By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: वैश्विक-अस्थिरतायाः मध्ये भारतं तीव्रतमं वर्धमाना प्रमुख-अर्थव्यवस्था: वैश्विक-अस्थिरतायाः मध्ये भारतं तीव्रतमं वर्धमाना प्रमुख-अर्थव्यवस्था- राष्ट्रपतिः द्रौपदी मुर्मु
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > वैश्विक-अस्थिरतायाः मध्ये भारतं तीव्रतमं वर्धमाना प्रमुख-अर्थव्यवस्था: वैश्विक-अस्थिरतायाः मध्ये भारतं तीव्रतमं वर्धमाना प्रमुख-अर्थव्यवस्था- राष्ट्रपतिः द्रौपदी मुर्मु
राष्ट्रीयवार्ताः

वैश्विक-अस्थिरतायाः मध्ये भारतं तीव्रतमं वर्धमाना प्रमुख-अर्थव्यवस्था: वैश्विक-अस्थिरतायाः मध्ये भारतं तीव्रतमं वर्धमाना प्रमुख-अर्थव्यवस्था- राष्ट्रपतिः द्रौपदी मुर्मु

डॉ.अमनदीप शर्मा
Last updated: 2026/08/15 at 5:01 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
5 Min Read
SHARE

वैश्विक-अस्थिरतायाः मध्ये भारतं तीव्रतमं वर्धमाना प्रमुख-अर्थव्यवस्था- राष्ट्रपतिः द्रौपदी मुर्मु

राष्ट्रपतिः द्रौपदी मुर्मु महोदया स्वातन्त्र्यदिनस्य पूर्वसन्ध्यायां राष्ट्रं सम्बोधितवती। सा राष्ट्रनिर्माणे देशस्य प्रगतौ च महत्त्वपूर्णां भूमिकां निर्वहतां प्रत्येकस्य नागरिकस्य प्रशंसां कृतवती। राष्ट्रपतिमहोदया त्रिसेनायाः सैनिकानां आरक्षक-कर्मचारिणां च कर्तव्यनिष्ठायाः तथा विश्वपटले भारतस्य मान-सम्मानं वर्धयतां प्रवासी-भारतीयानां विशेषतया प्रशंसां कृतवती।

स्वसम्बोधने राष्ट्रपतिमहोदया अवदत् यत् विश्वस्य अनेकेषु क्षेत्रेषु युद्धस्य अस्थिरतायाः च प्रभावः सर्वेषु देशेषु पतति। एतादृश्यां परिस्थितौ अपि भारतस्य अर्थव्यवस्था तीव्रगत्या अग्रे सरति। आर्थिकानुमानानुसारं भारतस्य विकासदरः विश्वस्य औसत-विकासदरस्य तुलनया द्विगुणादपि अधिकः भविष्यति। राष्ट्रपतिमहोदया अवदत् यत् ‘आत्मनिर्भर-भारत-अभियानेन’ अस्माकं आर्थिकप्रगतेः राष्ट्रियसुरक्षायाश्च आधारः सुदृढः जातः।

सत्यस्य न्यायस्य च पक्षे मानवता-विरोधि-शक्तिषु विजयस्य भारतीयां परम्परां रेखाङ्कयन्ती राष्ट्रपतिमहोदया अवदत् यत् वयं २६ जुलै-दिनाङ्के कारगिल-विजयदिनम् अमानयाम तथा च ७ मे-दिनाङ्के ‘ऑपरेशन सिन्दूर’ इत्यस्य प्रारम्भस्य एकवर्षपूर्तौ स्वसेनायाः अतुल्यपराक्रमस्य स्मरणम् अकुर्म। आतङ्कवादस्य विरुद्धम् एतेन ऐतिहासिक-अभियानेन (ऑपरेशन) आतङ्कवादिभ्यः तेषां समर्थकेभ्यश्च एषः दृढः सन्देशः दत्तः यत् ते यत्र कुत्रापि प्रच्छन्नाः भवन्तु, स्वकृतकर्मणः दण्डं ते अवश्यमेव प्राप्स्यन्ति।

दशकेभ्यः गम्भीरं सङ्कटं जातस्य नक्सलवादस्य उल्लेखं कुर्वती सा अवदत् यत् भारतं नक्सलमुक्तं करणम् एका महती उपलब्धिः अस्ति। अधुना नक्सलग्रस्त-क्षेत्रेषु विकासस्य धारा प्रवहति। ‘बस्तर-ओलम्पिक’ स्पर्धायां क्रीडकानां, ‘बस्तर-पण्डुम’ उत्सवे कलाकाराणां, तथा च एतेषु आयोजनेषु दर्शकानां महत्यां संख्यायां सहभागिता नक्सलमुक्तक्षेत्रस्य प्रमाणम् अस्ति।

राष्ट्रपतिमहोदया अवदत् यत् भारतस्य विदेशनीतिः देशहिते आधारिता अस्ति तथा च शान्तिः, सहयोगः, संवादः, वसुधैव कुटुम्बकम् इत्येते आदर्शाः अस्माकं विदेशनीतेः स्तम्भाः सन्ति। आर्थिकसहयोगं वर्धयितुं भारतेन अनेकैः देशैः सह ‘मुक्तव्यापार-सन्धिः’ (Free Trade Agreement) कृतः। अविकसितदेशेषु भारतम् अग्रणीं भूमिकां निर्वहति। विश्वपटले देशस्य सम्मानं वर्धितम्। श्रीमती मुर्मु महोदया अवदत् यत् भारतं नियमाधारितायां अन्ताराष्ट्रियव्यवस्थायां विश्वासं करोति तथा च संयुक्तराष्ट्रसङ्घसहितेषु बहुपक्षीयसङ्घटनेषु वैश्विकसमुदायस्य समुचितं प्रतिनिधित्वम् इच्छति। सा अवदत् यत् एतस्मै प्रयासाय अनेकेषां देशानां समर्थनमपि प्राप्यते।

राष्ट्रपतिः मुर्मु महोदया शिक्षाक्षेत्रे बालिकानां प्रभावी-प्रदर्शनस्य प्रशंसां कृतवती। सा कृषिक्षेत्रे उत्पादकतां वर्धयितुं ‘ड्रोन-दीदी’ इत्यस्याः योगदानात् आरभ्य सेनासहितेषु विविधक्षेत्रेषु महिलानां सहभागितायाः उल्लेखं कृतवती। सा अवदत् यत् राष्ट्रमण्डल-क्रीडासु देशस्य कुल-१३-स्वर्णपदकेषु ८ स्वर्णपदकानि कन्याभिः जितानि। महिलानाम् आर्थिकनिर्भरतायाः वर्धनस्य उल्लेखं कुर्वती सा अवदत् यत् स्वसहायता-समूहेषु १० कोटितः अधिकाः महिला-सदस्याः सन्ति, अस्माकं देशश्च ३ कोटि-महिलाः ‘लखपति-दीदी’ इति कर्तुं लक्ष्यं प्रति अग्रेसरः अस्ति। सा अवदत् यत् ‘मुद्रा-योजना’ अन्तर्गतं साहाय्यं प्राप्तवत्सु उद्यमिषु प्रायः द्वौ तृतीयांशौ लाभार्थिनः महिलाः एव सन्ति।

राष्ट्रपतिमहोदया महात्मा-ज्योतिबा-फुले-महोदयस्य २०० तमे जयन्त्युत्सवे तस्य उल्लेखं कुर्वती अवदत् यत् महात्मा-फुले तथा च सावित्रीबाई-फुले महोदयाभ्यां महिला-सशक्तीकरणस्य, सामाजिक-न्यायस्य, शिक्षायाः, समानतायाश्च क्षेत्रे ऐतिहासिकं योगदानं दत्तम्। तयोः आदर्शान् आधृत्यैव वञ्चितवर्गाणाम् उन्नयनस्य लक्ष्यं राष्ट्रिय-प्राथमिकतारूपेण स्वीकृतम्।

राष्ट्रपतिः द्रौपदी मुर्मु महोदया देशस्य ‘डिजिटल-इन्फ्रास्ट्रक्चर’ (अङ्कीय-संरचनां) विश्वस्य बृहत्तमां सर्वोत्तमां च भुगतान-व्यवस्थां कथितवती। सा अवदत् यत् मार्गपार्श्वे (रेहड़ी-पटरी) तथा ग्रामस्य लघु-विपणिषु अपि अङ्कीय-भुगतानं (डिजिटल पेमेन्ट्) भवति। सा अवदत् यत् विश्वस्य अर्धादपि अधिकानि अङ्कीय-व्यवहार-कार्याणि (डिजिटल ट्रान्जेक्शन) भारते एव भवन्ति। देशवासिनः सर्वकारश्च मिलित्वा अङ्कीय-क्रान्तेः (डिजिटल-क्रान्तेः) उदाहरणं विश्वस्य समक्षम् उपस्थापितवन्तः।

राष्ट्रपतिमहोदया स्वातन्त्र्यदिनस्य पूर्वसन्ध्यायां स्वसम्बोधने अवदत् यत् भारतस्य संविधानं जनसहभागितया निर्मितम् अस्ति। जनसहभागितायाः भावना लोकतन्त्रस्य जनन्यां भारतभूमौ सर्वदैव स्थिता, देशवासिनश्च नूतनोर्जया सह राष्ट्रियाभियानानि अग्रे नयन्ति, या अस्माकं लोकतन्त्रस्य प्रेरिका उपलब्धिः अस्ति। सा अवदत् यत् व्यक्तेः गरिमा, प्रतिष्ठा, अवसरस्य समानता च अस्माकं संविधानस्य प्रमुखादर्शाः सन्ति। सा पूर्णविश्वासेन अवदत् यत् भारते प्रत्येकः जनः महतः स्वप्नान् द्रष्टुं शक्नोति तान् च पूरयितुमपि शक्नोति।

राष्ट्रपतिः द्रौपदी मुर्मु महोदया अवदत् यत् अस्माकं बहवः युवानः स्वयमुद्योगम् (स्वरोजगारम्) अङ्गीकुर्वन्तः अन्येभ्यः उद्योगं दातुं क्षमतामपि दृढयन्ति। युवसहभागितया देशे दृढं ‘स्टार्टअप-इकोसिस्टम’ विकसितं जातम्। सा अवदत् यत् छात्राः भारतस्य भविष्यनिर्मातारः सन्ति, तेषां वर्तमानाय भविष्याय च सर्वेषां प्रयासः आवश्यकः अस्ति। राष्ट्रपतिमहोदया अवदत् यत् सर्वकारः परीक्षाप्रणाल्यां सुधारार्थम् अनुचितसाधनानां नियमनार्थं च व्यापकानि सोपानानि स्वीकरोति।

राष्ट्रपतिमहोदया अवदत् यत् युवा-जनसंख्या देशस्य बहुमूल्यतमा सम्पत्तिः अस्ति। भारतस्य कुलजनसंख्यायां ६५ प्रतिशतं जनाः ३५ वर्षतः न्यूनावस्थायाः सन्ति। सा अवदत् यत् देशस्य युवानः प्रतिभावन्तः, निष्ठावन्तः, कौशलसम्पन्नाश्च सन्ति, एतादृशैः युवाभिः विश्वसमुदाये भारतस्य प्रतिष्ठा वर्धिता। सा अवदत् यत् युवा-पीढी भारतस्य स्वर्णिमभविष्यं प्रति विश्वासं दृढयति।

राष्ट्रपतिः मुर्मु महोदया अवदत् यत् यत्र एकतः अस्माकं देशे विश्वस्य बृहत्तमा युवा-जनसंख्या वर्तते, तत्रैवान्यतः ज्येष्ठनागरिकाणां संख्या अपि निरन्तरं वर्धते। सर्वकारेण ज्येष्ठनागरिकाणां जीवनं सुखमयं कर्तुं बहवः उपायाः कृताः। ७० वर्षस्य तदधिकस्य वा प्रायः ६ कोटि-ज्येष्ठनागरिकेभ्यः प्रतिवर्षं ५ लक्ष-रूप्यकाणि यावत् निःशुल्क-स्वास्थ्यसेवा उपलभ्यते।

राष्ट्रपतिमहोदया अवदत् यत् स्वातन्त्र्यस्य शताब्दीवर्षं २०४७ यावत् ‘विकसित-भारतस्य’ निर्माणाय सम्पूर्णः देशः एकीभूय अग्रे सरति। सा अवदत् यत् अन्त्योदयस्य भावनया सह विकासस्य लाभं प्रत्येकं जनं प्रति प्रापयितुं सङ्कल्पः सुदृढः अस्ति। स्वकीयां समृद्धां परम्परां स्वातन्त्र्यसङ्ग्रामस्य आदर्शान् च अङ्गीकृत्य वयं आधुनिकविकासस्य मार्गे अग्रेसराः स्मः।

स्वसम्बोधनस्य अन्ते राष्ट्रपतिमहोदया महतः तेलुगु-साहित्यकारस्य गुर्जाडा-अप्पाराव-महोदयस्य एकस्य गीतस्य उल्लेखम् अकरोत्, यस्य भावः अस्ति – “स्वदेशे स्निह्यतु, सर्वहितं वर्धयतु; देशः इत्युक्ते केवलं मृत्तिका न, अपि तु समग्रः जनसमुदायः अस्ति।” राष्ट्रपतिमहोदया अवदत् यत् सर्वेषां भारतीयानां विकासः कल्याणं च एव विकसितभारतस्य निर्माणस्य वास्तविकं लक्ष्यम् अस्ति। सा अवदत् यत् समाजस्य सहभागितया सर्वकारस्य च प्रयासैः प्रत्येकः ग्रामः, प्रत्येकं नगरं, देशस्य प्रतिप्रान्तं च जनाः स्वस्थाः, सुखिनः, समृद्धाश्च भविष्यन्ति। राष्ट्रपतिमहोदया अनया सर्वसमावेशी-भावनया राष्ट्रियसाधनायां स्वसमर्पणार्थम् आह्वानं कृतवती।

You Might Also Like

स्वातंत्र्यदिवसविशेष: – राष्ट्र-प्रेम्णा पीतं वीरगति-सुधारसम्, हिमाचलस्य १७३८ सैनिकाः राष्ट्राय आत्मार्पणम् अकुर्वन्

संस्कृतस्य वर्चस्वम्! इण्डिया टुडे-क्रमाङ्कने देशस्य शीर्ष-२५ विश्वविद्यालयेषु केन्द्रीयसंस्कृतविश्वविद्यालयस्य स्थानम्

संस्कृतभारत्याः गुर्जरप्रान्तस्य प्रान्त-अभ्यासवर्गः ऐठोरग्रामे सम्पन्नः

देशव्यापि-उत्साहेन ‘हर घर तिरङ्गा’ अभियानस्य प्रारम्भः

पुरुषाणां कुन्तक्षेपक्रीडायां (जैवलीनथ्रो) आशीष यादवः रजतपदकं प्राप्तवान्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article मुख्यमन्त्रिण: हमीरपुराय शिक्षायै स्वास्थ्याय च महान् उपहार:, उद्घाट्यते हिमाचलस्य प्रथम: विज्ञानमहाविद्यालय:
Next Article Independence Day 2026-‘व्यवस्था-परिवर्तनात् स्वावलम्बनं प्रति हिमाचलम्’ — स्वतन्त्रता-दिवसे मुख्यमन्त्रिणः राज्य-स्तरीय-सम्बोधनम्, अनेकासां जनकल्याण-योजनानाम् उद्घोषणम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?