By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: १९ वर्षेषु १९१ देशानां भ्रमणम्, अधुना द्विचक्रिकया (साइकिल) भारतभ्रमणाय प्रस्थितः देवनाथः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > १९ वर्षेषु १९१ देशानां भ्रमणम्, अधुना द्विचक्रिकया (साइकिल) भारतभ्रमणाय प्रस्थितः देवनाथः
हिमाचलवार्ता

१९ वर्षेषु १९१ देशानां भ्रमणम्, अधुना द्विचक्रिकया (साइकिल) भारतभ्रमणाय प्रस्थितः देवनाथः

डॉ मनोज शैल
Last updated: 2026/08/13 at 9:27 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

१९ वर्षेषु १९१ देशानां भ्रमणम्, अधुना द्विचक्रिकया (साइकिल) भारतभ्रमणाय प्रस्थितः देवनाथः

हिमसंस्कृतवार्ता: – धर्मशाला।

पश्चिमबङ्गस्य सुन्दरवन-क्षेत्रात् आगतः सोमनदेवनाथः सम्प्रति साइकिलयानेन भारतभ्रमणं करोति। तस्य अस्य यात्रायाः उद्देश्यः ‘पुनर्मिलन भारतम्’, ‘एकं वृक्षम् एकं जीवनम्’ तथा ‘भारतीयाः युवजनाः क्रीडा च’ इत्यादीन् सन्देशान् सम्पूर्णदेशे प्रसारयितुम् अस्ति। सः अष्टाविंशतिः राज्येषु पञ्चसु च केन्द्रशासितप्रदेशेषु यात्रा पूर्णं कर्तुं लक्ष्यं कृत्वा अग्रे गच्छति। देवनाथस्य अनुसारं सः अद्यावधि पश्चिमबङ्गात् झारखण्डं, बिहारं, उत्तरप्रदेशं, पञ्जाबं तथा जम्मू-कश्मीरं च अतिक्रम्य हिमाचलप्रदेशं प्राप्तवान् अस्ति। तस्य कथनमस्ति यत् अग्रेऽपि द्विचक्रिकया देशस्य विभिन्नराज्येषु केन्द्रशासितप्रदेशेषु च यात्रा निरन्तरं भविष्यति।

देवनाथेन कथितं यत् सः २७ मई २००४ दिनाङ्के विश्वभ्रमणम् आरब्धवान्। प्रायः १९ वर्षेषु तेन १९१ देशानां सप्तमहाद्वीपानां च भ्रमणं कृतम्। अस्मिन् काले तेन ३६ राष्ट्राध्यक्षैः ७२ प्रधानमन्त्रिभिश्च सह मेलनं कृतम्। स्वकीयासु यात्रासु सः विद्यालयेषु, महाविद्यालयेषु, विश्वविद्यालयेषु तथा विभिन्नेषु संस्थानेषु गत्वा युवभिः सह संवादं कुर्वन् भारतीयसंस्कृतेः सामाजिकजागरूकतायाः च सम्बद्धान् सन्देशान् प्रसारितवान्।

तेन उक्तं यत् २००४ तः २००७ पर्यन्तम् एशियादेशानाम्, २००७ तः २००९ पर्यन्तं यूरोपस्य, २००९ तः २०१२ पर्यन्तं यूरोपस्य अन्येषां भागानां, २०१२ तः २०१५ पर्यन्तम् आफ्रिकादेशस्य तथा २०१५ तः २०१७ पर्यन्तं दक्षिण-अमेरिकायाः अण्टार्कटिकायाश्च यात्रा कृता। ततः परं तेन मध्य-अमेरिका, कैरिबियन-प्रदेशः, अमेरिका, कनाडा इत्येतैः सह रूस, साइबेरिया, मङ्गोलिया तथा चीनदेशस्य च यात्रा कृता। कोविड्-विभिषीकाया: समये चीनदेशे अवरुद्धस्य अनुभवमपि तेन स्पष्टीकृतम्। रोगस्य संगरोधनस्य च मध्ये तेन अतीव कठिनताः अनुभूताः। अनन्तरं सः दक्षिणकोरियादेशं प्राप्तवान् तथा न्यूजीलैण्डदेशेऽपि संगरोधनस्य कारणेन प्रायः एकवर्षपर्यन्तं स्थितवान्। ततः परम् ऑस्ट्रेलिया तथा दक्षिण-पूर्व-एशियादेशानां यात्रा कुर्वन् १० दिसम्बर २०२१ दिनाङ्के भारतं प्रत्यागतवान्।

अधुना देवनाथः पुनरपि साइकिलयात्रायां प्रवृत्तः अस्ति। भारतस्य विभिन्नान् भागान् परस्परं संयोजयितुं तथा युवजनान् पर्यावरणस्य, एकतायाः, क्रीडायाश्च प्रति जागरूकान् कर्तुं सः सन्देशं प्रसारयति। तस्य कथनमस्ति यत् अस्यां यात्रायां स्थानीयैः सामाजिकसङ्घटनैः युवभिश्च सह मिलित्वा कार्यं कर्तुमपि प्रयत्नः क्रियते।

You Might Also Like

HP WEATHER UPDATE – प्रदेशे १३६ मार्गाः, २४२ पेयजलयोजनाः बाधिताः, विद्युत्पातेन २०० मेष-अजाः मृताः

लोककलाकारः डॉ. जोगेन्द्रहाब्बी संगीत-नाटक-अकादमी-पुरस्कारेण सम्मानितः

संस्कृतस्य वर्चस्वम्! इण्डिया टुडे-क्रमाङ्कने देशस्य शीर्ष-२५ विश्वविद्यालयेषु केन्द्रीयसंस्कृतविश्वविद्यालयस्य स्थानम्

मुख्यमन्त्री सुक्खू बिलासपुरस्य १५०० धीवरेभ्यः व्यतरत् ५२.५० लक्ष-रूप्यकाणि, अर्थदण्ड-क्षमापनेन सह अनेकाः महत्यः घोषणाः

हिमाचले स्वास्थ्य-सेवाभ्यः लप्स्यते नूतनः विस्तारः, ‘एम्स’-बिलासपुर-संस्थानम् उत्कृष्टं विधातुं सज्जीकरणम्

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article बालिका संस्कृतविद्यापीठे तीज-महोत्सवस्य भव्यः आयोजनः
Next Article लोककलाकारः डॉ. जोगेन्द्रहाब्बी संगीत-नाटक-अकादमी-पुरस्कारेण सम्मानितः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?