By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: बालिका संस्कृतविद्यापीठे तीज-महोत्सवस्य भव्यः आयोजनः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > बालिका संस्कृतविद्यापीठे तीज-महोत्सवस्य भव्यः आयोजनः
प्रादेशिकवार्ताविविधसंस्कृतगतिविधयः

बालिका संस्कृतविद्यापीठे तीज-महोत्सवस्य भव्यः आयोजनः

जगदीश डाभी
Last updated: 2026/08/13 at 8:46 PM
जगदीश डाभी
Share
2 Min Read
SHARE

बालिका संस्कृतविद्यापीठे तीज-महोत्सवस्य भव्यः आयोजनः

 

वार्ताप्रेषक: – दीपक शास्त्री

(हरियाणा) महिलानाम् उत्थानस्य स्वावलम्बनस्य च सन्देशः बालिका संस्कृतविद्यापीठे हरियाली-तीज-महोत्सवस्य भव्यं हर्षोल्लासपूर्णं च आयोजनम् अभवत्। अस्य कार्यक्रमस्य उद्देश्यं छात्राभ्यः भारतीयसंस्कृतेः, परम्पराणां लोकाचाराणां च परिचयं कारयितुं तथा नारी-सशक्तीकरणं महिला-स्वावलम्बनं च प्रोत्साहयितुम् आसीत्।

अस्मिन् अवसरे छात्राः उत्साहपूर्वकं विविधप्रकारकाणि स्वनिर्मितानि व्यञ्जनानि अपाचयन्। छात्राभिः गोलगप्पाः, चाट्, नमकीनम्, सैण्डविच् इत्यादीनां स्वादिष्टव्यञ्जनानां विविधाः विक्रयस्थलिकाः स्थापिताः। छात्राभिः स्वहस्तेन व्यञ्जनानि निर्माय सृजनात्मकतायाः, पाककौशलस्य, आत्मनिर्भरतायाः उद्यमशीलतायाः च परिचयः प्रदत्तः।

कार्यक्रमे बालिका संस्कृतविद्यापीठस्य प्राचार्या डॉ. सुमन शर्मा महोदयया महिलानाम् शिक्षा, सम्मानः, आत्मनिर्भरता, अधिकाराः तथा समाजे तासां महत्त्वपूर्णा भूमिका इत्यादिविषयेषु प्रेरणादायकं व्याख्यानं प्रदत्तम्। तया उक्तं यत् नारी समाजस्य विकासस्य प्रमुखा आधारशिला अस्ति तथा प्रत्येकां महिलां स्वावलम्बिनीं सशक्तां च कर्तुं समाजस्य दायित्वम् अस्ति।

तथैव अत्रि चैरिटेबल फाउण्डेशनस्य श्रीमान् शरद् अत्रि महोदयेन महिलानाम् उत्थानं, कौशलविकासः, स्वावलम्बनम्, आत्मविश्वासः तथा आर्थिक-सशक्तीकरणम् इत्यादिविषयेषु सारगर्भितं प्रेरणादायकं च व्याख्यानं प्रदत्तम्। तेन महिलाः स्वप्रतिभायाः कौशलस्य च विकासं कृत्वा आत्मनिर्भराः भूत्वा समाजस्य प्रगतौ योगदानं दातुं प्रेरिताः।

तीज-महोत्सवे छात्राभिः महिलाभिश्च मेहन्दी-अलंकरणम्, दोलाक्रीडा, लोकगीतानि, नृत्यं सांस्कृतिक-प्रस्तुतयः च आनन्देन अनुभूताः। पारम्परिक-वेषभूषया सुसज्जिताः छात्राः भारतीयसंस्कृतेः मनोहरां झलकीं प्रस्तुतवत्यः।

कार्यक्रमे वक्तारः अवदन् यत् नारी केवलं परिवारस्य आधारशिला एव न, अपितु समाजस्य राष्ट्रस्य च विकासस्य महत्त्वपूर्णा शक्तिः अस्ति। यदा महिलाः शिक्षिताः आत्मनिर्भराश्च भवन्ति, तदा सम्पूर्णः समाजः प्रगतिं करोति।

विद्यालय-परिवारेण अस्मिन् शुभावसरे सर्वाभ्यः छात्राभ्यः, शिक्षिकाभ्यः अतिथिभ्यश्च तीज-पर्वणः हार्दिकाः शुभकामनाः प्रदत्ताः। सम्पूर्णः कार्यक्रमः भारतीयसंस्कृतेः, नारीसम्मानस्य, महिला-सशक्तीकरणस्य, आत्मनिर्भरतायाः सामाजिक-उत्थानस्य च प्रेरणादायकं सन्देशं दत्त्वा सम्पन्नः अभवत्।

You Might Also Like

संस्कृतस्य वर्चस्वम्! इण्डिया टुडे-क्रमाङ्कने देशस्य शीर्ष-२५ विश्वविद्यालयेषु केन्द्रीयसंस्कृतविश्वविद्यालयस्य स्थानम्

पुनः बृहद्पटले दर्शनं दास्यत: सञ्जयदत्तः सलमानखानश्च, अरबीचलच्चित्रं ‘7 डॉग्स’ भारतदेशे अस्मिन् दिने प्रदर्शितं भविष्यति

“HTET-परीक्षायां संस्कृतविभागस्य विद्यार्थिनां भव्यसफलता”

*असमराज्ये भीषणजलप्लवनम् – कुमारभास्करवर्म-संस्कृतपुरातनाध्ययनविश्वविद्यालयस्य संस्कृतभारत्याः च संयुक्ता श्रमदानयात्रा प्रारब्धा* 

‘आवारापन 2’ इत्यस्य विज्ञापन पुटकं प्रसारितं, खलनायिकायाः भूमिकायां शबाना आज़मी दृष्टा

TAGGED: आज के संस्कृत समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By जगदीश डाभी
Follow:
संस्कृतप्रेमिणां कृते सुलभं माध्यमम् अर्थात् हिमसंस्कृतवार्ता:, भवद्भिः हिमाचलप्रदेशात् नित्यं प्रकाशितं हिमांस्कृतवार्ता: पठित्वा स्वमित्रान् अपि पठितुं प्रेरयन्तु ।
Previous Article संस्कृतस्य वर्चस्वम्! इण्डिया टुडे-क्रमाङ्कने देशस्य शीर्ष-२५ विश्वविद्यालयेषु केन्द्रीयसंस्कृतविश्वविद्यालयस्य स्थानम्
Next Article १९ वर्षेषु १९१ देशानां भ्रमणम्, अधुना द्विचक्रिकया (साइकिल) भारतभ्रमणाय प्रस्थितः देवनाथः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?