लोककलाकारः डॉ. जोगेन्द्रहाब्बी संगीत-नाटक-अकादमी-पुरस्कारेण सम्मानितः
हिमसंस्कृतवार्ता: – सिरमौरम्।
अन्तर्राष्ट्रीयख्यातिप्राप्तः लोककलाकारः डॉ. जोगेन्द्रहाब्बी लोकनृत्यस्य क्षेत्रे स्वकीयस्य उल्लेखनीयस्य योगदानस्य कृते संगीत-नाटक-अकादमी-पुरस्कारेण अलंकृतः अस्ति। अयं पुरस्कारः महामहिमराष्ट्रपतिना द्रौपदीमुर्मू-महोदयया स्वकरकमलाभ्यां प्रदत्तः।
पद्मश्री-सम्मानेन सम्मानितः वरिष्ठसाहित्यकारः लोकसंस्कृतेः मर्मज्ञश्च विद्यानन्दसरैकः तथा उस्तादबिस्मिल्लाहखाँ-पुरस्कारेण सम्मानितः लोककलाकारः डागोपलहाब्बी च संयुक्तवक्तव्ये उक्तवन्तौ यत् भारतसर्वकारस्य संस्कृतिमन्त्रालयस्य संगीत-नाटक-अकादम्या विभिन्नेषु कलाक्षेत्रेषु उल्लेखनीययोगदानं दत्तवद्भ्यः देशस्य विभूतिभ्यः महामहिमराष्ट्रपतिना द्रौपदीमुर्मू-महोदयया स्वकरकमलाभ्यां संगीत-नाटक-अकादमी-पुरस्कारः प्रदत्तः।
पद्मश्री-सम्मानेन सम्मानितः वरिष्ठसाहित्यकारः लोकसंस्कृतेः मर्मज्ञश्च विद्यानन्दसरैकः तथा उस्तादबिस्मिल्लाहखाँ-पुरस्कारेण सम्मानितः लोककलाकारः डॉ.
गोपलहाब्बी च संयुक्तवक्तव्ये उक्तवान् यत् भारतसर्वकारस्य संस्कृतिमन्त्रालयस्य संगीत-नाटक-अकादम्या विभिन्नेषु कलाक्षेत्रेषु उल्लेखनीययोगदानं दत्तवतीभ्यः देशस्य विभूतिभ्यः महामहिमराष्ट्रपतिना द्रौपदीमुर्मू-महोदयया स्वकरकमलाभ्यां संगीत-नाटक-अकादमी-पुरस्कारः प्रदत्तः।e
नवदेहल्याः विज्ञानभवने आयोजितस्य भव्यस्य अलंकरणसमारोहस्य शुभारम्भः राष्ट्रपतिना द्रौपदीमुर्मू-महोदयया दीपप्रज्वालनेन कृतः।
उल्लेखनीयं यत् डॉ. हाब्बी-महोदयस्य नेतृत्वे लोककलाकारैः सिरमौरी-नाटीसहिताः अनेकाः पारम्परिकाः विलुप्तप्रायाः लोककलाः विगतेषु पञ्चत्रिंशद्वर्षेषु मिश्रितगीतैः इलेक्ट्रॉनिकवाद्यैश्च दूरं स्थित्वा, लोकवाद्यानां, लोकवस्त्राणां, लोकगीतानां लोकनृत्यानां च शुद्धतां संरक्ष्य देश-विदेशेषु सहस्राधिकेषु मञ्चेषु सिरमौरी-हाटी-संस्कृतेः विशिष्ट: परिचय: स्थापित:।सिरमौरी-नाट्याः वैश्विकपरिचयं प्रदातुं दिशि तेषां सफलप्रयत्नानाम् अन्तर्राष्ट्रीय-अभिलेखेषु उपलब्धीनां रूपेणापि मान्यता प्राप्ता अस्ति। तेषाम् अस्याः दीर्घकालीनस्य सांस्कृतिकसाधनायाः परिणामस्वरूपं विदेशस्य एकेन विश्वविद्यालयेन तेषां कृते डॉक्टरेट् इत्यस्य मानदोपाधिरपि प्रदत्ता अस्ति।
पद्मश्री विद्यानन्दसरैकः, गोपालहाब्बी तथा हिमाचलप्रदेशस्य बाह्यराज्यानां च शतशः लोककलाकाराः अस्यै गौरवपूर्णायै ऐतिहासिकायै उपलब्ध्यै डॉ. हाब्बी-महोदयाय अभिनन्दनानि समर्पितवन्तः। ते विश्वासं व्यक्तवन्तः यत् अयं सम्मानः हिमाचलस्य लोककलानां संरक्षणाय तथा नवसन्ततिं स्वकीयैः सांस्कृतिकमूलैः सह संयोजयितुं क्रियमाणेभ्यः प्रयत्नेभ्यः नूतनां ऊर्जां प्रदास्यति।
