जनगणना-२०२७ इत्यस्मिन् संस्कृतभाषायाः समुचितम् अभिलेखनं व्यापकजनजागरूकता च इत्येतदर्थं समस्तान् संस्कृतानुरागिनः प्रति आह्वानम्
“संस्कृतस्य गौरवं भारतस्य गौरवम् अस्ति। संस्कृतस्य संरक्षणम् अस्माकं सांस्कृतिक्याः अस्मितायाः, सभ्यतागतस्मृतेः ज्ञानपरम्परायाः च संरक्षणम् अस्ति। आगच्छन्तु, जनगणना-२०२७ इत्यत्र संस्कृतस्य वास्तविकां भाषायीम् उपस्थितिं समुचितरूपेण अभिलिखितुं वयं सर्वे स्वकीयां सक्रियां सहभागितां सुनिश्चितं कुर्मः।”
हिमसंस्कृतवार्ता – वाराणसी।
आदरणीयाः संस्कृतविद्यायाः अनन्योपासकाः, भारतीयज्ञानपरम्परायाः प्रतिष्ठिताः साधकाः, आचार्याः, प्राध्यापकाः, शिक्षकवृन्दाः, शोधार्थिनः, विद्यार्थिनः, संस्कृतानुरागिनः महानुभावाः च!
सादरम् अभिवादनम्।
भारतस्य सनातनसांस्कृतिकचेतनायाः, ज्ञान-विज्ञानयोः समृद्धपरम्परायाः, आध्यात्मिकचिन्तनस्य च अक्षयनिधिः संस्कृतभाषा अस्माकं राष्ट्रियास्मितायाः अमूल्यः आधारः अस्ति। इयं केवलं संवादस्य माध्यमं नास्ति, अपितु भारतीयसभ्यतायाः आत्मा, सांस्कृतिकस्मृतीनां संवाहिका, ज्ञानस्य अनन्तसम्भावनानाम् अक्षयस्रोतः च अस्ति। वेदानाम् उपनिषदां च उदात्तचिन्तनात् आरभ्य रामायण-महाभारतयोः जीवनादर्शपर्यन्तं तथा च आयुर्वेद-ज्योतिष-गणित-व्याकरण-साहित्य-दर्शन-विविधशास्त्राणां विपुलज्ञानराशिपर्यन्तं भारतीयमनीषायाः अप्रतिमं बौद्धिकवैभवं संस्कृते संरक्षितम् अस्ति। सहस्राब्देभ्यः इयं भाषा भारतस्य चिन्तनं, चरित्रं, चेतनां सांस्कृतिकजीवनं च दिशं प्रददाति।
संस्कृतस्य महत्त्वं केवलं तस्य गौरवशालिनि अतीते एव सीमितं नास्ति; तस्य वर्तमानप्रासङ्गिकता भविष्यत्सम्भावनाः च तावत्यः एव व्यापकाः महत्त्वपूर्णाः च सन्ति। अद्य देशस्य विश्वविद्यालयेषु, महाविद्यालयेषु, गुरुकुलेषु, पारम्परिकशिक्षणसंस्थानेषु च संस्कृतस्य अध्ययनम्-अध्यापनं, शास्त्राणाम् अनुशीलनं तथा भारतीयज्ञानपरम्परायाः विविधायामेषु अनुसन्धानं निरन्तरं गतिशीलम् अस्ति। समाजे संस्कृतं प्रति वर्धमाना रुचिः तस्याध्ययनस्य विस्तृततराः आयामाः च अस्याः भाषायाः जीवन्ततायाः कालजयीप्रासङ्गिकतायाः च प्रमाणानि सन्ति।
अस्मिन् एव परिप्रेक्ष्ये आगामिनी जनगणना-२०२७ अस्माकं सम्मुखे संस्कृतस्य वास्तविकां भाषायीम् उपस्थितिं राष्ट्रियस्तरे समुचितरूपेण अभिलिखितुम् एकं महत्त्वपूर्णम् अवसरं प्रस्तौति। जनगणना केवलं जनसङ्ख्यायाः साङ्ख्यिकीयं विवरणं नास्ति, अपितु राष्ट्रस्य सामाजिक-भाषायी-सांस्कृतिकसंरचनायाः प्रामाणिकः अभिलेखः अपि भवति। अतः जनगणनायां संस्कृतस्य वास्तविकस्य मातृभाषायीज्ञानस्य अन्यभाषायीज्ञानस्य च यथोचितम् अभिलेखनं सुनिश्चितं करणम् अस्माकं सर्वेषां सामूहिकं दायित्वम् अस्ति।
सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य, वाराणस्याः कुलपतिरूपेण अहं देशस्य समस्तान् संस्कृतस्नातक-परास्नातक-आचार्य-शिक्षक-प्राध्यापक-शोधार्थि-विद्यार्थि-संस्कृतसेविनः सहितं संस्कृतभाषाज्ञानयुक्तान् सर्वान् महानुभावान् हार्दम् आह्वयामि यत् ते जनगणना-२०२७ इत्यस्य अवसरे स्वकीयवास्तविकभाषायीस्थित्यनुसारं संस्कृतस्य उल्लेखम् अवश्यं सुनिश्चितं कुर्वन्तु।
येषां मातृभाषा संस्कृतम् अस्ति, ते मातृभाषारूपेण संस्कृतस्य उल्लेखं कुर्वन्तु तथा येषां संस्कृतस्य ज्ञानम् अस्ति, ये च एतां पठितुं, लेखितुं, वक्तुम् अथवा अवगन्तुं शक्नुवन्ति, ते स्वकीयासु अन्यज्ञातभाषासु संस्कृतमपि समावेशयन्तु। अयम् उल्लेखः प्रत्येकस्य व्यक्तेः वास्तविकभाषायीज्ञाने परिचये च आधारितः भवेत्। अस्माकम् उद्देश्यं केनापि प्रकारेण सङ्ख्यानां कृत्रिमरूपेण वर्धनं नास्ति, अपितु संस्कृतस्य वास्तविकभाषायीस्वरूपस्य तज्ज्ञानवतां जनानाम् उपस्थितेः च प्रामाणिकतया राष्ट्रिय-अभिलेखेषु प्रतिष्ठापनम् अस्ति।
अस्य पुनीतोद्देश्यस्य व्यापकसाफल्याय देशस्य समस्तसंस्कृतविश्वविद्यालयान्, सम्बद्धसंस्कृतमहाविद्यालयान्, संस्कृतविद्यालयान्, गुरुकुलानि, पारम्परिकपाठशालाः, संस्कृतशिक्षकसङ्घटनानि, शोधसंस्थानानि तथा संस्कृतेन सम्बद्धानि सामाजिक-सांस्कृतिकसङ्घटनानि प्रति मम विशेषः आग्रहः अस्ति यत् ते इमम् उपक्रमं व्यापकजनजागरूकता-अभियानस्य स्वरूपं प्रददतु। सर्वाणि संस्थानानि स्वशिक्षकान्, विद्यार्थिनः, पूर्वविद्यार्थिनः, शोधार्थिनः अभिभावकान् च जागरूकान् कुर्वन्तु। संस्कृतस्य प्रत्येकः आचार्यः अध्यापकः च इमं सन्देशं स्वसम्पर्कक्षेत्रपर्यन्तं प्रापयतु तथा प्रत्येकः संस्कृतज्ञः स्वपरिवारं, परिचितान् समाजस्य च अन्यान् संस्कृतानुरागिनः अस्मिन् दिशि प्रेरयतु। विश्वविद्यालयाः संस्थाः च स्वसूचनापट्टैः, शैक्षणिकायोजनैः, सङ्गोष्ठीभिः, उपवेशनैः सामाजिकमाध्यमैः च अस्याः अभ्यर्थनायाः व्यापकं प्रचारं प्रसारं च सुनिश्चितं कुर्वन्तु।
अस्माभिः इदं स्मर्तव्यं यत् कस्यापि भाषायाः प्रतिष्ठा केवलं तस्याः प्राचीनसाहित्येन, शास्त्रीयवैभवेन ऐतिहासिकमहत्त्वेन च न, अपितु तस्याः वर्तमानभाषायी-अस्तित्वेन, सामाजिकोपस्थित्या भाविपीढीपर्यन्तं तस्याः निरन्तरतया अपि सुनिश्चिता भवति। संस्कृतं केवलं श्रद्धायाः गौरवस्य च विषयः मन्तव्यः इति पर्याप्तं नास्ति; अपितु जीवने, शिक्षायाम्, अनुसन्धाने, संवादे व्यवहारे च तस्य निरन्तरं प्रतिष्ठापनम् अपि अस्माकम् उत्तरदायित्वम् अस्ति। जनगणना-२०२७ इत्यस्मिन् तस्य यथार्थपरकं समुचितं च अभिलेखनम् अस्मिन् एव दिशि एकं महत्त्वपूर्णं पदम् अस्ति।
आगच्छन्तु, वयं सर्वे मिलित्वा इमम् अवसरं संस्कृतं प्रति स्वगौरवबोधं जागरयितुं, तस्य वास्तविकां भाषायीम् उपस्थितिं राष्ट्रियस्तरे अभिलिखितुं तथा भारतीयज्ञानपरम्परायाः अमूल्यनिधिं भाविपीढीभ्यः समर्पयितुं च सामूहिकसङ्कल्पे परिणमामः।
संस्कृतं केवलम् अस्माकम् अतीतस्य गौरवं नास्ति, अपितु वर्तमानस्य सांस्कृतिकचेतनायाः भविष्यतः ज्ञानसम्भावनानां च सशक्तः आधारः अपि अस्ति।
अनेन एव विश्वासेन भवतः सर्वान् पुनः प्रार्थये यत् जनगणना-२०२७ इत्यत्र स्वकीयवास्तविकभाषायीस्थित्यनुसारं संस्कृतस्य उल्लेखं सुनिश्चितं कुर्वन्तु तथा अस्मै जागरूकता-अभियानाय राष्ट्रव्यापिजनभागीदार्याः स्वरूपं प्रदातुं स्वकीयं सक्रियं सार्थकं च योगदानं यच्छन्तु।
आगच्छन्तु, संस्कृतस्य गौरवं स्वकीयां परिचितिं कुर्मः, स्वज्ञानपरम्परायै सम्मानं दद्मः, स्वसांस्कृतिकविरासतः संरक्षणाय संवर्धनाय च सङ्कल्पबद्धाः भवामः।
सादरशुभेच्छाभिः सह।
(प्रो. बिहारी लाल शर्मा)
कुलपतिः

