सम्पूर्णानन्द-संस्कृत-विश्वविद्यालय-वाराणस्याः कुलपतिना प्रो. बिहारीलालशर्मणा सह ‘हिमसंस्कृतवार्ताया:’ पक्षत: डॉ. मनोजशैलेन विहितं शिष्टाचार-मेलनम्
संस्कृत-प्रचार-प्रसारं ‘पहाड़ी गल्लां’ कार्यक्रमं च अधिकृत्य कुलपतिमहोदयः ज्ञापितः
कुलपतिना प्रो. शर्मणा ‘हिमसंस्कृतम्’ इत्यस्य प्रयासाः भृशं श्लाघिताः, कार्यक्रमेषु सहभागितायाः प्रदत्तम् आश्वासनम्
हिमसंस्कृतवार्ता — बिलासपुरम्।
‘हिमसंस्कृतवार्ता’ इत्यस्य सम्पादकेन ‘हिमसंस्कृतम्-न्यासस्य’ न्यासिना च डॉ. मनोजशैलेन प्रतिष्ठितस्य सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य वाराणसी इत्यस्य माननीयकुलपतिना प्रो. बिहारीलालशर्मणा सह सौहार्दपूर्णं शिष्टाचार-मेलनम् कृतम्। अस्याः वार्तायाः अन्तराले तयोर्मध्ये संस्कृतभाषायाः संवर्धन-संरक्षणाभ्यां सम्बद्धेषु विविधविषयेषु सविस्तरा सार्थका च चर्चा सम्पन्ना।
डॉ. मनोजशैलः कुलपतिमहोदयं ‘हिमसंस्कृतम्-प्रकल्पस्य’ अन्तर्गततया समग्रराष्ट्रे संस्कृतवार्तानां (वार्तामाध्यमस्य) साहाय्येन क्रियमाणस्य भाषाप्रचारप्रसारस्य पूर्णविवरणं प्रददत्। सहैव तेन हिमाचलप्रदेशस्य स्थानिक-उपभाषाणां (बोलीनां) संरक्षण-संवर्धनयोः उद्देश्येन आरब्धस्य नूतनोपक्रमस्य (नवाचारिणः) ‘पहाड़ी गल्लां’ इत्याख्यस्य कार्यक्रमस्य रूपरेखां गतिविधींश्च अधिकृत्य अपि कुलपतिमहोदयः परिज्ञापितः।
मूलतः हिमाचलप्रदेशस्य बिलासपुर-मण्डलेन सम्बद्धाः प्रख्याताः संस्कृतविद्वांसः प्रो. बिहारीलालशर्माणः स्वकीयायाः बौद्धिकयोग्यतायाः निष्ठायाश्च बलेन वैश्विकस्तरे हिमाचलप्रदेशस्य गौरवं वर्धितवन्तः। मेलन-वार्ताकाले तैः ‘हिमसंस्कृतवार्ता’ इत्यनया क्रियमाणानां समेषां प्रयासानां भूरि-भूरि प्रशंसा विहिता। प्रो. शर्मा-महोदयः अवदत् —“अतीव प्रशंसनीयम् इदं कार्यं यद् हिमाचलसदृशात् पार्वत्यराज्यात् आरब्धः अयम् उपक्रमः अद्य वैश्विकस्तरे संस्कृतविदुषां मध्ये एका सुदृढा सकारात्मकप्रयासत्वेन ख्यातिं प्राप्तवान् अस्ति।”
कुलपतिना प्रो. शर्मणा अग्रे प्रतिपादितं यत् हिमाचलप्रदेशे संस्कृतं प्रति असीमाः सम्भावनाः वर्तन्ते, यस्य प्रत्यक्षं प्रमाणं वर्तमानवंशस्य (वर्तमानसन्तते:) समर्पितेषु संस्कृतशिक्षकेषु युवकेषु च दृश्यते। तैः राज्यस्य संस्कृतज्ञानां समर्पणभावं श्लाघमानैः रेखाङ्कितं यद् अद्य संस्कृतस्य लघुषु बृहत्सु च राष्ट्रियसङ्घटनेषु हिमाचलस्य युनः नेतृत्वभूमिकाम् उद्वहन्ति, यद् राज्यस्य राष्ट्रस्य च उभयोः भविष्यस्य कृते अतीव मङ्गलकारी सङ्केतः वर्तते।
चर्चायाः पर्यवसाने (समापने) कुलपतिना प्रो. बिहारीलालशर्मणा समाश्वासितं यत् भविष्ये ‘हिमसंस्कृतम्-न्यास’ पक्षतः आयोज्यमानेषु कार्यक्रमेषु ते सहर्षं भागं ग्रहीष्यन्ति स्वकीयं पूर्णसहयोगं च प्रदास्यन्ति।
