सम्पूर्णानन्द-संस्कृत-विश्वविद्यालय-वाराणस्याः कुलपतिना प्रो. बिहारीलालशर्मणा सह ‘हिमसंस्कृतवार्ताया:’ पक्षत: डॉ. मनोजशैलेन विहितं शिष्टाचार-मेलनम्

मण्ड्यां ‘लोकतन्त्रं रक्षत, अराजकताम् अपसारयत’ इति पदयात्रया भाजपा-दलस्य शक्तिप्रदर्शनम्

चुराह-क्षेत्रस्य त्रयः सर्वकारीय-विद्यालयाः सीबीएसई-मण्डलेन सम्बद्धाः भविष्यन्ति, महिलाः लप्स्यन्ते १५००-१५०० रूप्यकाणि

TAGGED: \हिमाचल के आज के समाचार, bjp, BJP Himachal, cmo himachal Pradesh. HP News, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, Himsanskrit news, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, Himsanskritvarta, Jai Ram Thakur, jairamthakur, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, जयरामठाकुर, दिव्य हिमाचल समाचार, देश विदेश की ताजा खबरें, भाजपा, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, विपक्षनेता जयरामठाकुरः, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल का सबसे पहला संस्कृत समाचार पत्र, हिमाचल की खबरें, हिमाचल भाजपा, हिमाचल समाचार, हिमाचल सरकार, हिमाचल सरकार के निर्णय
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article पङ्कजराय-महोदयः सञ्जातः हिमाचल-विद्युद्-नियामक-आयोगस्य अध्यक्षः, ऊर्जाविभागेन निर्गमिता अधिसूचना
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?